श्रीः अध्यायः 108 द्रौपदेयैः शलवधः ॥ 1 ॥ भीमसेनेनालम्बुसपराजयः ॥ 2 ॥ सञ्जय उवाच 001
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः । 001a
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ 001c
ते पीडिता भृशं तेन रौद्रेण सहसा विभो । 002a
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ॥ 002c
नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम् । 003a
द्वाभ्यां विद्ध्वाऽनदद्धृष्टः शराभ्यां शत्रुकर्शनः ॥ 003c
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः । 004a
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥ 004c
स तान्प्रति महाराज पञ्च चिक्षेप सायकान् । 005a
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥ 005c
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना । 006a
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम् ॥ 006c
अार्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः । 007a
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥ 007c
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः । 008a
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ 008c
यौधिष्ठिरिर्ध्वजं तस्य च्छित्त्वा भूमावपातयत् । 009a
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत् ॥ 009c
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् । 010a
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः ॥ 010c
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् । 011a
अभासयद्रणोद्देशं बालसूर्यसमप्रभम् ॥ 011c
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः । 012a
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥ 012c
अलम्बुसस्तु समरे भीमसेनं महाबलम् । 013a
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥ 013c
सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ । 014a
विस्मयः सर्वभूतानां भयं चासीत्सुदारुणम् ॥ 014c
आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः । 015a
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥ 015c
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् । 016a
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥ 016c
स भीमं पञ्छभिर्विद्ध्वा शरैः सन्नतपर्वभिः । 017a
भैमान्परिजघानाशु रथांस्त्रिशतमाहवे । 017c
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥ 017e
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः । 018a
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः ॥ 018c
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्च्छितः । 019a
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् । 019c
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥ 019e
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः । 020a
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः ॥ 020c
स वध्यमानः समरे भीमचापच्युतैः शरैः । 021a
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना । 021c
घोरं रूपमथो कृत्वा भीमसेनमभाषत ॥ 021e
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥ 022ac
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली । 023a
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥ 023c
सञ्जय उवाच 024
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा । 024a
महता शरवर्षेण भृशं तं समवाकिरत् ॥ 024c
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा । 025a
आकाशं पूरयामास शरैः सन्नतपर्वभिः ॥ 025c
स वध्यमानो भीमेन निमेषाद्रथमास्थितः । 026a
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत् ॥ 026c
उच्चावचानि रूपाणि चकार सुबहूनि च । 027a
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः ॥ 027c
[निपेतुर्गगनाच्चैव शरधाराः सहस्रशः । 028a
शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः ॥ 028c
शतघ्न्यः परिघाश्चैव भिण्डिपालाः परश्वथाः । 029a
शिलाः खड्गा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह ॥ 029c
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा । 030a
जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि ॥] 030c
उच्चावचास्तथा वाचो व्याजहार समन्ततः । 031a
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः ॥ 031c
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः । 032a
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥ 032c
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् । 033a
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥ 033c
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् । 034a
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥ 034c
तं तथा समरे राजन्विचरन्तमभीतवत् । 035a
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥ 035c
तावकानां तु सैन्यानां प्रहर्षः समजायत । 036a
वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः ॥ 036c
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः । 037a
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ 037c
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः । 038a
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥ 038c
ततः शरसहस्राणि प्रादुरासन्समन्ततः । 039a
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥ 039c
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे । 040a
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥ 040c
स वध्यमानो बहुधा भीमसेनेन राक्षसः । 041a
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत् ॥ 041c
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना । 042a
अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम् ॥ 042c
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् । 043a
प्रह्रादमिव दैतेया यथा शक्रं मरुद्गणाः ॥ ॥ 043c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ॥ 108 ॥

5-108-12 सौमदत्तेः शलस्य ॥ 5-108-27 बृहत् बृहन् ॥ 5-108-28 कुण्डलितः पाठो ङ. झ. ञ. पुस्तकेषु दृश्यते ॥ 5-108-29 ऋष्टीः ऋष्टयः ॥ 5-108-108 अष्टाधिकशततमोऽध्यायः ॥