श्रीः
अध्यायः 115
सात्यकिना जलसन्धस्य वधः ॥ 1 ॥
सञ्जय उवाच 001
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि । 001a
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ॥ 001c
लज्जयावनते चापि परिहृष्टे च तावके । 002a
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥ 002c
श्रुत्वा स निनदं भीमं तावकानां महाहवे । 003a
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥ 003c
उवाच सारथिं तत्र क्रोधामर्षसमन्वितः । 004a
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम् ॥ 004c
कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः । 005a
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति ॥ 005c
एवमुक्ते तु वचने सूतस्तस्य महामते । 006a
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात् ॥ 006c
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः । 007a
अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः ॥ 007c
अथाशु निशितं भल्लं शैनेयः कृतवर्मणः । 008a
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥ 008c
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः । 009a
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥ 009c
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः । 010a
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः ॥ 010c
अभज्यताथ पृतना शैनेयशरपीडिता । 011a
'पलायनकृतोत्साहा भ्रमन्ती तत्रतत्र ह ।' 011c
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः ॥ 011e
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् । 012a
अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥ 012c
पराजित्य तु संहृष्टः कृतवर्माणमाहवे । 013a
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ॥ 013c
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् । 014a
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ॥ 014c
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः । 015a
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥ 015c
एते हि बहवः सूत दुर्निवार्याश्च संयुगे । 016a
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥ 016c
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः । 017a
'न चाजित्वा रणे ह्येताञ्शक्यः प्राप्तुं जयद्रथः ॥ 017c
नापि सूत मया पार्थः शक्यः प्राप्तुं कथञ्चन । 018a
एते तिष्ठन्ति सहिताः सर्वविद्यासु निष्ठिताः ॥' 018c
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः । 019a
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥ 019c
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे । 020a
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥ 020c
सञ्जय उवाच 021
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः । 021a
रथेनादित्यवर्णेन भास्वरेण पताकिना ॥ 021c
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः । 022a
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ॥ 022c
आपतन्तं रणे तं तु शङ्खवर्णैर्हयोत्तमैः । 023a
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः । 023c
किरन्तो विविधांस्तीक्ष्णान्सायकाल्ँलघुवेधिनः ॥ 023e
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् । 024a
पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥ 024c
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः । 025a
प्राद्रवन्रणमुत्सृज्य शिनिवीरसमीरितैः ॥ 025c
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः । 026a
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥ 026c
सम्भिन्नवर्मघण्टाश्च विनिकृत्तमहाध्वजाः । 027a
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥ 027c
रुवन्तो विविधान्नादाञ्जलदोपमनिःस्वनाः । 028a
नाराचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा ॥ 028c
क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः । 029a
क्षरन्तोऽसृक्तथा मूत्रं पुरीषं च प्रदुद्रुवुः । 029c
बभ्रमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे ॥ 029e
एवं तत्कुञ्जरानीकं युयुधानेन पीडितम् । 030a
शरैरग्न्यर्कसङ्काशैः प्रदुद्राव समन्ततः ॥ 030c
तस्मिन्हते गजानीके जलसन्धो महाबलः । 031a
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ॥ 031c
रुक्मवर्मधरः शूरस्तपनीयाङ्गदः शुचिः । 032a
कुण्डली मकुटी खड्गी रक्तचन्दनरूषितः ॥ 032c
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् । 033a
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥ 033c
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि । 034a
अशोभत महाराज सविद्युदिव तोयदः ॥ 034c
तमापतन्तं सहसा मागधस्य गजोत्तमम् । 035a
सात्यकिर्वारयामास वेलेव मकरालयम् ॥ 035c
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः । 036a
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ॥ 036c
ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः । 037a
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ॥ 037c
ततोऽपरेण भल्लेन पीतेन निशितेन च । 038a
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥ 038c
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत । 039a
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥ 039c
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् । 040a
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥ 040c
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली । 041a
धनुरन्यत्समादाय तिष्ठतिष्ठेत्युवाच ह ॥ 041c
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि । 042a
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥ 042c
क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः । 043a
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥ 043c
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् । 044a
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥ 044c
स निर्भिद्य भुजं सव्यं माधवस्य महारणे । 045a
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥ 045c
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः । 046a
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ॥ 046c
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः । 047a
आर्षभं चर्म च महच्छतचन्द्रकसङ्कुलम् । 047c
आविध्य च ततः खड्गं सात्वतायोत्ससर्ज ह ॥ 047e
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् । 048a
अलातचक्रवच्चैव व्यरोचत महीं गतः ॥ 048c
अथान्यद्धनुरादाय सर्वकायावदारणम् । 049a
'जलसन्धमभिप्रेक्ष्य उत्स्मयित्वा च माधवः ॥' 049c
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् । 050a
विष्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ॥ 050c
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः । 051a
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ॥ 051c
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् । 052a
वसुन्धराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ॥ 052c
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमण्डितम् । 053a
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ॥ 053c
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् । 054a
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ॥ 054c
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः । 055a
विमानं पातयामास गजस्कन्धाद्विशाम्पते ॥ 055c
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः । 056a
विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥ 056c
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् । 057a
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥ 057c
हाहाकारो महानासीत्तव सैन्यस्य मारिष । 058a
जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण तु ॥ 058c
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः । 059a
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥ 059c
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः । 060a
'सन्न्यस्य भारं सुमहत्कृतवर्मणि भारत ॥ 060c
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् । 061a
स हि पार्थान्रणे यत्तान्दधारैको महाबलः ॥' 061c
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः । 062a
द्रोणेनैव सह क्रुद्धाः सात्यकिं समुपाद्रवन् ॥ 062c
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च । 063a
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥ ॥ 063c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥
5-115-23 द्रोण 23 5-115-26 पिण्डिका गण्डः ॥ 5-115-33 कण्ठसूत्रं हारम् ॥ 5-115-47 ततो ग्रहणानन्तरम् । आविध्य भ्रामयित्वा ॥ 5-115-52 वसुन्धराधरात् पर्वतात् ॥ 5-115-115 पञ्चदशाधिकशततमोऽध्यायः ॥