श्रीः अध्यायः 109 घटोत्कचेनालम्बुसवधः ॥ 1 ॥ सञ्जय उवाच 001
'किरन्तं शरवर्षाणि रोषाद्द्रोणं महाहवे । 001a
वित्रासयन्तं तां सेनां कौन्तेयानां महीपते ॥ 001c
दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान्भृशम् । 002a
घटोत्कचो महाबाहू रणायाभिजगाम ह ॥ 002c
पिशाचवदनैर्युक्तं रथं काञ्चनभूषितम् । 003a
समास्थाय महाराज नानाप्रहरणैर्युतः ॥ 003c
दंशितस्तपनीयेन कवचेन सुवर्चसा । 004a
भूषणैराचिताङ्गश्च नदन्निव च तोयदः ॥ 004c
हैडिम्बेयः सुसङ्क्रुद्धो द्रोणमभ्यद्रवद्बली । 005a
तमभ्यधावदायान्तं क्रद्धरूपलम्बुसः ॥ 005c
ऋक्षचर्मपरिक्षिप्तं रथमास्थाय दंशितः । 006a
रक्तोष्ठः सधनुष्पाणिः प्रांशुः कल्प इव स्थितः ॥ 006c
क्षिपञ्छतघ्नीर्विपुला मुसलोपमतोमरान् । 007a
मुसण्ठीर्बहुलाश्चैव त्रिशूलानपि पट्टसान् ॥ 007c
कर्पराञ्छतधारांश्च पिनाकान्विविधांस्तथा । 008a
चक्राणि च क्षुरप्राणि क्षेपणीश्च कटङ्कटान् ॥ 008c
नाराचान्विविधानस्यन्सकङ्कोलूकवायसान् । 009a
चिक्षेप धनुरादाय निनदन्भैरवान्रवान् ॥ 009c
तं रौद्रं क्रूरमायान्तं दृष्ट्वा कालमिवागतम् । 010a
प्राद्रवद्भयसंविग्ना राजन्पाण्डववाहिनी ॥ 010c
सात्यकिस्तु रथव्याघ्रो दृष्ट्वा तं राक्षसं युधि । 011a
अभ्ययादमरप्रख्यो भ्रामयित्वा महद्धनुः ॥ 011c
अभ्यद्रवच्च तद्रक्षस्तिष्ठतिष्ठेति चाब्रवीत् । 012a
अलम्बुसं राक्षसेन्द्रं सोऽस्त्रवर्षैरवाकिरत् ॥ 012c
ततः पाण्डवसैन्यानि विद्रुतान्यथ भारत । 013a
निरीक्ष्याभ्यद्रवत्तूर्णं त्वरमाणो घटोत्कचः ॥ 013c
चिक्षेप च गदाशक्तीस्तोमरानथ पट्टसान् । 014a
हेमचित्रत्सरूनुग्रान्खड्गानाकाशसप्रभान् ॥ 014c
अन्योन्यमारादालोक्य राक्षसौ तौ महाबलौ । 015a
भैरवं नदतुर्नादान्सतोयाविव तोयदौ ॥ 015c
ततः प्रववृते युद्धं घोरं राक्षससिंहयोः । 016a
यादृगेव पुरा वृत्तं रामरावणयोर्मृधे ॥ 016c
स शक्तीश्च पिनाकांश्च वज्रान्खड्गान्परश्वथान् । 017a
अन्योन्यमभिसङ्क्रुद्धौ तदा व्यसृजतामुभौ ॥ 017c
आकृष्यमाणे धनुषि तयोर्बाहुबलेन च । 018a
यन्त्रेणेव तदा राजन्भृशं नादान्प्रचक्रतुः ॥ 018c
अलम्बुसस्ततश्चक्रं कृतान्तज्वलनप्रभम् । 019a
घटोत्कचाय चिक्षेप यत्नमास्थाय वीर्यवान् ॥ 019c
तद्भैमसेनिः सम्प्रेक्ष्य चक्रं वेगवदन्तरे । 020a
गदया ताडयामास तद्दीर्णं शतधाऽभवत् ॥ 020c
ततोऽग्निचूर्णैः सहसा चक्रघातविनिःसृतैः । 021a
दंशकैरिव सा सेना पतद्भिर्भृशसङ्कुला ॥ 021c
ततः प्रतिहते चक्रे स वीरो रोषसङ्कुलः । 022a
प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा ॥ 022c
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः । 023a
युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः ॥ 023c
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः । 024a
अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः ॥ 024c
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः । 025a
शरवर्षं महाघोरं घटोत्कचरथं प्रति ॥' 025c
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः । 026a
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥ 026c
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् ॥ 027ac
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः । 028a
यादृगेव पुरा वृत्तं रामरावणयोः प्रभो ॥ 028c
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे । 029a
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥ 029c
तथैवालम्बुसो राजन्हैडिम्बिं युद्धदुर्मदम् । 030a
विद्ध्वा विद्ध्वाऽनदद्धृष्टः पूरयन्खं समन्ततः ॥ 030c
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ । 031a
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥ 031c
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम् । 032a
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम् ॥ 032c
यांयां घटोत्कचो युद्धे मायां दर्शयते नृप । 033a
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥ 033c
तं तथा युध्यमानं तु मायायुद्धविशारदम् । 034a
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः ॥ 034c
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः । 035a
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ॥ 035c
