श्रीः
अध्यायः 118
सात्यकिना सुदर्शननाम्नो राज्ञो वधः ॥ 1 ॥
सञ्जय उवाच 001
द्रोणं स जित्वा पुरुषप्रवीरस्तथैव हार्दिक्यमुखांस्त्वदीयान् । 001a
प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुङ्गवाग्र्य ॥ 001c
निमित्तमात्रं वयमद्य सूत दग्धा रथाः केशवफल्गुनाभ्याम् । 002a
हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन ॥ 002c
सञ्जय उवाच 003
तमेवमुक्त्वा शिनिपुङ्गवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा । 003a
किरन्समन्तात्सहसा शरान्बली समापतच्छयेन इवामिषाशया ॥ 003c
तं यान्तमश्वैः शशिशङ्खवर्णैर्विगाह्य सैन्यं पुरुषप्रवीरम् । 004a
नाशक्नुवन्वारयितुं समन्तादादित्यरश्मिप्रतिमं रथाग्र्यम् ॥ 004c
असह्यविक्रान्तमदीनसत्वं सर्वे गणा भारत ये त्वदीयाः । 005a
सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये ॥ 005c
अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी । 006a
सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य ॥ 006c
तयोरभूद्भारतसम्प्रहारः सुदारुणस्तं समतिप्रशंसन् । 007a
योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥ 007c
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्यत्सुदर्शनः सात्वतमुख्यमाजौ । 008a
अनागतानेव तु तान्पृषत्कांश्चिच्छेद राजञ्शिनिपुङ्गवोऽपि ॥ 008c
तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान्क्षिपति स्म सायकान् । 009a
द्विधा त्रिधा तानकरोत्सुदर्शनः शरोत्तमैः स्यन्दनवर्यमास्थितः ॥ 009c
तान्वीक्ष्य बाणान्निहतांस्तदानीं सुदर्शनः सात्यकिबाणवेगैः । 010a
क्रोधाद्दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत्तपनीयचित्रान् ॥ 010c
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सुपुङ्खैः । 011a
विव्याध देहावरणं विभिद्य ते सात्यकेराविविशुः शरीरम् ॥ 011c
तथैव तस्यावनिपालपुत्रः सन्धाय बाणैरपरैर्ज्वलद्भिः । 012a
आजघ्निवांस्तान्रजतप्रकाशांश्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥ 012c
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः । 013a
सुदर्शनस्येषुगणैः सुतीक्ष्णैर्हयान्निहत्याशु ननाद नादम् ॥ 013c
अथास्य सूतस्य शिरो निकृत्य भल्लेन शक्राशनिसन्निभेन । 014a
सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण कालानलसन्निभेन ॥ 014c
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं विचकर्त देहात् । 015a
यथा पुरा वज्रधरः प्रसह्य बलस्य सङ्ख्येऽतिबलस्य राजन् ॥ 015c
निहत्य तं पार्थिवपुत्रपौत्रं रणे यदूनामृषभस्तरस्वी । 016a
मुदा समेतः परया महात्मा रराज राजन्सुरराजकल्पः ॥ 016c
ततो ययावर्जुनमेव वीरो निवार्य सैन्यं तव मार्गणौघैः । 017a
सदश्वयुक्तेन रथेन राजल्ँलोकं विसिस्मापयिषुर्नृवीरः ॥ 017c
तत्तस्य विस्मापयनीयमग्र्यमपूजयन्योधवराः समेताः । 018a
प्रवर्तमानानिषुगोचरेऽरीन्ददाह बाणैर्हुतभुग्यथैव ॥ ॥ 018c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