श्रीः
अध्यायः 106
द्रोणयुधिष्ठिरयोर्युद्धम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः । 001a
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ॥ 001c
सञ्जय उवाच 002
अपराह्णे महाराज सङ्ग्रामे रोमहर्षणे । 002a
पाञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत ॥ 002c
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः । 003a
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष ॥ 003c
ततस्तु तुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः । 004a
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥ 004c
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह । 005a
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥ 005c
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः । 006a
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥ 006c
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः । 007a
विमुञ्चन्निशितान्बाणान्महेन्द्राशनिसन्निभान् ॥ 007c
तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः । 008a
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ 008c
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः । 009a
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्रमिव शम्बरः ॥ 009c
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् । 010a
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥ 010c
युधिष्ठिरं महाराजं जिगीषुं समवस्थितम् । 011a
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥ 011c
नकुलं कुशलं युद्धे पराक्रन्तं पराक्रमी । 012a
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥ 012c
सहदेवं तथाऽऽयान्तं दुर्मुखः शत्रुकर्शनः । 013a
शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥ 013c
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् । 014a
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥ 014c
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् । 015a
संरब्धान्रथिनः श्रेष्ठान्सौमदत्तिरवारयत् ॥ 015c
भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः । 016a
प्रत्यवारयदायान्तमार्श्यशृङ्गिर्महाबलः ॥ 016c
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे । 017a
यादृगेव पुरावृत्तं रामरावणयोर्नृप ॥ 017c
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् । 018a
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत ॥ 018c
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे । 019a
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥ 019c
अदृश्यं समरे चक्रे राजानं सायकोत्तमैः । 020a
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥ 020c
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः । 021a
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥ 021c
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे । 022a
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः ॥ 022c
अथैनं छिन्नधन्वानं त्वरमाणो महारथः । 023a
शरैरनेकसाहस्रैः पूरयामास सर्वतः ॥ 023c
अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः । 024a
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥ 024c
केचिच्चैनममन्यन्त तथैव विमुखीकृतम् । 025a
हृतो राजेति राजेन्द्र ब्राह्मणेन महात्मना ॥ 025c
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः । 026a
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे । 026c
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥ 026e
ततस्तान्सायकांस्तत्र दोणनुन्नान्सहस्रशः । 027a
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥ 027c
छित्त्वा तु ताञ्शरान्राजन्क्रोधसंरक्तलोचनः । 028a
शक्तिं जग्राह समरे गिरीणामपि दारिणीम् । 028c
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥ 028e
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली । 029a
नादेन सर्वभूतानि त्रासयन्निव भारत ॥ 029c
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे । 030a
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥ 030c
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा । 031a
प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा । 031c
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥ 031e
तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशाम्पते । 032a
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥ 032c
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् । 033a
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥ 033c
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् । 034a
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष ॥ 034c
विद्ध्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः । 035a
क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः ॥ 035c
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः । 036a
गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥ 036c
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः । 037a
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तप ॥ 037c
ते गदे सहसा मुक्ते समासाद्य परस्परम् । 038a
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥ 038c
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष । 039a
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥ 039c
चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम् । 040a
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥ 040c
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः । 041a
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥ 041c
विरथं तं समालोक्य व्यायुधं च विशेषतः । 042a
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥ 042c
मुञ्चंश्चेषुगणांस्तीक्ष्णाल्ँलघुहस्तो दृढव्रतः । 043a
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥ 043c
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना । 044a
हाहेति सुमहाञ्शब्दः पाण्डूनां समजायत ॥ 044c
हृतो राजा हृतो राजा भारद्वाजेन मारिष । 045a
इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ॥ 045c
ततस्त्वरितमारुह्य सहदेवरथं नृपः । 046a
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥ ॥ 046c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षडधिकशततमोऽध्यायः ॥ 106 ॥
5-106-2 द्रोणे युद्धमवर्तत क. ङ. पाठः । घोरं युद्धमवर्तत इति ट. पाठः ॥ 5-106-6 कम्पयन्तो भुवमिति शेषः ॥ 5-106-15 सौमदत्तिः शलः ॥ 5-106-25 हृतो राजेति अमन्यन्तेत्यनुषङ्गः ॥ 5-106-106 षडधिकशततमोऽध्यायः ॥