श्रीः अध्यायः 121 सात्यकियुद्धवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् । 001a
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ॥ 001c
कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम् । 002a
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः ॥ 002c
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः । 003a
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥ 003c
कथं च मम पुत्राणां जीवतां तत्र सञ्जय । 004a
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय ॥ 004c
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् । 005a
एकस्य बहुभिः सार्धं शत्रुभिस्तैर्महारथैः ॥ 005c
विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति । 006a
यत्रावध्यन्त समरे सात्वतेन महारथाः ॥ 006c
एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय । 007a
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥ 007c
निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम् । 008a
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥ 008c
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे । 009a
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः ॥ 009c
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः । 010a
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥ 010c
सञ्जय उवाच 011
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च । 011a
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥ 011c
ते पुनः सन्न्यवर्तन्त कृत्वा संशपथान्मिथः । 012a
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात् ॥ 012c
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः । 013a
शककाम्भोजबाह्लीका यवनाः पारदास्तथा ॥ 013c
कुलिन्दास्तङ्कणाम्बष्ठाः पैशाचाश्च सबर्बराः । 014a
पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः । 014c
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ 014e
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् । 015a
शूराः पञ्चशतं राजञ्शैनेयं समुपाद्रवन् ॥ 015c
ततो रथसहस्रेण महारथशतेन च । 016a
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥ 016c
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः । 017a
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥ 017c
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत । 018a
दुःशासनो महाराज सात्यकिं पर्यवारयत् ॥ 018c
तत्राद्भुतमपश्याम शैनेयचरितं महत् । 019a
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥ 019c
अवधीच्च रथानीकं द्विरदानां च तद्बलम् । 020a
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥ 020c
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः । 021a
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥ 021c
कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः । 022a
वर्मभिश्च तथाऽनीकैर्व्यवकीर्णा वसुन्धरा ॥ 022c
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष । 023a
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥ 023c
गिरिरूपधरैश्चापि पतितैश्च महागजैः । 024a
'म्लेच्छस्थितैर्महाराज भिन्नाञ्जनचयोपमैः ॥ 024c
मृगैर्मन्द्रैश्च भद्रैश्च मृगमन्द्रैस्तथाऽपरैः । 025a
भद्रैर्मन्द्रमृगैश्चैव मृगभद्रैस्तथैव च ॥ 025c
भद्रमन्द्रैश्चैव तथा तथा भद्रमृगैरपि । 026a
तत्रतत्र धरा कीर्णा शयानैः पर्वतोपमैः ॥' 026c
अञ्जनस्य कुले जाता वामनस्य च भारत । 027a
सुप्रतीककुले जाता महापद्मकुले तथा ॥ 027c
ऐरावतकुले चैव तथाऽन्येषु कुलेषु च । 028a
जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥ 028c
वनायुजान्पार्वतीयान्काम्भोजान्बाह्लिकानपि । 029a
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥ 029c
नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः । 030a
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥ 030c
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् । 031a
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 031c
तांश्चातिभग्नान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव । 032a
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥ 032c
अश्मयुद्धेषु कुशला नैतज्जानापि सात्यकिः । 033a
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम् ॥ 033c
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः । 034a
