श्रीः
अध्यायः 114
धृतराष्ट्रस्य स्वसैन्यपराजयश्रवणेन शोचनम् ॥ 1 ॥ सञ्जयेन तदुपालम्भपूर्वकं कृतवर्मपराक्रमकथनम् ॥ 2 ॥
धृतराष्ट्र उवाच 001
एवं बहुगुणं सैन्यमेवं प्रविचितं बलम् । 001a
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ॥ 001c
नित्यं पूजितमस्माभिरभिकामं च नः सदा । 002a
प्रौढमत्यद्भुताकारं पुरस्ताद्दृष्टविक्रमम् ॥ 002c
नातिवृद्वमबालं च नाकृशं नातिपीवरम् । 003a
लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥ 003c
आत्तसन्नाहसञ्छन्नं बहुशस्त्रपरिच्छदम् । 004a
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥ 004c
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । 005a
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ 005c
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् । 006a
'चर्मनिस्त्रिंशयुद्धे च नियुद्धे च विशारदम् ।' 006c
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ 006e
न गोष्ठ्या नोपकारेण न सम्बन्धनिमित्ततः । 007a
नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह ॥ 007c
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् । 008a
कृतमानोपचारं च यशस्वि च मनस्वि च ॥ 008c
सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः । 009a
लोकपालोपमैस्तात पालितं नरसत्तमैः ॥ 009c
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः । 010a
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥ 010c
महोदधिमिवापूर्णमापगाभिः समन्ततः । 011a
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ॥ 011c
प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत् । 012a
यदहन्यत मे सैन्यं किमन्यद्भागधेयतः ॥ 012c
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् । 013a
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥ 013c
ध्वजभूषणसम्बाधरत्नोपलसुसञ्चितम् । 014a
वाहनैरभिधावद्भिर्वायुवेगविकम्पितम् ॥ 014c
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् । 015a
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥ 015c
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे । 016a
सञ्जयैकरथेनैव युयुधाने च मामकम् ॥ 016c
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि । 017a
सात्वते च रथोदारे मम सैन्यस्य सञ्जय ॥ 017c
तौ तत्र समतिक्रान्तौ दृष्ट्वाऽतीव तरस्विनौ । 018a
सिन्धुराजं तु सम्प्रेक्ष्य गाण्डीवस्य च गोचरम् ॥ 018c
किं नु वा कुरवः कृत्यं विदधुः कालचोदिताः । 019a
दारुणैकायनेऽकाले कथं वा प्रतिपेदिरे ॥ 019c
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् । 020a
विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै ॥ 020c
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ । 021a
न च वारयिता कश्चित्तयोरस्तीह सञ्जय ॥ 021c
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः । 022a
वेतनेन यथायोगं प्रियवादेन चापरे ॥ 022c
असत्कारभृतस्तात मम सैन्ये न विद्यते । 023a
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥ 023c
न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय । 024a
अल्पदानभृतस्तात तथा चाभृतको नरः ॥ 024c
पूजितो हि यथाशक्त्या दानमानासनैर्मया । 025a
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥ 025c
ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना । 026a
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥ 026c
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः । 027a
एकः साधारणः पन्थार रक्ष्यस्य सह रक्षिभिः ॥ 027c
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतःस्थितम् । 028a
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥ 028c
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् । 029a
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥ 029c
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथिसत्तमौ । 030a
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥ 030c
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् । 031a
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥ 031c
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च । 032a
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥ 032c
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये । 033a
पलायनकृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥ 033c
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च । 034a
हतांश्च योधान्सन्दृश्य मन्ये शोचन्ति पुत्रकाः ॥ 034c
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः । 035a
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥ 035c
महानागान्विद्रवतो दृष्ट्वाऽर्जुनशराहतान् । 036a
पतितान्पततश्चान्यान्मन्ये शोचन्ति पुत्रकाः ॥ 036c
विहीनांश्च कृतानश्वान्विरथांश्च कृतान्नरान् । 037a
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ 037c
हयौघान्निहतान्दृष्ट्वा द्रवमाणांस्ततस्ततः । 038a
रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ 038c
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः । 039a
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥ 039c
द्रोणस्य समतिक्रान्तावनीकमपराजितौ । 040a
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥ 040c
सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ । 041a
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥ 041c
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे । 042a
भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः ॥ 042c
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु । 043a
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ॥ 043c
द्रोणो हि बलवान्श्रेष्ठः कृतास्त्रो युद्धदुर्मदः । 044a
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥ 044c
बद्धवैरास्ततो द्रोणे धनञ्जयजयैषिणः । 045a
भारद्वाजसुतस्तेषु दृढवैरो महारथः ॥ 045c
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति । 046a
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 046c
सञ्जय उवाच 047
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ । 047a
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥ 047c
पुरा यदुच्यसे प्राज्ञैः सुहृद्भिर्विदुरादिभिः । 048a
मा हार्षीः पाण्डवान्राजन्निति तन्न त्वया श्रुतम् ॥ 048c
सुहृदां हितकामानां वाक्यं यो न शृणोति ह । 049a
स महद्व्यसनं प्राप्य शोचते वै यथा भवान् ॥ 049c
याचितोऽसि पुरा राजन्दाशार्हेण शमं प्रति । 050a
न च तं लब्धवान्कामं त्वत्तः कृष्णो महायशाः ॥ 050c
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च । 051a
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ॥ 051c
तव जिह्ममभिप्रायं विदित्वा पाण्डवान्प्रति । 052a
आर्तप्रलापांश्च बहून्मनुजाधिप सत्तम ॥ 052c
सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः । 053a
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥ 053c
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः । 054a
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद ॥ 054c
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत । 055a
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥ 055c
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् । 056a
शृणु युद्धं यथावृत्तं घोरं देवासुरोपमम् ॥ 056c
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे । 057a
