श्रीः अध्यायः 105 सञ्जयेन रथानां ध्वजवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया । 001a
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥ 001c
सञ्जय उवाच 002
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् । 002a
रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥ 002c
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः । 003a
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥ 003c
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः । 004a
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥ 004c
अनेकवर्णा विविधा ध्वजाः परमशोभनाः । 005a
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः । 005c
नानावर्णविरागाभिः शुशुभुः सर्वतो वृताः ॥ 005e
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः । 006a
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥ 006c
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ । 007a
दोधूयमाना रथिनां शोभयन्ति महारथान् ॥ 007c
सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः । 008a
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत ॥ 008c
स वानरध्वजो राजन्पताकाभिरलङ्कृतः । 009a
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥ 009c
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत । 010a
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ॥ 010c
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् । 011a
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम् ॥ 011c
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः । 012a
आहवे खं महाराज ददृशे पूरयन्निव ॥ 012c
पताकी काञ्चनः स्रग्वी ध्वजः कर्णस्य संयुगे । 013a
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥ 013c
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः । 014a
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥ 014c
स तेन भ्राजते राजन्गोवृषेण महारथः । 015a
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता ॥ 015c
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् । 016a
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमुपशोभयन् ॥ 016c
तेन तस्य रथो भाति मयूरेण महात्मनः । 017a
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥ 017c
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव । 018a
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥ 018c
सा सीता भ्राजते तस्य रथमास्थाय मारिष । 019a
सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥ 019c
वराहः सिन्धुराजस्य राजतोऽभिविराजते । 020a
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः ॥ 020c
शुशुभे केतुना तेन राजतेन जयद्रथः । 021a
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥ 021c
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः । 022a
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥ 022c
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते । 023a
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥ 023c
शलस्य तु महाराज राजतो द्विरदो महान् । 024a
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥ 024c
स केतुः शोभयामास सैन्यं ते भरतर्षभ । 025a
यथा श्वेतो महानागो देवराजचमूं तथा ॥ 025c
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः । 026a
किङ्किणीशतसंह्रादो भ्राजंश्चित्रो रथोत्तमे ॥ 026c
व्यभ्राजत भृशं राजन्पुत्रस्तव विशाम्पते । 027a
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥ 027c
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः । 028a
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः ॥ 028c
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः । 029a
अदीप्यतार्जुनो येन हिमवानिव शम्भुना ॥ 029c
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः । 030a
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥ 030c
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः । 031a
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥ 031c
तवापराधाद्राजानो निहता बहुशो युधि । 032a
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥ 032c
तेषामासीद्व्यातिक्षेपो गर्जतामितरेतरम् । 033a
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥ 033c
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः । 034a
यदेको बहुभिः सार्धं समागच्छदभीतवत् ॥ 034c
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः । 035a
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम् ॥ 035c
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः । 036a
अदृश्यांस्तावकान्योधान्प्रचक्रे शत्रुतापनः ॥ 036c
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः । 037a
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥ 037c
संवृते नरसिंहैस्तु कुरूणामृषभेऽर्जुने । 038a
महानासीत्समुद्भूतस्तस्य सैन्यस्य निःस्वनः ॥ ॥ 038c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

5-105-2 रूपमाकारः ॥ 5-105-10 ध्वजाग्रं ध्वजमुख्यम् ॥ 5-105-11 काञ्चनं काञ्चनमयम् ॥ 5-105-16 व्याहरिष्यन्वदिष्यन् ॥ 5-105-33 व्यतिक्षेपः अन्योन्याभिघातः ॥ 5-105-105 पञ्चाधिकशततमोऽध्यायः ॥