श्रीः अध्यायः 110 रणाङ्कणे पाञ्चजन्यस्वने श्रुते अश्रुतेच गाण्डीवघोषे अर्जुनस्य विपदमाशङ्कमानेन युधिष्ठिरेण सात्यकिम् प्रति अर्जुनवृत्तान्तपरिज्ञानाय गमनचोदना ॥ 1 ॥ धृतराष्ट्र उवाच 001
भारद्वाजं कथं युद्धे युयुधानो न्यवारयत् । 001a
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ 001c
सञ्जय उवाच 002
शृणु राजन्महाप्राज्ञ सङ्ग्रामं रोमहर्षणम् । 002a
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥ 002c
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष । 003a
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥ 003c
तमापतन्तं सहसा भारद्वाजं महारथम् । 004a
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 004c
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः । 005a
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शरैः शितैः ॥ 005c
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः । 006a
अभ्ययुर्धरणीं राजन्वल्मीकमिव पन्नगाः ॥ 006c
दीर्घबाहुरभिक्रुद्धस्तोत्रार्दित इव द्विपः । 007a
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः ॥ 007c
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् । 008a
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥ 008c
ततः क्रुद्धो महेष्वासो भूय एव महाबलः । 009a
सात्वतं पीडयामास व्रातेन नतपर्वणाम् ॥ 009c
स वध्यमानः समरे भारद्वाजेन सात्यकिः । 010a
नान्वपद्यत कर्तव्यं किञ्चिदेव विशाम्पते ॥ 010c
विषण्णवदनश्चापि युयुधानोऽभवन्नृप । 011a
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥ 011c
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशाम्पते । 012a
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥ 012c
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् । 013a
युधिष्ठिरोऽब्रवीद्राजा सर्वसैन्यानि भारत ॥ 013c
एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः । 014a
ग्रस्यते युधि वीरेण भानुमानिव राहुणा । 014c
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥ 014e
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः । 015a
'द्रोणं वारय सुक्षिप्रं सात्यकिं मावधीद्द्विजः ॥' 015c
अभिद्रव द्रुतं द्रोणं किमु तिष्ठसि पार्षत । 016a
न पश्यसि भयं द्रोणाद्घोरं नः समुपस्थितम् ॥ 016c
असौ द्रोणो महेष्वासो युयुधानेन संयुगे । 017a
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥ 017c
तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः । 018a
त्वयैव सहिताः सर्वे युयुधानरथं प्रति ॥ 018c
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः । 019a
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥ 019c
सञ्जय उवाच 020
एवमुक्त्वा ततो राजा सर्वसैन्येन भारत । 020a
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥ 020c
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् । 021a
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥ 021c
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् । 022a
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥ 022c
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् । 023a
अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥ 023c
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः । 024a
आतिथेयं गृहं प्राप्य तर्प्यन्तेऽतिथयो यथा ॥ 024c
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् । 025a
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥ 025c
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः । 026a
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥ 026c
वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा । 027a
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ 027c
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः । 028a
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥ 028c
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः । 029a
महारथाः समाख्याता धृष्टद्युम्नस्य सम्मताः ॥ 029c
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च । 030a
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥ 030c
केकयानां शतं हत्वा विद्राव्य च समन्ततः । 031a
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥ 031c
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयांश्च नराधिप । 032a
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥ 032c
तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः । 033a
वनौकसामिवारण्ये व्याप्तानां धूमकेतुना ॥ 033c
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप । 034a
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥ 034c
तं तथा समरे द्रोणं निघ्नन्तं सौमकान्रणे । 035a
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥ 035c
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये । 036a
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निःस्वनम् ॥ 036c
पूरिते वासुदेवेन शङ्खराजे महात्मना । 037a
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥ 037c
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति । 038a
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ॥ 038c
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः । 039a
न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट् ॥ 039c
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः । 040a
'व्यक्तमद्य विनश्यन्ति सर्वलोकमहारथाः ॥' 040c
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना । 041a
अजताशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥ 041c
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः । 042a
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥ 042c
युधिष्ठिर उवाच 043
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः । 043a
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥ 043c
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव । 044a
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥ 044c
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः । 045a
स कार्ये साम्पराये तु नियोज्य इति मे मतिः ॥ 045c
यथा च केशवो नित्यं पाण्डवानां परायणम् । 046a
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥ 046c
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि । 047a
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥ 047c
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे । 048a
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥ 048c
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः । 049a
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥ 049c
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् । 050a
पृथिवीं च द्विजातिभ्यो यो दद्यात्स समो भवेत् ॥ 050c
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः । 051a
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥ 051c
'दीयमाना च बहुभिर्दास्यते च मुहुर्मही । 052a
न हि कश्चिद्रणे प्राणान्मित्रार्थे त्यक्तवानिह ॥' 052c
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः । 053a
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥ 053c
एक एव सदा कृष्णो मित्राणामभयङ्करः । 054a
रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ॥ 054c
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः । 055a