अभिद्रवत माभैष्ट न वः प्राप्स्यति सात्यकिः ॥ 034c
ते पार्वतीया राजानः सर्वे पाषाणयोधिनः । 035a
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः ॥ 035c
ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः । 036a
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे ॥ 036c
क्षेरणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः । 037a
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः ॥ 037c
तेषामापततामेव शिलायुद्धं चिकीर्षताम् । 038a
सात्यकिः प्रतिसन्धाय निशितान्प्राहिणोच्छरान् ॥ 038c
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् । 039a
चिच्छेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ॥ 039c
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः । 040a
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष ॥ 040c
ततः पञ्चशतं शूराः समुद्यतमहाशिलाः । 041a
निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥ 041c
सात्वतस्य च भल्लेन निष्पिष्टैस्तैस्तथाऽद्रिभिः । 042a
न्यपतन्निहता म्लेच्छास्तत्रतत्र गतासवः ॥ 042c
ते हन्यमानाः समरे सात्वतेन महात्मना । 043a
अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते ॥ 043c
पाषाणयोधिनः शूरान्यतमानानवस्थितान् । 044a
न्यवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥ 044c
ततः पुनर्बस्तमुखैरश्मवृष्टीः समन्ततः । 045a
अधोबस्तैः स्थूलबस्तैर्दरदैः खसतङ्कणैः ॥ 045c
लम्बकैश्च कुणिन्दैश्च क्षिप्ताः क्षिप्ताश्च सात्यकिः । 046a
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः ॥ 046c
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः । 047a
शब्देन प्राद्रवन्सङ्ख्ये रथाश्वगजपत्तयः ॥ 047c
अश्मचूर्णैरवाकीर्णा मनुष्यगजवाजिनः । 048a
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥ 048c
हतशिष्टाः सरुधिरा भिन्नमस्तकपिण्डिकाः । 049a
'विभिन्नशिरसो राजन्दन्तैश्छिन्नैश्च दन्तिनः । 049c
निर्धूतैश्च करैर्नागा व्यङ्गाश्च शतशः कृताः ॥ 049e
हत्वा पञ्चशतं योधांस्तत्क्षणेनैव मारिष । 050a
व्यचरत्पृतनामध्ये शैनेयः कृतहस्तवत् ॥ 050c
कुञ्जराः सन्न्यवर्तन्त युयुधानेन मोहिताः ॥ 051ac
अश्मनां भिद्यमानानां सायकैः श्रूयते ध्वनिः । 052a
पद्मपत्रेषुधाराणां पतन्तीनामिव ध्वनिः ॥' 052c
ततः शब्दः समभवत्तव सैन्यस्य मारिष । 053a
माधवेनार्द्यमानस्य सागरस्येव पर्वणि ॥ 053c
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् । 054a
एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥ 054c
दारयन्बहुधा सैन्यं रणे चरति कालवत् । 055a
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥ 055c
पाषाणयोधिभिर्नूनं युयुधानः समागतः । 056a
तथाहि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥ 056c
विशस्त्रकवचा रुग्णास्तत्रतत्र पतन्ति च । 057a
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥ 057c
सञ्जय उवाच 058
इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः । 058a
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम् ॥ 058c
सैन्यं द्रवति चायुष्मन्कौरवेयं समन्ततः । 059a
पश्य योधान्रणे भग्नान्धावतो वै ततस्ततः ॥ 059c
इमे च संहताः शूराः पाञ्चालाः पाण्डवैः सह । 060a
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः ॥ 060c
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम । 061a
स्वाने वा गमने वापि दूरं यातश्च सात्यकिः ॥ 061c
सञ्जय उवाच 062
तथैवं वदतस्तस्य भारद्वाजस्य सारथेः । 062a
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥ 062c
ते वध्यमानाः समरे युयुधानेन तावकाः । 063a
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥ 063c
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत । 064a
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥ ॥ 064c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

5-121-11 दुर्योधनस्य कृतेन कर्मणा ॥ 5-121-12 मतिं कृत्वेत्यन्वयः ॥ 5-121-25 मृगमन्द्रादयो गजविशेषाः ॥ 5-121-27 वामनस्य यमोपवाह्यस्य । सुप्रतीकस्य ईशोपवाह्यस्य । महापद्मस्य कुमुदस्य कुले ॥ 5-121-28 अन्येषु कुलेषु पुण्डरीकपुष्पदन्तसार्वभौमीयेषु ॥ 5-121-37 क्षेपणीयैः शस्त्रैः ॥ 5-121-45 ततः पुनर्व्यात्तमुखास्तेऽश्मवृष्टीः समन्ततः । अयोहस्ताः शूलहस्ता दरदास्तङ्कणाः खसाः । लम्पकाश्च कुलिन्दाश्च चिक्षिपुस्तांश्च सात्यकिः । इति झ. ञ. घ. पाठः ॥ 5-121-47 अद्रीणां प्रस्तराणाम् ॥ 5-121-121 एकविंशत्यधिकशततमोऽध्यायः ॥