श्रीः अध्यायः 101 जयद्रथं यियासोरर्जुनस्य दुर्योधनेन निरोधः ॥ 1 ॥ सञ्जय उवाच 001
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप । 001a
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ॥ 001c
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्वचोदिताः । 002a
स्थिरीभूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ॥ 002c
ये गताः पाण्डवं युद्धे रोषामर्षसमन्विताः । 003a
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥ 003c
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः । 004a
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥ 004c
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ । 005a
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥ 005c
मत्स्याविव महाजालं विदार्य विगतक्लमौ । 006a
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥ 006c
विमुक्तौ शस्त्रसम्बाधाद्रोणानीकात्सुदुर्भिदात् । 007a
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥ 007c
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् । 008a
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ॥ 008c
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव । 009a
अक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥ 009c
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः । 010a
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥ 010c
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती । 011a
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥ 011c
आशा बलवती राजन्सिन्धुराजस्य जीविते । 012a
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥ 012c
तामाशां विफलीकृत्य सन्तीर्णौ तौ परन्तपौ । 013a
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥ 013c
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ । 014a
निराशाः सिन्धुराजस्य जीवितं न शशंसिरे ॥ 014c
मिथश्च समभाषेतामभीतौ भयवर्धनौ । 015a
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ॥ 015c
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः । 016a
चक्षुर्विषयसम्प्राप्तो न मे मोक्ष्यति सैन्धवः ॥ 016c
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह । 017a
तथाप्येनं निहंस्याव इति कृष्णावभाषताम् ॥ 017c
इति कृष्णौ महाबाहू मिथः कथयतां तदा । 018a
सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः ॥ 018c
अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ । 019a
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ ॥ 019c
व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान् । 020a
वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ ॥ 020c
तथाहि मुखवर्णोऽयमनयोरिति मेनिरे । 021a
तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः ॥ 021c
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् । 022a
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥ 022c
विमुक्तौ सागरप्रख्याद्द्रोणानीकादरिन्दमौ । 023a
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥ 023c
अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात् । 024a
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥ 024c
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः । 025a
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥ 025c
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् । 026a
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ॥ 026c
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः । 027a
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥ 027c
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः । 028a
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥ 028c
'महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम् । 029a
निस्तीर्णावध्वगौ यद्वत्तद्वत्तौ तारितौ रणे ॥' 029c
इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ । 030a
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात् ॥ 030c
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया । 031a
रुरुं वनान्ते लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥ 031c
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे । 032a
तव योधा महाराज हतमेव जयद्रथम् ॥ 032c
लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ । 033a
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥ 033c
शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः । 034a
तयोरासीत्प्रभा राजन्सूर्यपावकयोरिव ॥ 034c
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः । 035a
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥ 035c
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके । 036a
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषम् ॥ 036c
तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनञ्जयौ । 037a
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥ 037c
द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः । 038a
ययावेकरथेनाजौ हयसंस्करावित्प्रभो ॥ 038c
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः । 039a
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥ 039c
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् । 040a
प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनञ्जयम् ॥ 040c
सिंहनादरवाश्चासञ्शङ्खशब्दविमिश्रिताः । 041a
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥ 041c
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः । 042a
ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो ॥ 042c
दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम् । 043a
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ॥ ॥ 043c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकाधिकशततमोऽध्यायः ॥ 101 ॥

5-101-3 अमर्षश्चिरानुबद्धः कोपः ॥ 5-101-5 प्रभाकरौ चन्द्रादित्यौ ॥ 5-101-19 मरुधन्वानं मरुस्थलम् ॥ 5-101-28 सिन्धुः षष्ठी यासाम् । ताश्च शतद्रुविपाशेरावतीचन्द्रभागावितस्ताः । एताहि नितान्तदुस्तराः ॥ 5-101-31 रुरुं निपाने इति ट. पाठः । रूरुन्निपाते इति क. पाठः ॥ 5-101-39 अग्रतः प्रमुखे ॥ 5-101-101 एकाधिकशततमोऽध्यायः ॥