श्रीः अध्यायः 120 सात्यकियुद्धवर्णनम् ॥ सञ्जय उवाच 001
जित्वा यवनकाम्भोजान्युयुधानस्ततोऽर्जुनम् । 001a
जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥ 001c
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः । 002a
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥ 002c
स रथेन चरन्मार्गान्धनुरुद्धामयद्भृशम् । 003a
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥ 003c
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः । 004a
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ ॥ 004c
सधनुर्मण्डलः सङ्ख्ये तेजोभासुररश्मिवान् । 005a
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥ 005c
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः । 006a
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥ 006c
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् । 007a
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥ 007c
व्याधा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन् । 008a
'सात्यकिं समरे राजन्परिवव्रुस्तवात्मजाः ॥' 008c
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् । 009a
जलसन्धार्णवं तीर्त्वा काम्भोजानां च वाहिनीम् ॥ 009c
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् । 010a
परिवव्रुः सुसङ्क्रुद्वास्त्वदीयाः सात्यकिं रथाः ॥ 010c
दुर्योधनश्चित्रसेनो दुःशासनविविंशती । 011a
शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः ॥ 011c
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः । 012a
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः ॥ 012c
अथ शब्दो महानासीत्तव सैन्यस्य मारिष । 013a
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 013c
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः । 014a
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥ 014c
इदमेति समुद्धूतं धार्तराष्ट्रबलं महत् । 015a
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् । 015c
नादयद्वै दिशः सर्वा रथघोषेण सारथे ॥ 015e
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि । 016a
एतद्बलार्णवं सूत वारयिष्ये महारणे । 016c
पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम् ॥ 016e
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे । 017a
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥ 017c
निहतानाहवे पश्य पदात्यश्वरथद्विपान् । 018a
मच्छरैरग्निसङ्काशैर्विद्धदेहान्सहस्रशः ॥ 018c
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः । 019a
समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः । 019c
जह्याद्रवस्व तिष्ठेति पश्यपश्येति वादिनः ॥ 019e
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः । 020a
जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् । 020c
'लध्वस्त्रश्चित्रयोधी च प्रहरञ्शिनिपुङ्गवः ॥' 020e
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् । 021a
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥ 021c
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष । 022a
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥ 022c
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् । 023a
असम्भ्रमन्महाराज तावकानवधीद्बहून् ॥ 023c
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् । 024a
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥ 024c
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः । 025a
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥ 025c
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः । 026a
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः । 026c
बभ्राम तत्रतत्रैव गावः शीतार्दिता इव ॥ 026e
पदातिनं रथं नागं सादिनं तुरगं तथा । 027a
अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥ 027c
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः । 028a
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥ 028c
अत्यर्जुनं शिनेः पौत्रो युध्यते पुरुषर्षभः । 029a
वीतभीर्लाघवोपेतः कृतित्वं सम्प्रदर्शयन् ॥ 029c
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः । 030a
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥ 030c
सात्यकिं च त्रिभिर्विद्ध्वा पुनरष्टाभिरेव च । 031a
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥ 031c
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः । 032a
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥ 032c
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः । 033a
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥ 033c
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः । 034a
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥ 034c
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च । 035a
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ 035c
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा । 036a
दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः ॥ 036c
अथान्यद्धनुरादाय श्यालस्तव विशाम्पते । 037a
अष्टाभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 037c
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः । 038a
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥ 038c
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् । 039a
ततोस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥ 039c
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् । 040a
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥ 040c
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् । 041a
आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥ 041c
पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो । 042a
वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥ 042c
ततस्तव सुतो राजन्सैनिकाश्च विशाम्पते । 043a
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥ 043c
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः । 044a
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥ 044c
विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः । 045a
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥ 045c
'तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष । 046a
दृष्टं चादृष्टवत्कृत्वा क्रियामन्यामयोजयन् ॥' 046c
तं शरानाददानं च रक्षमाणं च सारथिम् । 047a
आत्मानं पालयानं च तावकाः समपूजयन् ॥ ॥ 047c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