श्रीः अध्यायः 116 सात्यकिना दुर्योधनकृतवर्मणोः पराजयः ॥ 1 ॥ सञ्जय उवाच 001
'सात्वतस्य रणे कर्म दृष्ट्वा योद्धुं महारथाः । 001a
अमृष्यमाणाः संयत्ताः शैनेयं समुपाद्रवन् ॥' 001c
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः । 002a
त्वरमाणा महाराज युयुधानमयोधयन् ॥ 002c
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः । 003a
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥ 003c
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः । 004a
विव्याध मार्गणैस्तूर्णं वामपार्श्वे स्तनान्तरे ॥ 004c
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः । 005a
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥ 005c
दुर्योधनश्च महता शरवर्षेण माधवम् । 006a
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥ 006c
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः । 007a
'स तुद्यमानश्च तदा सर्वतः कुरुपुङ्गवैः ॥' 007c
तान्प्रत्यविध्यद्वार्ष्णेयः पृथक्पृथगजिह्मगैः । 008a
'सात्यकिः पुण्डरीकाक्षो ह्यस्त्रेषु परिनिष्ठितः ॥' 008c
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः । 009a
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥ 009c
दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम् । 010a
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥ 010c
'दुर्योधनं त्रिभिर्विद्ध्वा सुपुङ्खैस्तिग्मतेजनैः ।' 011a
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः । 011c
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥ 011e
राजानं सर्वलोकस्य सर्वलोकमहारथम् । 012a
शरैरभ्यहनद्गाढं ततो युद्धमभूत्तयोः ॥ 012c
विमुञ्चतौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान् । 013a
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥ 013c
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत । 014a
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥ 014c
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव । 015a
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ 015c
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः । 016a
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव ॥ 016c
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् । 017a
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा । 017c
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥ 017e
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् । 018a
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥ 018c
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना । 019a
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥ 019c
पीडितं नृपतिं दृष्ट्वा तव पुत्रं महारथाः । 020a
सात्यकिं शरवर्षेण छादयामासुरोजसा ॥ 020c
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः । 021a
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः । 021c
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः ॥ 021e
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् । 022a
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ॥ 022c
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः । 023a
सारथिं पातयामास क्षुरप्रेण महायशाः ॥ 023c
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् । 024a
अवारिकच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥ 024c
स विध्यमानः समरे शैनेयस्य शरोत्तमैः । 025a
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव । 025c
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥ 025e
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे । 026a
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥ 026c
तं तु शब्दमथ श्रुत्वा कृतवर्मा महारथः । 027a
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥ 027c
विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः । 028a
भर्त्सयन्सारथिं चाग्रे याहियाहीति सत्वरम् ॥ 028c
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् । 029a
युयुधानो महाराज यन्तारमिदमब्रवीत् ॥ 029c
कृतवर्मा रथेनैष द्रुतमापतते शरी । 030a
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥ 030c
'प्रयाहि सत्वरं सूत रथेन रथसत्तमम् । 031a
निहनिष्यामि तं सङ्ख्ये वृष्णिवीरमरिन्दमम् ॥' 031c
ततः प्रजविताश्वेन रथेन रथिनांवरः । 032a
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥ 032c
ततो गभस्तिमत्प्रख्यौ ज्वलिताविव पावकौ । 033a
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥ 033c
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् । 034a
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः ॥ 034c
चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः । 035a
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य हि ॥ 035c
रुक्मध्वजो रुक्मपृष्ठं महद्विष्फार्य कार्मुकम् । 036a
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खैरवारयत् ॥ 036c
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे । 037a
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ॥ 037c
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः । 038a
समकम्पत दुर्धर्षः क्षितिकम्पे यथाऽचलः ॥ 038c
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं तथा । 039a
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः ॥ 039c
'हताश्वसूते तु रथे स्थिताय शिनिपुङ्गवः ।' 040a
सुवर्णपुङ्खं विशिखं समादाय च सात्यकिः । 040c
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ॥ 040e
सोऽविध्यत्कृतवर्माणं यमदण्डोपमः शरः । 041a
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् । 041c
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥ 041e
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः । 042a
सशरं धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमात् ॥ 042c
स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः । 043a
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥ 043c
सहस्रबाहुसदृशमक्षोभ्यमिव सागरम् । 044a
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥ 044c
'न हि तस्य शरोऽपार्थः कथञ्चिदपि पार्थिव । 045a
दिदृक्षुः स हि वेगेन प्रायाद्यत्र धनञ्जयः ॥ 045c
स शक्त्या क्षत्रियैस्तत्र निरुद्धो बलवत्तरः । 046a
युयुधे सात्वतो राजन्दिदृक्षुः पाण्डुनन्दनम् ॥' 046c
खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् । 047a
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥ 047c
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः । 048a
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम् ॥ 048c
समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः । 049a
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान् ॥ ॥ 049c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पोडशाधिकशततमोऽध्यायः ॥ 116 ॥

5-116-11 रुक्माङ्गदं चापि इति ङ. पाठः ॥ 5-116-14 चन्दनो रक्तचन्दनः ॥ 5-116-43 दंष्ट्राश्चतस्रो यस्य स्युर्दशनेभ्यः समुच्छ्रिताः । सिंहदंष्ट्रः स गदितश्चतुर्दंष्ट्रश्च सूरिभिः ॥ 5-116-116 षोडशाधिकशततमोऽध्यायः ॥