श्रीः
अध्यायः 117
सात्यकिपराक्रमवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः । 001a
भारद्वाजः शरव्रातैर्मर्मभिद्भिरवाकिरत् ॥ 001c
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत् । 002a
पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥ 002c
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः । 003a
त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥ 003c
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः । 004a
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥ 004c
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् । 005a
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥ 005c
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् । 006a
द्वाभ्यान्द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥ 006c
तामस्य लघुतां द्रोणः समवेक्ष्य विशाम्पते । 007a
प्रहस्य सहसाऽविध्यत्त्रिंशता शिनिपुङ्गवम् ॥ 007c
पुनः पञ्चशतेषूणां शितेन च समार्पयत् । 008a
लघुतां युयुधानस्य लाघवेन विशेषयन् ॥ 008c
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः । 009a
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः ॥ 009c
तथैव युयुधानेन सृष्टाः शतसहस्रशः । 010a
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥ 010c
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष । 011a
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥ 011c
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः । 012a
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ॥ 012c
सारथिं च शतेनैव भारद्वाजस्य पश्यतः । 013a
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः ॥ 013c
सप्तत्या सारथिं विद्ध्वा तुरङ्गांश्च त्रिभिस्त्रिभिः । 014a
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम् ॥ 014c
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा । 015a
धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥ 015c
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः । 016a
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥ 016c
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् । 017a
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥ 017c
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः । 018a
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥ 018c
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत । 019a
तं वै न ममृषे द्रोणः सिंहनादं महात्मनः ॥ 019c
ततः शक्तिं रणे द्रोणो रुक्मदण्डामयस्मयीम् । 020a
तरसा प्रेषयामास माधवस्य रथं प्रति ॥ 020c
अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा । 021a
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥ 021c
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा । 022a
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥ 022c
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः । 023a
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥ 023c
मुमोह सारथिस्तस्य रथशक्त्या समाहतः । 024a
स रथोपस्थमासाद्य मुहूर्तं सन्न्यषीदत ॥ 024c
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् । 025a
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥ 025c
ततः शरशतेनैव युयुधानो महारथः । 026a
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशाम्पते ॥ 026c
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत । 027a
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे ॥ 027c
निर्विद्धस्तु शरैर्घोरैरक्रुद्ध्यत्सात्यकिर्भृशम् । 028a
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥ 028c
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि । 029a
अश्वान्व्यद्रावयद्बाणैर्हतसूतांस्ततस्ततः ॥ 029c
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः । 030a
चकार राजतो राजन्भ्राजमान इवांशुमान् ॥ 030c
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत । 031a
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥ 031c
ते सात्यकिमपास्याशु राजन्युधि महारथाः । 032a
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥ 032c
तान्दृष्ट्वा प्रद्रुतान्सङ्ख्ये सात्वतेन शरार्दितान् । 033a
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥ 033c
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः । 034a
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितैः ॥ 034c
पाण्डुपाञ्चालसम्भिन्नं व्यूहमालोक्य वीर्यवान् । 035a
शैनेये नाकरोद्यत्नं व्यूहमेवाभ्यरक्षत ॥ 035c
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव । 036a
तस्थौ क्रोधेध्मसन्दीप्तः कालसूर्य इवोद्यतः ॥ ॥ 036c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥
5-117-23 रथशक्त्या केतकपत्राकारमुखया शक्त्या ॥ 5-117-117 सप्तदशाधिकशततमोऽध्यायः ॥