श्रीः अध्यायः 113 अर्जुनं गच्छतः सात्यकेः कृतवर्मणासह युद्धम् ॥ 1 ॥ सञ्जय उवाच 001
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया । 001a
धर्मराजो महाराज स्वेनानीकेन संवृतः । 001c
प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः ॥ 001e
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः । 002a
'प्रयाते माधवे राजन्निदं वचनमब्रवीत् ॥' 002c
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः । 003a
आगच्छत प्रहरत द्रुतं विपरिधावत ॥ 003c
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः । 004a
महारथा हि बहवो यतिष्यन्तेऽस्य निर्जये ॥ 004c
सञ्जय उवाच 005
'सेनापतिवचः श्रुत्वा पाण्डवेयाः समन्ततः । 005a
अभ्युद्ययुर्महाराज तव सैन्यं समन्ततः ॥ 005c
जहि प्रहर गृह्णीहि विध्य विद्रव चाद्रव ।' 006a
इति ब्रुवन्तो वेगेन निपेतुस्ते महारथाः ॥ 006c
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः । 007a
'बाणशङ्खरवान्कृत्वा विमिश्रान्वाद्यनिस्वनैः ॥ 007c
युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः ।' 008a
ततः शब्दो महानासीद्युयुधानरथं प्रति ॥ 008c
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी । 009a
सात्वतेन महाराज शतधाऽभिव्यशीर्यत ॥ 009c
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः । 010a
सप्तवीरान्महेष्वासानग्रानीकेष्वपोथयत् ॥ 010c
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान् । 011a
शरैरनलसङ्काशैर्निन्ये वीरान्यमक्षयम् ॥ 011c
शतमेकेन विव्याध शतेनैकं च पत्रिणाम् । 012a
द्विपारोहान्द्विपांश्चैव हयारोहान्हयांस्तथा । 012c
रथिनः साश्वसूतांश्च जघानेशः पशूनिव ॥ 012e
तं तथाऽद्भुतकर्माणं शरसम्पातवर्षिणम् । 013a
न केचनाभ्यधावन्वै सात्यकिं तव सैनिकाः ॥ 013c
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना । 014a
आयोधनं जहुर्वीरा दृष्टा तमतिमानिनम् ॥ 014c
तमेकं बहुधा पश्यन्मोहितास्तस्य तेजसा ॥ 015ac
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष । 016a
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः ॥ 016c
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः । 017a
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते ॥ 017c
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः । 018a
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप ॥ 018c
शशाङ्कसन्निभैश्चैव वदनैश्चारुकुण्डलैः । 019a
पतितैर्ऋषभाक्षाणां बभौ भारत मेदिनी ॥ 019c
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः । 020a
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥ 020c
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः । 021a
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः । 021c
गतसत्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥ 021e
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः । 022a
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥ 022c
ततस्तेनैव मार्गेण येन यातो धनञ्जयः । 023a
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥ 023c
भारद्वाजं समासाद्य युयुधानश्च सात्यकिः । 024a
न न्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ॥ 024c
निवार्य तु रणे द्रोणो युयुधानं महारथम् । 025a
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥ 025c
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः । 026a
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ 026c
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् । 027a
स तं न ममृषे द्रोणं युयुधानो महारथः ॥ 027c
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः । 028a
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥ 028c
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः । 029a
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् । 029c
ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥ 029e
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः । 030a
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥ 030c
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः । 031a
'प्राच्छादयदसम्भ्रान्तस्त्वरमाणो महारथः ॥ 031c
द्रोणस्तु परमक्रुद्धः सात्यकिं परवीरहा । 032a
अवाकिरच्छितैर्बाणैर्वासुदेवपराक्रमम् ॥ 032c
तं तथा शरजालेन प्रच्छाद्य महता पुनः । 033a
द्रोणः प्रहस्य शैनेयमिदं वचनमब्रवीत् ॥' 033c
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा । 034a
युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत ॥ 034c
त्वं हि मे युध्यतो नाद्य जीवन्यास्यसि माधव । 035a
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥ 035c
सात्यकिरुवाच 036
धनञ्जयस्य पदवीं धर्मराजस्य शासनात् । 036a
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥ 036c
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा । 037a
तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः ॥ 037c
सञ्जय उवाच 038
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् । 038a
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥ 038c
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे । 039a
यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥ 039c
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् । 040a
