श्रीः अध्यायः 119 सात्यकिपराक्रमवर्णनम् ॥ 1 ॥ 'सञ्जय उवाच 001
निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे । 001a
स सात्यकिः सत्यधृतिर्महात्मा शिनिपुङ्गवः ॥ 001c
*दुर्योधनं च निर्जित्य शूरं चैव सुयोधनम् । 002a
जलसन्धं निहत्याजौ शूरसेनं च पार्थिवम् ॥ 002c
म्लेच्छांश्च बहुधा राजन्काश्यपुत्रं च संयुगे । 003a
निषादांस्तङ्कणांश्चैव कलिङ्गान्मगधानपि ॥ 003c
केकयाञ्छूरसेनांश्च तथा पर्वतवासिनः । 004a
काम्भोजान्यवनांश्चैव वसातींश्च शिबीनपि ॥ 004c
कोसलान्मगधांश्चैव यातुधानान्सतित्तिरान् । 005a
एतांश्चान्यान्रणे हत्वाऽगच्छद्युद्धे स सात्यकिः ॥ 005c
रुधिरौघनदीं घोरां केशशैवालशाद्वलाम् । 006a
शक्तिग्राहसमाकीर्णां छत्रहंसोपशोभिताम् ॥ 006c
दुस्तरां भीरुभिर्नित्यं शूरलोकप्रवाहिनीम् । 007a
प्रवर्त्य हृषितो राजन्पुनर्यन्तारमब्रवीत् ॥ 007c
ध्वजनागाश्वकलिलं शरशक्त्यूर्मिमालिनम् ।' 008a
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥ 008c
प्राणापहारिणं रौद्रं वादित्रोद्घुष्टनादितम् । 009a
शूराणां सुखसंस्पर्शमस्पृश्यमथ भीरुणाम् । 009c
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ॥ 009e
जलसन्धबलेनाजौ पुरुषादैरिवावृतम् । 010a
अतोऽन्यत्पृतनाशेषं मन्ये कुनदिकामिव ॥ 010c
तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् । 011a
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् ॥ 011c
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे । 012a
हार्दिक्यं योधवर्यं च मन्ये प्राप्तं धनञ्जयम् ॥ 012c
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः । 013a
वह्नेरिव प्रदीप्तस्य वने शुष्कतृणालयम् ॥ 013c
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना । 014a
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥ 014c
द्रवते तद्यथा सैन्यं तेन भग्नं महात्मना । 015a
रथैर्विपरिधावद्भिर्गजैरश्वैश्च सारथे । 015c
कौशेयारुणसङ्काशमेतद्धूयते रजः ॥ 015e
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ॥ 016ac
श्रूयते ह्येष निर्घोषो जलदस्येव गर्जतः । 017a
विष्फार्यमाणस्य रणे गाण्डीवस्यामितौजसः ॥ 017c
अभ्याशस्थमहं मन्ये सैन्धवस्य किरीटिनम् । 018a
तादृशः श्रूयते शब्दः सैन्यानां सागरोपमः ॥ 018c
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै । 019a
अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः ॥ 019c
शनैर्विस्रम्भयन्नश्वान्याहि यत्रारिवाहिनी ॥ 020ac
यत्रैते सतलत्राणाः सुयोधनपुरोगमाः । 021a
दंशिताः क्रूरकर्माणः काम्भोजा युद्धदुर्मदाः ॥ 021c
शरबाणासनधरा यवनाश्च प्रहारिणः । 022a
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ॥ 022c
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः । 023a
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥ 023c
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः । 024a
इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥ 024c
सूत उवाच 025
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम । 025a
यद्यपि स्यात्तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥ 025c
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा । 026a
तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥ 026c
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन । 027a
दंशिताःक्रूरकर्माणः काम्भोजा युद्धदुर्मदाः ॥ 027c
शरबाणासनधरा यवनाश्च प्रहारिणः । 028a
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः । 028c
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ॥ 028e
न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कथञ्चन । 029a
किमुतैतत्समासाद्य धीर संयुगगोष्पदम् ॥ 029c
आयुष्मन्कतरेण त्वां प्रापयामि धनञ्जयम् । 030a
केभ्यः क्रुद्धोऽसि वार्ष्णेय कान्स्विन्मृत्युरुपस्थितः ॥ 030c
केषां सङ्घमनीकस्य हन्तुमुत्सहते मनः । 031a
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् ॥ 031c
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे । 032a
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥ 032c
सात्यकिरुवाच 033
मुण्डानेतान्हनिष्यामि दानवानिव वासवः । 033a
प्रतिज्ञां पारयिष्यामि काम्भोजानेव मां वह ॥ 033c
अन्येषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥ 034ac
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः । 035a
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥ 035c
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे । 036a
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ॥ 036c
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः । 037a
