श्रीः अध्यायः 103 अर्जुनेन दुर्योधनपराजयः ॥ 1 ॥ सञ्जय उवाच 001
एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः । 001a
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥ 001c
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे । 002a
प्रतोदं चास्य भल्लेन च्छित्त्वा भूमावपातयत् ॥ 002c
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः । 003a
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि ॥ 003c
तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च । 004a
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥ 004c
अष्टाविंशांस्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् । 005a
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥ 005c
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् । 006a
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥ 006c
कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ । 007a
मुष्टिश्च ते यथा पूर्वं भुजयोश्च बलं तव ॥ 007c
न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः । 008a
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥ 008c
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् । 009a
व्यर्थान्निपतितान्सङ्ख्ये दुर्योधनरथं प्रति ॥ 009c
वज्राशनिसमा घोराः परकायावभेदिनः । 010a
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना ॥ 010c
अर्जुन उवाच 011
द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निदर्शितम् । 011a
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥ 011c
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि । 012a
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥ 012c
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन । 013a
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥ 013c
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् । 014a
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥ 014c
यथा भविष्यद्यच्चैव तत्सर्वं विदितं तव । 015a
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥ 015c
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् । 016a
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥ 016c
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव । 017a
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥ 017c
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन । 018a
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥ 018c
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् । 019a
तस्माद्बृहस्पतिः प्राप ततः प्राप पुरन्दरः ॥ 019c
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् । 020a
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् । 020c
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥ 020e
सञ्जय उवाच 021
एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत् । 021a
मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना ॥ 021c
विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान् । 022a
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥ 022c
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना । 023a
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥ 023c
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन । 024a
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम ॥ 024c
ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः । 025a
अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥ 025c
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ । 026a
शरवर्षेण महता ततोऽहृष्यन्त तावकाः । 026c
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥ 026e
ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन् । 027a
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥ 027c
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः । 028a
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥ 028c
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान् । 029a
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥ 029c
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् । 030a
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥ 030c
[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः । 031a
स वेदनाभिराविग्नः पलायनपरायणः ॥] 031c
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः । 032a
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥ 032c
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः । 033a
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥ 033c
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत । 034a
अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ ॥ 034c
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् । 035a
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः ॥ 035c
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् । 036a
स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः ॥ 036c
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् । 037a
धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥ 037c
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् । 038a
महता शरवर्षेण तलशब्देन चार्जुनः ॥ 038c
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः । 039a
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥ 039c
'तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिःसृतेन । 040a
नादेन सासुरवियत्सुरलोकपालमुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम् ॥' 040c
तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च । 041a
निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः ॥ 041c
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः । 042a
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥ 042c
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु । 043a
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम् ॥ 043c
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः । 044a
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥ 044c
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् । 045a
प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ ॥ 045c
तेन शब्देन महता पूरितेयं वसुन्धरा । 046a
सशैला सार्णवद्वीपा सपाताला विशाम्पते ॥ 046c
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश । 047a
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥ 047c
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ । 048a
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः ॥ 048c
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ । 049a
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥ ॥ 049c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

5-103-7 गाण्डीवतो बाणाः इति ड. पाठः । गण्डीवतः प्राणा इति क. ट. पाठः ॥ 5-103-17 युक्ताम् अन्यप्रयुक्ताम् ॥ 5-103-20 ससङ्ग्रहं सोपदेशम् । दैवं देवैः कृतम् ॥ 5-103-28 निर्देहान् निकृत्तावयवान् ॥ 5-103-31 नखमांसान्तरे इषुभिराविद्ध्यदिति पूर्वेणान्वयः । सन्धिरार्षः । अयं श्लोकः झ. पाठ एवास्ति ॥ 5-103-36 क्रोशमात्रे सैन्धवतोर्थात् ॥ 5-103-103 त्र्यधिकशततमोऽध्यायः ॥