श्रीः अध्यायः 104 अर्जुनस्य भूरिश्रवःप्रभृतिभिरष्टभिर्युद्धम् ॥ 1 ॥ सञ्जय उवाच 001
तावकास्त्वभिसम्प्रेक्ष्य वृष्ण्यन्धककुरूद्वहौ । 001a
सत्वरास्तौ जिघांसन्तस्तथैव विजयः परान् ॥ 001c
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः । 002a
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥ 002c
रुक्मपुङ्खैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते । 003a
कूजद्भिरतुलान्नादन्रोषितैरुरगैरिव ॥ 003c
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः । 004a
कृपश्च मद्रराजश्च द्रोणिश्च रथिनां वरः ॥ 004c
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः । 005a
व्यराजयन्दश दिशो वैयार्घ्रैर्हेमचन्द्रकैः ॥ 005c
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिःस्वनैः । 006a
समावृण्वन्दश दिशः पार्थस्य निशितैः शरैः ॥ 006c
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् । 007a
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥ 007c
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः । 008a
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥ 008c
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः । 009a
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥ 009c
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः । 010a
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥ 010c
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ । 011a
प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि ॥ 011c
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः । 012a
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः ॥ 012c
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् । 013a
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः ॥ 013c
सर्वशब्दानतिक्रम्य पूरयामास रोदसी । 014a
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले ॥ 014c
भीरूणां त्रासजनने शूराणां हर्षवर्धने । 015a
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ॥ 015c
मृदङ्गेष्वपि राजेन्द्र वाद्यमानेष्वेनकशः । 016a
महारथसमाख्याता दुर्योधनहितैषिणः ॥ 016c
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः । 017a
कर्णादयो महेष्वासास्त्वत्सैन्यपरिरक्षिणः ॥ 017c
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः । 018a
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥ 018c
बभूव तव तत्सैन्यं शङ्खशब्दे समीरिते । 019a
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥ 019c
तत्प्रहृष्टजनाबाधं भेरीशङ्खनिनादितम् । 020a
बभूव भृशमुद्विग्नं निर्घातैरिव संवृतम् ॥ 020c
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् । 021a
त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥ 021c
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः । 022a
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥ 022c
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् । 023a
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥ 023c
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् । 024a
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥ 024c
कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा । 025a
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥ 025c
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् । 026a
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ 026c
कर्णो द्वात्रिंशता चैव वृषसेनश्च सप्तभिः । 027a
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः । 027c
मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥ 027e
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् । 028a
वासुदेवं च विंशत्या पुनः पार्थं च पञ्चभिः ॥ 028c
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः । 029a
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥ 029c
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः । 030a
शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत ॥ 030c
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः । 031a
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥ 031c
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह । 032a
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥ 032c
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः । 033a
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥ 033c
ततः शरशतैस्तीक्ष्णैस्तानरीन्श्वेतवाहनः । 034a
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ ॥ 034c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुरधिकशततमोऽध्यायः ॥ 104 ॥

5-104-2 वैयाघ्रैर्व्याघ्रचर्मचित्रैः ॥ 5-104-7 कौलूतकाः कुलूतदेशजाः पार्वतीयसमानलक्षणाः ॥ 5-104-8 आजानेयैः कुलीनैः । नदीजैर्नदीतीरजैः ॥ 5-104-104 चतुरधिकशततमोऽध्यायः ॥