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥ 057c
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् । 058a
दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥ 058c
यथोद्वृत्तं वारयते वेला वै सलिलार्णवम् । 059a
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ॥ 059c
तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम् । 060a
यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥ 060c
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमाशुगैः । 061a
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥ 061c
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः । 062a
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥ 062c
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः । 063a
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ॥ 063c
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः । 064a
शिखण्डी चैव हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ॥ 064c
पुनर्विव्याध विंशत्या सायकानां हसन्निव । 065a
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् ॥ 065c
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः । 066a
धनुर्ध्वजं चास्य तदा रथाद्भूमावपातयत् ॥ 066c
अथैनं छिन्नधन्वानं त्वरमाणो महारथः । 067a
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥ 067c
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः । 068a
चचाल रथमध्यस्थः क्षितिकम्पे यथाऽचलः ॥ 068c
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः । 069a
विसृजन्तः शरान्राजन्कृतवर्माणमार्दयन् ॥ 069c
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष । 070a
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥ 070c
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः । 071a
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ॥ 071c
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति । 072a
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा ॥ 072c
कृतवर्माणमभितः प्रजज्वाल सुदारुणा । 073a
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् ॥ 073c
द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा । 074a
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ॥ 074c
द्योतयन्ती दिशो राजन्महोल्केव नभश्च्युता । 075a
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥ 075c
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् । 076a
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥ 076c
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे । 077a
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन च ॥ 077c
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष । 078a
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥ 078c
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव । 079a
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥ 079c
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् । 080a
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥ 080c
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः । 081a
धनुश्चिच्छेद समरे प्रहसन्निव सात्वतः ॥ 081c
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः । 082a
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥ 082c
भ्रामयित्वा महच्चर्म चामीकरविभूषितम् । 083a
तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥ 083c
स तस्य सशरं चापं छित्त्वा राजन्महानसिः । 084a
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥ 084c
एतस्मिन्नेव काले तु त्वरमाणं महारथाः । 085a
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥ 085c
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः । 086a
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥ 086c
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः । 087a
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥ 087c
धनुरन्यत्समादाय शिखण्डी तु महायशाः । 088a
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥ 088c
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः । 089a
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥ 089c
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः । 090a
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥ 090c
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ । 091a
समापेततुरन्योन्यं शरसङ्घैररिन्दमौ ॥ 091c
विधुन्वानौ धनुःश्रेष्ठे सन्दधानौ च सायकान् । 092a
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥ 092c
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ । 093a
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥ 093c
कृतवर्मा च समरे याज्ञसेनिं महारथम् । 094a
विद्ध्वेषुभिस्त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥ 094c
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । 095a
विसृज्य सशरं चापं मूर्च्छयाऽभिपरिप्लुतः ॥ 095c
तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ । 096a
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥ 096c
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् । 097a
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥ 097c
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् । 098a
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥ 098c
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः । 099a
यदेकः समरे पार्थान्वारयामास सानुगान् ॥ 099c
पार्थाञ्जित्वाऽजयच्चेदीन्पाञ्चालान्सृञ्जयानपि । 100a
केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥ 100c
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः । 101a
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥ 101c
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् । 102a
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥ 102c
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः । 103a
विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः ॥ ॥ 103c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
5-114-1 बहुगुणं बहवो गुणाः शौर्यादयः सन्ध्यादयो वा यस्मिन् । बलं प्रबलम् ॥ 5-114-2 नः अभिकाममनुरक्तम् ॥ 5-114-3 लघुनो मनोज्ञस्य वृत्तस्यायतनमायामः प्रायः प्रचुरं यत्र । सारगात्रं निबिडावयवम् ॥ 5-114-5 पर्यवस्कन्दे अवरोहणे । सरणे प्रसरणे । सान्तरप्लुते प्लवनान्तरितायां गतौ । व्यपयानेऽपसरणे ॥ 5-114-6 वेतनेन दिनमासवर्षदेयेन धनेन ॥ 5-114-7 गोष्ठ्या संलापमात्रेण ॥ 5-114-13 वाहनान्येवोर्मितरङ्गपरम्परा विद्यते यत्र । क्षेपण्यो यन्त्राणि ॥ 5-114-14 रत्नैरुपलैश्च सुसञ्चितं सुष्ठुसञ्छादितम् । वाहनाभिधावनान्येव वायुवेगतया रूपितानि ॥ 5-114-17 मम सैन्यस्य शेषमित्यन्वयः ॥ 5-114-19 दारुणैकायने अतिभीषणेऽनन्यगतिके । अकाले अतीते समये ॥ 5-114-23 लभ्यते सैन्येनार्थात् ॥ 5-114-30 धृतिं धारणाम् ॥ 5-114-35 व्यग्राननेकाग्रान् । अव्यग्रान् पलायनैकमनस इति वा ॥ 5-114-51 निर्गुणतां गुणवैषम्यम् । द्वैधीभावमनिश्चयम् ॥ 5-114-54 सुमहान् विपुल इति पर्यायाभ्यां महत्त्वोद्रेकः ॥ 5-114-56 निर्णयं नियतस्वभावम् ॥ 5-114-65 सर्वतः सर्वान् ॥ 5-114-74 द्विधा स्थानद्वये ॥ 5-114-88 कूर्मनखैः कूर्मनखाकृतिफलकैः ॥ 5-114-114 चतुर्दशाधिकशततमोऽध्यायः ॥