त एनं कोष्ठकीकृत्य रथवंशेन मारिष । 036a
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥ 036c
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया । 037a
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥ 037c
स विष्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् । 038a
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ॥ 038c
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः । 039a
नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष । 039c
पञ्चभिःपञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥ 039e
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः । 040a
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत । 040c
नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥ 040e
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः । 041a
पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥ 041c
तस्य नादेन महता कम्पितेयं वसुन्धरा । 042a
सपर्वतवना राजन्सपादपजलाशया ॥ 042c
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः । 043a
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥ 043c
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः । 044a
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥ 044c
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः । 045a
व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान् ॥ 045c
ते शरा नतपर्वाणो भैमसेनिविनिर्भिदः । 046a
रुषिताः पन्नगा यद्वद्योधमुख्यानुपागमन् ॥ 046c
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् । 047a
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥ 047c
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः । 048a
'*नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः ॥ 048c
घटोत्कचं महाराज शरवर्षैरवाकिरत् । 049a
दग्धाद्रिकूटसदृशं तमञ्जनचयोपमम् ॥ 049c
घटोत्कचोऽप्यसम्भ्रान्तः शरवर्षं महत्तरम् । 050a
अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन् ॥ 050c
अलम्बुसवधाच्चोग्राद्धटोत्कचवधादपि । 051a
शराः प्रादुर्भवन्ति स्म द्विरेफा इव शाखिनः ॥ 051c
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर । 052a
न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः ॥ 052c
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः । 053a
अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः ॥ 053c
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः । 054a
अक्षमीषां युगं चैव चिच्छेद युधि ताडयन् ॥ 054c
अवस्कन्द्य रथात्तूर्णं कैर्मीरः क्रोधमूर्च्छितः । 055a
तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह ॥ 055c
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य स तमेव च । 056a
मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः ॥ 056c
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसोऽद्रवत् । 057a
अन्तर्हितो महाराज घटोत्कचमयोधयत् ॥ 057c
अन्तर्धानगतं दृष्ट्वा तत्रतत्र घटोत्कचः । 058a
गदया ताडयामास वेगवत्या महाबलः ॥ 058c
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः । 059a
अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराडिव ॥ 059c
घटोत्कचोऽप्यसम्भ्रान्तः खड्गपाणिरथोत्पतत् । 060a
ततो वेगेन महता विवर्षिषुरिवाम्बुदः ॥ 060c
तमापतन्तं सम्प्रेक्ष्य कैर्मीरी राक्षसोत्तमः । 061a
अभिदुद्राव वेगेन सिंहः सिंहमिव स्थितम् ॥ 061c
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा । 062a
अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः ॥ 062c
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ । 063a
अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा ॥ 063c
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः । 064a
शैलेनाभिहतस्येव शैलस्याभून्महास्वनः ॥ 064c
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम् । 065a
चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ ॥ 065c
