श्रीः अध्यायः 107 सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् । 001a
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥ 001c
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् । 002a
आजघ्ने त्वरितो राजन्द्रोणानीकबिभित्सया ॥ 002c
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः । 003a
धनुश्चिच्छेद भल्लेन पीतेन निशितेन ह ॥ 003c
अथैनं छिन्नधन्वानं शरेणानतपर्वणा । 004a
विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम् ॥ 004c
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव । 005a
व्यश्वसूतरथं चक्रे क्षेमधूर्तिं महारथम् ॥ 005c
ततोऽपरेण भल्लेन पीतेन निशितेन च । 006a
जहार नृपतेः कायाच्छिरोऽज्वलितकुण्डलम् ॥ 006c
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् । 007a
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥ 007c
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः । 008a
सहसाऽभ्यपतत्सैन्यं तावकं पार्थकारणात् ॥ 008c
धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी । 009a
वीरधन्वा महेष्वासो वारयामास भारत ॥ 009c
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ । 010a
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥ 010c
तावुभौ नरशार्दूलौ युयुधाते परस्परम् । 011a
महावने तीव्रमदौ वारणाविव यूथपौ ॥ 011c
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ । 012a
युयुधाते महावीर्यौ परस्परजिघांसया ॥ 012c
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशाम्पते । 013a
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ॥ 013c
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् । 014a
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥ 014c
तदुत्सृज्य धनुच्छिन्नं चेदिराजो महारथः । 015a
शक्तिं जग्राह विपुलां हेमदण्डामयस्मयीम् ॥ 015c
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत । 016a
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥ 016c
तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशम् । 017a
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥ 017c
तस्मिन्विनिहते वीरे त्रैगर्तानां महारथे । 018a
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥ 018c
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् । 019a
ननाद च महानादं तर्जयन्पाण्डवं रणे ॥ 019c
माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः । 020a
भ्राता भ्रातरमायत्तो विव्याध प्रहसन्निव ॥ 020c
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् । 021a
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥ 021c
दुर्मुखस्य तु भल्लेन च्छित्त्वा केतुं महाबलः । 022a
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 022c
अथापरेण भल्लेन पीतेन निशितेन ह । 023a
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ॥ 023c
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः । 024a
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥ 024c
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा । 025a
आरुरोह रथं राजन्निरमित्रस्य भारत ॥ 025c
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे । 026a
जघान पृथुधारेण भल्लेन परवीरहा ॥ 026c
स पपात रथोपस्थान्निरमित्रो जनेश्वरः । 027a
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥ 027c
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत । 028a
यथा दाशरथी रामः खरं हत्वा महाबलम् ॥ 028c
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर । 029a
राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम् ॥ 029c
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् । 030a
मुहूर्ताज्जितवाल्ँलोके तदद्भुतमिवाभवत् ॥ 030c
सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः । 031a
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥ 031c
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् । 032a
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥ 032c
कुमारे निहते तस्मिन्मागधस्य सुते प्रभो । 033a
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥ 033c
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः । 034a
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि | 034c
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् ॥ 034e
तांस्तु सर्वान्स बलवान्सात्यकिर्युद्धदुर्मदः । 035a
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः ॥ 035c
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः । 036a
बलं तेऽभज्यत विभो युयुधानशरार्दितम् ॥ 036c
नाशयित्वा रणे सैन्यं त्वदीयं तु समन्ततः । 037a
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ॥ 037c
भज्यमानं बलं राजन्सात्वतेन महात्मना । 038a
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ॥ 038c
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी । 039a
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥ ॥ 039c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्ताधिकशततमोऽध्यायः ॥ 107 ॥