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥ 037c
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः । 038a
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥ 038c
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् । 039a
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥ 039c
मत्सायकचिताङ्गानां रुधिरं स्रवतां मुहुः । 040a
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ॥ 040c
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् । 041a
द्विफल्गुनमिमं लोकं मंस्यतेऽद्य सुयोधनः ॥ 041c
अद्य राजसहस्राणि निहतानि मया रणे । 042a
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ॥ 042c
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु । 043a
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥ 043c
बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः ॥ 044ac
सञ्जय उवाच 045
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः । 045a
शशाङ्कसन्निकाशान्वै वाजिनो व्यनुदद्भृशम् ॥ 045c
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः । 046a
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ॥ 046c
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् । 047a
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥ 047c
तेषामिषूनथास्त्राणि वेगवान्नतपर्वभिः । 048a
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥ 048c
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः । 049a
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥ 049c
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः । 050a
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥ 050c
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे । 051a
शतशोऽभ्यपतंस्तत्र व्यसवो वसुधातले ॥ 051c
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः । 052a
पञ्च षट् सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥ 052c
काम्भोजानां सहस्रैश्च शकानां च विशाम्पते । 053a
शबराणां किरातानां बर्बराणां तथैव च ॥ 053c
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् । 054a
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥ 054c
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः । 055a
दीर्घकूर्चैर्मही कीर्णा विबर्हैरण्डजैरिव ॥ 055c
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ । 056a
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥ 056c
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः । 057a
ते सात्वतेन निहताः समावव्रुर्वसुन्धराम् ॥ 057c
'तेषामस्त्राणि बाणांश्च शैनेयो नतपर्वभिः । 058a
निचकर्त महाराज यवनानां शिरोधराः ॥ 058c
ते शरा नतपर्वाणो युयुधानप्रचोदिताः । 059a
हित्वा देहांस्तथा तेषां पतन्ति स्म महीतले ॥ 059c
ते हन्यमाना वीरास्तु वृष्णिवीरेण संयुगे । 060a
शस्त्राहताः पतन्त्युर्व्यां काम्भोजाः सपदानुगाः ॥ 060c
काम्भोजानां भुजैश्छिन्नैर्यवनानां च भारत । 061a
तत्रतत्र मही भाति पञ्चास्यैरिव पन्नगैः ॥' 061c
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः । 062a
जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ॥ 062c
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् । 063a
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥ 063c
काम्भोजसैन्यं विद्राव्य दुर्जयं युधि भारत । 064a
यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥ 064c
ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः । 065a
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥ 065c
तत्तस्य समरे कर्म दृष्ट्वाऽन्यैरकृतं पुरा । 066a
चारणाः सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम् ॥ 066c
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते । 067a
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन् ॥ ॥ 067c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

5-119-01* एतदादिसार्धसप्तश्लोकस्थाने वक्ष्यमाणः सार्धएव श्लोकः झ. पुस्तकेऽस्ति । सञ्जय उवाच । ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः । सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत् ॥ रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् । 5-119-20 विस्रम्भयन् आश्वासयन् ॥ 5-119-33 पारयिष्यामि समापयिष्यामि ॥ 5-119-50 शैक्यायसानि शोणितायोमयानि ॥ 5-119-52 सुपूर्णायतमुक्तैराकर्णज्योत्सृष्टैः । अव्यवच्छिन्नपिण्डितैरनवच्छिन्नसंहतैः ॥ 5-119-119 एकोनविंशत्यधिकशततमोऽध्यायः ॥