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः । 066a
वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव ॥ 066c
ततः सैन्यानि ददृशुस्तद्युद्धमतिदारुणम् । 067a
युद्धं तयो राक्षसयोरामिषे श्येनयोरिव ॥ 067c
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ । 068a
तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ ॥ 068c
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः । 069a
उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ ॥ 069c
भ्रामयित्वा तु तं खड्गं पाण्डोः किर्मीरनन्दनः । 070a
चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः ॥ 070c
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि । 071a
पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम् ॥ 071c
शीर्षाघातांसघातैश्च परस्परमथाहतौ । 072a
पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः ॥ 072c
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः । 073a
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥ 073c
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च । 074a
भैमसेनिरथ क्रुद्धः सर्वसैन्यस्य पश्यतः ॥ 074c
असृक्क्षरितसर्वाङ्गश्चूर्णितास्थिविभूषणः । 075a
घटोत्कचेन निष्पिष्टो हतः सालकटङ्कटः ॥ 075c
पाण्डवानां ततः सेना तं दृष्ट्वा विनिपातितम् । 076a
ननाद सुमहानादं हर्षवेगसमाप्लुता ॥ 076c
ततस्तु निपपाताशु गतासुर्भुवि राक्षसः । 077a
शिखरं पर्वतस्येव वज्रवेगेन पातितम् ॥ 077c
पतता तेन महता रथिनां दन्तिनां दश । 078a
तव सैन्ये महाराज निहताः सुबृहत्तया ॥ 078c
ततो घटोत्कचो हत्वा तद्रक्षो वृत्रसन्निभम् । 079a
पुनः स रथमास्थाय विजिगीषुर्ननाद ह ॥' 079c
ततः सुमनसः पार्था हते तस्मिन्निशाचरे । 080a
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥ 080c
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् । 081a
अलम्बुसं तथा शूरा विशीर्णमिव पर्वतम् । 081c
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ ॥ 081e
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः । 082a
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥ 082c
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् । 083a
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥ 083c
स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते । 084a
रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुसं पक्वमलम्बुषं यथा ॥ 084c
ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् । 085a
निशम्य तं प्रत्यनदंस्तु पाण्डवास्ततो ध्वनिर्भुवनमथाऽस्पृशद्भृशम् ॥ 085c
'ततोऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम् । 086a
स्वकर्मावेदयन्मूर्ध्ना प्राञ्जलिर्निपपात ह ॥ 086c
मूर्ध्न्युपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः । 087a
प्रीतोऽस्मीत्यब्रवीद्राजन्हर्षादुत्फुल्ललोचनः ॥ 087c
घटोत्कचेन निष्पिष्टे हते सालकटङ्कटे । 088a
बभूवुर्मुदिताः सर्वे हते तस्मिन्निशाचरे ॥' 088c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे नवाधिकशततमोऽध्यायः ॥ 109 ॥

5-109-1 रक्षोग्रामणिमुख्ययोः रक्षःपतिप्रधानयोः ॥ 5-109-* नाभ्यपद्यतेत्यारभ्य विजिगीषुर्ननादहेति 79 तमश्लोकपर्यन्तं विद्यमानानां श्लोकानां स्थाने अधोलिखिताः सार्धषट्श्लोका एव झ.पुस्तके सन्ति । मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत । ततःसमरशौण्डो वै भैमसेनिर्महाबलः ॥ समीक्ष्य तदवस्थं तं वधायास्य मनो दधे । वेगं चक्रे महान्तं च राक्षसेन्द्र रथं प्रति ॥ दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् । रथाद्रथमभिद्रुत्य क्रुद्धो हैडिम्बिराक्षिपत् ॥ उद्बबर्ह रथाच्चापि पन्नगं गरुडो यथा । समुत्क्षिप्य च बाहुभ्यामाविद्ध्य च पुनःपुनः ॥ निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि । बललाघवसम्पन्नः सम्पन्नो विक्रमेण च ॥ भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् । स विष्फारितसर्वाङ्गश्चूर्णितास्थिर्विभीषणः ॥ घटोत्कचेन वीरेण हतः सालकटङ्कटः । 5-109-15 भुवनं स्वर्लोकम् ॥ 5-109-109 नवाधिकशततमोऽध्यायः ॥