श्रीः अध्यायः 102 दुर्योधने निरुन्धाने कृष्णेन तद्दुष्कृतानुस्मारणपूर्वकमर्जुनम् प्रति तद्वधचोदना ॥ 1 ॥ अर्जुनम् प्रति दुर्योधनस्य वीरवादः ॥ 2 ॥ वासुदेव उवाच 001
दुर्योधनमतिक्रान्तमेतं पश्य धनञ्जय । 001a
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥ 001c
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः । 002a
दृढहस्तश्चित्रयोधी धार्तराष्ट्रो महाबलः ॥ 002c
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः । 003a
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥ 003c
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ । 004a
अत्र नो द्यूतमायत्तं विजयायेतराय वा ॥ 004c
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् | 005a
एष मूलमनर्थानां पाण्वानां महात्मनाम् ॥ 005c
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः । 006a
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥ 006c
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् । 007a
यथाऽयं जीवितं जह्यात्तथा कुरु धनञ्जय ॥ 007c
ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान् । 008a
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥ 008c
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानवाः । 009a
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥ 009c
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् । 010a
जह्येनं त्वं महाबाहो यथा वृत्रं पुरन्दरः ॥ 010c
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ । 011a
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥ 011c
बहूनि सुनृशंसानि कृतान्येतेन मानद । 012a
युष्मासु पापमतिना अपापेष्वपि नित्यदा ॥ 012c
तमनार्यं सदा क्रुद्धं पुरुषं कामरूपिणम् । 013a
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥ 013c
निकृत्या राज्यहरणं वनवासं च पाण्डव । 014a
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥ 014c
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते । 015a
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥ 015c
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह । 016a
दिष्ट्या च सफलाः पार्थ सर्वे कामा ह्यकामिताः ॥ 016c
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् । 017a
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥ 017c
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् । 018a
वैरस्य दिष्ट्या सहजं मूलं छिन्धि दुरात्मनाम् ॥ 018c
सञ्जय उवाच 019
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम । 019a
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥ 019c
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् । 020a
अप्यस्य युधि विक्रम्य च्छिन्द्यां मूर्धानमाहवे ॥ 020c
अपि तस्य ह्यनर्हायाः परिक्लेशस्य माधव । 021a
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥ 021c
'अप्यहं तानि दुःखानि पूर्ववृत्तानि माधव । 022a
दुर्योधनं रणे हत्वा प्रतिमोक्ष्ये कथञ्चन ॥' 022c
इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान्हयोत्तमान् । 023a
प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ॥ 023c
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ । 024a
न चकार भयं प्राप्ते भये महति मारिष ॥ 024c
तदस्य क्षत्रियाः कर्म सर्व एवाभ्यपूजयन् । 025a
यदर्जुनहृषीकेशौ प्रत्युद्यातौ न्यवारयत् ॥ 025c
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते । 026a
महानादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥ 026c
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति । 027a
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥ 027c
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना । 028a
संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ॥ 028c
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ । 029a
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥ 029c
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष । 030a
प्रहसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत् ॥ 030c
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः । 031a
व्यक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥ 031c
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयास्तु सर्वशः । 032a
निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥ 032c
शोकमापुः परं चैव कुरवः सर्व एव ते । 033a
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥ 033c
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ । 034a
हतो राजा हतो राजेत्यूचिरे च भयार्दिताः ॥ 034c
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् । 035a
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥ 035c
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः । 036a
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥ 036c
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च । 037a
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥ 037c
यद्बलं तव वीर्यं च केशवस्य तथैव च । 038a
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥ 038c
अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते । 039a
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥ ॥ 039c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

5-102-1 नास्तीत्यर्जुनोत्तेजनम् ॥ 5-102-6 आक्षेपं शरगोचरम् ॥ 5-102-15 कार्यस्य जयद्रथवधरूपस्य ॥ 5-102-19 कृत्यरूपमत्यन्तकरणीयम् ॥ 5-102-29 पदं प्रतिपदम् । गन्तुं पदवीं कलहस्य च इति क. पाठः ॥ 5-102-39 स्वामिसत्कारो वीरप्रधानोऽयमिति यदन्यैः सत्करणं तेन युक्तानि योग्यतां गतानि ॥ 5-102-102 द्व्यधिकशततमोऽध्यायः ॥