श्रीः अध्यायः 111 अर्जुनम् प्रति गच्छेति युधिष्ठिरचोदितेन सात्यकिना तम् प्रति स्वस्यार्जुनेन तद्रक्षणाय नियोगाभिधानपूर्वकं स्वेन तस्यापरित्याज्यत्वकथनम् ॥ 1 ॥ युधिष्ठिरेण भीमादिभिः स्वस्य रक्षणकथनपूर्वकम् पुनः सात्यकेरर्जुनम् प्रति गमने नियोजनम् ॥ 2 ॥ सञ्जय उवाच 001
प्रीतियुक्तं च हृद्यं च माननीयं च सर्वशः । 001a
कालयुक्तं च चित्रं च स्वधिया चाभिभाषितम् ॥ 001c
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः । 002a
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥ 002c
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाऽच्युत । 003a
न्याययुक्तं च सत्यं च फल्गुनार्थे यशस्करम् ॥ 003c
एवंविधे तथा काले मादृशं प्रेक्ष्य सत्तम । 004a
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ॥ 004c
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन । 005a
त्वत्प्रयुक्तः पुनरहं किं नकुर्यां महाहवे ॥ 005c
लोकत्रयं योधयेयं सदेवासुरमानुषम् । 006a
त्वत्प्रयुक्तो नरेन्द्रेन्द्र किम्पुनस्तान्सुदुर्बलान् ॥ 006c
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः । 007a
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥ 007c
कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् । 008a
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥ 008c
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप । 009a
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥ 009c
दृढं त्वभिहितश्चाहमर्जुनेन पुनःपुनः । 010a
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ 010c
अद्य माधव राजानमप्रमत्तोऽनुपालय । 011a
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥ 011c
त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे । 012a
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥ 012c
जानीषे हि रणे द्रोणं कुरुषु श्रेष्ठसम्मतम् । 013a
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥ 013c
ग्रहणे धर्मराजस्य भारद्वाजोऽपि गृध्यति । 014a
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम् ॥ 014c
एवं त्वयि समाधाय धर्मराजं नरोत्तमम् । 015a
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ॥ 015c
'स त्वमद्य रणे यत्तो रक्ष माधव पाण्डवम् । 016a
रक्षणे धर्मराजस्य ध्रुवो हि विजयो मम ॥' 016c
जयद्रथं च हत्वाऽहं द्रुतमेष्यामि माधव । 017a
धर्मराजं न चेद्द्रोणो निगृह्णीयाद्रणे बलात् ॥ 017c
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव । 018a
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥ 018c
एवङ्गते नरश्रेष्ठे पाण्डवे सत्यवादिनि । 019a
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ॥ 019c
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति । 020a
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥ 020c
स त्वमद्य महाबाहो प्रियार्थं मम माधव । 021a
जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥ 021c
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना । 022a
भारद्वाजाद्भयं नित्यं मन्यमानेन वै प्रभो ॥ 022c
तस्यापि च महाबाहो नित्यं पश्यामि संयुगे । 023a
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ॥ 023c
मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः । 024a
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् । 024c
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ॥ 024e
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः । 025a
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥ 025c
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः । 026a
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथाऽर्जुनः ॥ 026c
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि । 027a
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ॥ 027c
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् । 028a
न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥ 028c
ये च सौवीरका योधास्तथा सैन्धवपौरवाः । 029a
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ॥ 029c
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः । 030a
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥ 030c
उद्युक्ताः पृथिवीपाल ससुरासुरमानुषाः । 031a
सराक्षसगणा राजन्सकिन्नरमहोरगाः ॥ 031c
जङ्गमस्थावरैः सार्धं नालं पार्थस्य संयुगे । 032a
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ॥ 032c
एवं वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ । 033a
न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते || 033c
दैवं कृतास्त्रतां योगममर्षं शौर्यमाहवे । 034a
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥ 034c
मयि चापि सहाये ते गच्छमानेऽर्जुनं प्रति । 035a
द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय ॥ 035c
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति । 036a
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥ 036c
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि । 037a
यस्याहं प्रत्ययात्पार्थं गच्छेयं फल्गुनं प्रति ॥ 037c
न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे । 038a
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥ 038c
'न पश्यामि रथं कञ्चिद्यस्ते गोप्ता भवेदिह । 039a
शक्तं यं मन्यसे राजन्गोप्तारं प्रति पाण्डव ॥' 039c
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर । 040a
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ॥ 040c
युधिष्ठिर उवाच 041
एवमेतन्महाबाहो यथा वदसि माधव । 041a
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष ॥ 041c
करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम् । 042a
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ॥ 042c
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति । 043a
विचार्यैतत्स्वयं बुद्ध्या गमनं तत्र रोचये ॥ 043c
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः । 044a
ममापि रक्षणं भीमः करिष्यति महाबलः ॥ 044c
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः । 045a
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥ 045c
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः । 046a
विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥ 046c
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मातुलः । 047a
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा । 047c
एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥ 047e
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे । 048a
समासादयितुं शक्तो न च मां धर्षयिष्यति ॥ 048c
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः । 049a
वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥ 049c
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा । 050a
न द्रोणस्य बलं तात क्रमेत्तत्र कथञ्चन ॥ 050c
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् । 051a
कवची स शरी खड्गी धन्वी च वरभूषणः ॥ 051c
'एष द्रोणं रणे क्रुद्धं वारयेत स वै प्रभो । 052a
पाञ्चालः सहितैः सर्वैः पाण्डवानां च धन्विभिः ॥' 052c
विक्रुधं गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् । 053a
धृष्टद्युम्नो रणे क्रुद्धं द्रोणमावारयिष्यति ॥ ॥ 053c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ॥ 111 ॥

5-111-15 एवमीदृश्यामपि कार्यगतौ । समाधाय निक्षिप्य ॥ 5-111-19 एवङ्गते ग्रहणं प्राप्ते । अस्माकं चिन्तितं व्यक्तं व्यर्थमेव भवेद्युधि इति क. ख. ङ. पाठः ॥ 5-111-27 यावद्गच्छामि गमिष्यामि ॥ 5-111-28 अर्जुनसम्भवमर्जुनविषयम् ॥ 5-111-34 दैवममानुषताम् । योगमभिज्ञानम् ॥ 5-111-38 क्वचित्कस्मिंश्चित् अनिक्षिप्येत्यन्वयः ॥ 5-111-40 दृष्ट्वा निश्चित्य ॥ 5-111-44 आतिष्ठ प्रक्रमस्व ॥ 5-111-47 मातुलः पुरुजित् ॥ 5-111-53 मयि मामधिकृत्य । सम्भ्रममुद्वेगम् ॥ 5-111-111 एकादशाधिकशततमोऽध्यायः ॥