श्रीः
अध्यायः 112
सात्यकेः युधिष्ठिररक्षणे भीमं नियोज्यार्जुनदर्शनाय प्रस्थानम् ॥ 1 ॥
सञ्जय उवाच 001
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः । 001a
स पार्थाद्भयमाशंसन्परित्यागान्महीपतेः ॥ 001c
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः । 002a
न मां भीतमिति ब्रूयात्प्रयान्तं फल्गुनं प्रति ॥ 002c
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः । 003a
नातिव्यक्तमिवाभाष्य धर्मराजं महायशाः ॥ 003c
शोकगद्गदया वाचा शोकोपहतचेतनः । 004a
यथेदानीमिति ध्यात्वा धर्मराजमथाब्रवीत् ॥ 004c
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते । 005a
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥ 005c
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते । 006a
यो मे प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥ 006c
तस्याहं पदवीं यास्ये सन्देशात्तव मानद । 007a
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ॥ 007c
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर । 008a
तथा तवापि वचनं विशिष्टतरमेव मे ॥ 008c
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ । 009a
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ॥ 009c
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो । 010a
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुङ्गव ॥ 010c
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् । 011a
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥ 011c
यत्र सेनान्तमाश्रित्य भीतस्तिष्ठति पाण्डवात् । 012a
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥ 012c
इतिस्त्रियोजनं मन्ये तमध्वानं विशाम्पते । 013a
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥ 013c
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् । 014a
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥ 014c
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः । 015a
आदिष्टस्तु यथा राजन्को न युध्येत मादृशः ॥ 015c
अभिजानामि तं देशमितः पूर्णं त्रियोजनम् । 016a
यत्र तिष्ठति राजाऽसौ सैन्धवो बालघातकः ॥ 016c
सागरप्रतिमं सैन्यं गर्जन्तमिव सागरम् । 017a
हलशक्तिगदाप्रासचर्मखड्गर्ष्टितोमरम् । 017c
इष्वस्त्रवरसम्बाधं क्षोभयित्वा व्रजाम्यहम् ॥ 017e
यदेतत्कुञ्जरानीकं सहस्रमनुपश्यसि । 018a
कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः ॥ 018c
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः । 019a
नागा नगनिभा राजन्क्षरन्त इव तोयदाः ॥ 019c
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः । 020a
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥ 020c
अथ यान्रथिनो राजन्सहस्रमनुपश्यसि । 021a
एते रुक्मरथा नाम राजपुत्रा महारथाः ॥ 021c
रथेष्वस्त्रेषु निपुणा नागेषु च विशाम्पते । 022a
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥ 022c
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा । 023a
खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ॥ 023c
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् । 024a
नित्यं हि समरे राजन्विजिगीषन्ति मानवान् ॥ 024c
कर्णेन विहिता राजन्दुःशासनमनुव्रताः । 025a
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥ 025c
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः । 026a
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥ 026c
ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः । 027a
मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥ 027c
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव । 028a
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥ 028c
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानिमान् । 029a
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ॥ 029c
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना । 030a
स्वलङ्कृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः ॥ 030c
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् । 031a
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥ 031c
एषामेते महामात्राः किराता युद्धदुर्मदाः । 032a
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥ 032c
एते विनिर्जिताः सङ्ख्ये सङ्ग्रामे सव्यसाचिना । 033a
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥ 033c
एतान्हत्वा शरै राजन्किरातान्युद्धदुर्मदान् । 034a
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम् ॥ 034c
ये त्वेते सुमहानाग अञ्जनस्य कुलोद्भवाः । 035a
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥ 035c
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः । 036a
लब्धलक्षा रणे राजन्नैरावणसमा युधि ॥ 036c
आस्थिता दस्युभिस्तीक्ष्णैः शूरैरुत्तमपार्वतैः । 037a
कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ॥ 037c
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः । 038a
अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥ 038c
अनीकमसतामेतद्धूम्रवर्णमुदीर्यते । 039a
म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम् ॥ 039c
एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम् । 040a
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥ 040c
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् । 041a
कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥ 041c
ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम् । 042a
नभविष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥ 042c
तेन सम्भाविता नित्यं परवीर्योपजीविना । 043a
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥ 043c
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः । 044a
एते दुर्वारणा नाम काम्भोजा यदि ते श्रुताः ॥ 044c
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः । 045a
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥ 045c
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत । 046a
यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः ॥ 046c
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः । 047a
तानहं प्रमथिष्यामि तृणानीव हुताशनः ॥ 047c
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च । 048a
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥ 048c
अस्मिंस्तु किल सम्मर्दे ग्राह्यं विविधमायुधम् । 049a
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥ 049c
काम्भोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः । 050a
नानाशस्त्रसमावायैर्विविधायुधयोधिभिः ॥ 050c
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः । 051a
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥ 051c
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः । 052a
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ॥ 052c
तथाऽन्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः । 053a
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥ 053c
'त्रियोजनगतस्यापि पदवीं सव्यसाचिनः । 054a
यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम् ॥ 054c
सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन् । 055a
अपराह्णगते सूर्ये गमिष्यामि न संशयः ॥' 055c
तस्माद्वै वाजिनो मुख्यान्विश्रुताञ्शुभलक्षणैः । 056a
उपावृत्तांश्च पीतांश्च पुनर्युञ्जन्तु मे रथे ॥ 056c
सञ्जय उवाच 057
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च । 057a
रथे चास्थापयद्राजा शस्त्राणि विविधानि च ॥ 057c
ततस्तान्सर्वतोमुक्तान्सदश्वांश्चतुरो जनाः । 058a
रसवत्पाययामासुः पानं मदसमीरणम् ॥ 058c
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् । 059a
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥ 059c
तान्युक्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः । 060a
संहृष्टमनसो व्यग्रान्विधिवत्कल्पितान्रथे ॥ 060c
महाध्वजेन सिंहेन हेमकेसरमालिना । 061a
संवृते केतकैर्हैर्मैर्मणिविद्रुमचित्रितैः ॥ 061c
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते । 062a
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे । 062c
योजयामास विधिवद्धेमभाण्डविभूषितान् ॥ 062e
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा । 063a
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥ 063c
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः । 064a
स्नातकानां सहस्रस्य स्वर्णनिष्कानथो ददौ ॥ 064c
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः । 065a
ततः समधुपर्काम्भः पीत्वा कैरातकं मधु ॥ 065c
लोहिताक्षो बभौ तत्र मदविह्वललोचनः । 066a
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः ॥ 066c
द्विगुणीकृततेजोभिः प्रज्वलन्निव पावकः । 067a
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥ 067c
'आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ।' 068a
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः ॥ 068c
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः । 069a
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः ॥ 069c
तेन मूर्धन्युपाघ्रातः कृतस्वस्त्ययनोऽपि च । 070a
आशिषो विविधाः श्रुत्वा धर्मराजमुखेरिताः । 070c
हर्षेण महता युक्त आरुरोह महारथम् ॥ 070e
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः । 071a
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः । 071c
यथा शक्ररथं राजन्नूहुस्ते हरयः पुरा ॥ 071e
तथैव भीमसेनोऽपि धर्मराजेन पूजितः । 072a
प्रायात्सात्यकिना सार्धमभिवाद्य युधिष्ठिरम् ॥ 072c
तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिन्दमौ । 073a
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः ॥ 073c
सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः । 074a
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः ॥ 074c
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते । 075a
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् ॥ 075c
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् । 076a
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम । 076c
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥ 076e
सञ्जय उवाच 077
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये । 077a
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥ 077c
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः । 078a
गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम ॥ 078c
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशमास्थितः । 079a
निमित्तानि च धन्यानि यथा भीम वदन्ति माम् ॥ 079c
निहते सैन्धवे पापे पाण्डवेन महात्मना । 080a
परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम् । 080c
'अप्रमादश्च ते कार्यो द्रोणं प्रति महारथम् ॥' 080e
सञ्जय उवाच 081
एतावदुक्त्वा भीमं तु विसृज्य च महायशाः । 081a
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥ 081c
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप । 082a
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥ 082c
ततः प्रयातः सहसा तव सैन्यं स सात्यकिः । 083a
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥ ॥ 083c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥
5-112-2 ते मां भीतमिति ब्रूयुरयान्तम् इति झ. पाठः ॥ 5-112-14 आसैन्धववधात् सैन्धववधात्प्रागेव ॥ 5-112-17 हलादितोमरान्तमर्श आद्यजन्तम् ॥ 5-112-23 सम्पाते विहरणे ॥ 5-112-30 तदा दिग्विजये ॥ 5-112-35 अञ्जनस्य वरुणोपवाह्यस्य ॥ 5-112-35 तेन दुर्योधनेन । 5-112-43 सम्भावितः संवर्धिताः ॥ 5-112-49 पञ्चगुणः पञ्चगुणसामग्रीकः ॥ 5-112-50 नानाशस्त्राणां समावायः समूहो येषु ॥ 5-112-56 पीताः पायितपेयाः ॥ 5-112-61 केतकैः कुन्दघटितशलाकाभिः ॥ 5-112-64 स्वर्णनिष्कान् दीनारान् ॥ 5-112-65 ततः समधुपर्कार्हः पीत्वा कैलातकं मधु इति झ. ञ. पाठः । कैलावतं मधु इति ङ. पाठः ॥ 5-112-76 आयत्यामुत्तरकाले । तदात्वे तत्क्षणे ॥ 5-112-112 द्वादशाधिकशततमोऽध्यायः ॥