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥ 055c
ईदृशे तु परामर्दे वर्तमानस्य माधव । 056a
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥ 056c
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः । 057a
मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ॥ 057c
लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः । 058a
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥ 058c
महास्कन्धो महोरस्को महाबाहुर्महाहनुः । 059a
महाबलो महावीर्यः स महात्मा महारथः ॥ 059c
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे । 060a
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥ 060c
अस्मदर्थं च राजेन्द्र सन्नह्येद्यदि केशवः । 061a
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥ 061c
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः । 062a
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ॥ 062c
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् । 063a
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्योहि तत्समः ॥ 063c
इति द्वैतवने तात मामुवाच धनञ्जयः । 064a
परोक्षे त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥ 064c
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि । 065a
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥ 065c
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति । 066a
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥ 066c
न तन्सौहृदमन्येषु मया शैनेय लक्षितम् । 067a
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥ 067c
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च । 068a
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥ 068c
सत्यस्य च महाबाहो अनुकम्पार्थमेव च । 069a
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥ 069c
सुयोधनो हि सहसा गतो द्रोणेन दंशितः । 070a
पूर्वमेवानुयातास्ते कौरवाणां महारथाः ॥ 070c
सुमहान्निनदश्चैव श्रूयते विजयं प्रति । 071a
स शैनेय जवेनाशु गन्तुमर्हसि मानद ॥ 071c
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः । 072a
द्रोणमावारयिष्यामो यदि त्वां प्रतियोत्स्यते ॥ 072c
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे । 073a
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥ 073c
महामारुतवेगेन समुद्रमिव पर्वसु । 074a
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥ 074c
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह । 075a
सैन्यं रजःसमुद्भूतमेतत्सम्परिवर्तते ॥ 075c
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः । 076a
अत्यन्तोपचितैः शूरैः फल्गुनः परवीरहा ॥ 076c
नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः । 077a
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥ 077c
शरशक्तिध्वजवरं हयनागसमाकुलम् । 078a
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥ 078c
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् । 079a
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥ 079c
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः । 080a
सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥ 080c
पुरस्तात्सैन्धवानीकं द्रोणानीकं च पृष्ठतः । 081a
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥ 081c
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् । 082a
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥ 082c
सर्वथा समनुप्राप्तः सुकृच्छ्रं त्वयि जीवति । 083a
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ॥ 083c
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् । 084a
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ॥ 084c
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा । 085a
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥ 085c
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् । 086a
अविषह्यां महाबाहुः सुरैरपि महाहवे ॥ 086c
न हि मे वर्तते बुद्धिरद्य युद्धे कथञ्चन । 087a
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥ 087c
प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः । 088a
युगपच्च समेतानां कार्याणां त्वं विचक्षणः । 088c
महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद ॥ 088e
तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत् । 089a
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ॥ 089c
नाहं शोचामि दाशार्हं गोप्तारं जगतः पतिम् । 090a
स हि शक्तो रणे तात त्रील्ँलोकानपि सङ्गतान् ॥ 090c
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते । 091a
किम्पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥ 091c
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि । 092a
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥ 092c
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा । 093a
तादृशस्येदृशे काले मादृशेनाभिनोदितः ॥ 093c
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ । 094a
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥ 094c
अस्त्रे नारायणसमः सङ्कर्षणसमो बले । 095a
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ॥ 095c
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् । 096a
त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥ 096c
'सदेवासुरगन्धर्वान्सकिन्नरमहोरगान् । 097a
योधयेच्च जगत्सर्वं विजयेत रिपून्बहून् ॥ 097c
इति ब्रुवन्ति लोकेषु जनास्तव गुणांस्तथा । 098a
समागमेषु सर्वेषु पृथगेव च सर्वदा ।' 098c
नाशक्यं विद्यते लोके सात्यकेरिति माधव ॥ 098e
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥ 099ac
सम्भावना हि लोकस्य मम पार्थस्य चोभयोः । 100a
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ॥ 100c
परित्यज्य प्रियान्प्राणान्रणे चर विभीतवत् । 101a
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥ 101c
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् । 102a
भीरूणामसतां मार्गे नैष दाशार्हसेवितः ॥ 102c
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव । 103a
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥ 103c
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम् । 104a
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥ 104c
वासुदेवमतं चैव मम चैवार्जुनस्य च । 105a
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ॥ 105c
एतद्वचनमाज्ञाय मम सत्यपराक्रम । 106a
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥ 106c
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः । 107a
यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥ ॥ 107c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे दशाधिकशततमोऽध्यायः ॥ 110 ॥

5-110-29 तस्मिन्नवसरे ॥ 5-110-42 कृत्यस्य जयद्रथवधस्यानन्तरापेक्षी अविघ्नाकाङ्क्षी ॥ 5-110-43 यः स धर्मो मैत्रीलक्षणः । साम्पराये आपत्काले ॥ 5-110-47 वयस्यस्य स्निग्धस्य । सहायार्थं सहायरूपप्रयोजनम् ॥ 5-110-67 उपप्लवे विमर्दे ॥ 5-110-68 सख्यादेरनुरूपमित्यनेनान्वयः ॥ 5-110-69 सत्यस्याङ्गीकारस्य । अनुकम्पार्थमर्जुनानुपालननिमित्तम् ॥ 5-110-79 श्रूयते हि रणं प्रति इति क. पाठः ॥ 5-110-88 महार्थं महान्तमर्थम् । लघुसंयुक्तमविलम्बसम्पन्नम् ॥ 5-110-101 विभीतवदभीतः ॥ 5-110-102 अनवस्थानमस्थैर्यम् ॥ 5-110-110 दशाधिकशततमोऽध्यायः ॥