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम् ॥ 040c
तदनन्तरमेतच्च बाह्लिकानां महद्बलम् । 041a
बाह्लिकाभ्याशतो युक्तं कर्णस्य च महद्बलम् ॥ 041c
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे । 042a
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥ 042c
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् । 043a
मध्यमं जवमास्थाय वह मामत्र सारथे ॥ 043c
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः । 044a
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥ 044c
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते । 045a
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥ 045c
'*ततः शक्यो महाव्यूहो भेत्तुं स सहसा रणे । 046a
तं देशं त्वरिता यामो मृद्नन्तो युधि शात्रवान् ॥ 046c
तत्रैते सम्प्रहृष्टत्वान्नास्मान्प्रति युयुत्सवः ॥ 047ac
अयुध्यमानो बहुभिरेकं प्राप्य सुदुर्बलम् । 048a
बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम् ॥ 048c
मध्यतो याहि यत्रोग्रं कर्णस्य सुमहद्बलम् । 049a
यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः । 049c
एतान्विजित्य सङ्ग्रामे ततो यामो धनञ्जयम् ॥ 049e
सञ्जय उवाच 050
युयुधानवचः श्रुत्वा युयुधानस्य सारथिः । 050a
यथोक्तमगमद्राजन्वर्जयन्द्रोणमाहवे ॥' 050c
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् । 051a
युयुधानं महाभागं गच्छन्तमनिवर्तिनम् ॥ 051c
स च सैन्यं महद्भित्त्वा दाक्षिणात्यबलं च तत् । 052a
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः ॥ 052c
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः । 053a
सात्यको हि ततः सैन्यं द्रावयन्स समन्ततः ॥ 053c
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च । 054a
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥ 054c
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः । 055a
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥ 055c
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः । 056a
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥ 056c
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः । 057a
सात्वतेन महाराज कृतवर्मा न चक्षमे ॥ 057c
स वत्सदन्तं सन्धाय तिग्मांश्वनलसप्रभम् । 058a
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥ 058c
स तस्य देहावरणं भित्त्वा देहं च सायकः । 059a
सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः ॥ 059c
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् । 060a
स मार्गणगणं राजन्कृतवर्मा शरासनम् ॥ 060c
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् । 061a
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥ 061c
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः । 062a
जघान दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥ 062c
ततोऽन्यत्सुदृढं चापं पूर्णमायम्य सात्यकिः । 063a
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥ 063c
सरथं कृतवर्माणं समन्तात्पर्यवारयत् । 064a
छादयित्वा रणे राजन्हार्दिक्यं स तु सात्यकिः । 064c
अथास्य भल्लेन शिरः सारथेः समकृन्तत ॥ 064e
स पपात हतः सूतो हार्दिक्यस्य महारथात् । 065a
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम् ॥ 065c
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगान्स्वयम् । 066a
तस्थौ वीरो धनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥ 066c
स मुहूर्तमिवाश्वास्य सदश्वान्समनोदयत् । 067a
व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ॥ 067c
सात्यकिश्चात्यगात्तस्मात्स तु भीममुपाद्रवत् ॥ 068ac
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः । 069a
प्रययौ त्वरितस्तूर्णं काम्भोजानां महाचमूम् ॥ 069c
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः । 070a
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥ 070c
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च । 071a
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया ॥ 071c
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः । 072a
न्यवारयन्त संहृष्टाः पाण्डुसैन्ये बृहत्तमाः । 072c
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ॥ 072e
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः । 073a
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥ 073c
यतमानांश्च तान्सर्वानीषद्विगतचेतसः । 074a
अभितस्ताञ्शरौघेण क्लान्तवाहानकारयत् ॥ 074c
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे । 075a
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः । 075c
'हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम् ॥' 075e

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयोदशाधिकशततमोऽध्यायः ॥ 2 ॥

5-113-12 ईशो रुद्रः ॥ 5-113-19 ऋषभस्येवाक्षीणि येषाम् ॥ 5-113-35 त्वंहि त्वमपि ॥ 5-113-42 भिन्नानि पृथग्भूतानि ॥ 5-113-* एतदादि पञ्चश्लोकानां स्थाने अधो लिखित एकएव श्लोकः झ. पुस्तकेऽस्ति । एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन् । मध्यतो याहि यच्चोग्रं कर्णस्य च महद्बलम् ॥ 5-113-58 जिह्मगानिलसन्निभम् इति । झ. पाठः ॥ 5-113-71 सन्धाय यथास्थानमानीय ॥ 5-113-75 आर्यवत्कुलीनवत् । कुलीनत्वादितियावत् ॥ 5-113-113 त्रयोदशाधिकशततमोऽध्यायः ॥