श्रीः अध्यायः 100 श्रीकृष्णेनार्जुननिर्मितसरसि स्नापनादिनाऽऽप्यायितानां तुरगाणां पुना रथे योजनम् ॥ 1 ॥ पुना रथमारूढयोः कृष्णार्जुनयोर्जयद्रथम् प्रति गमनम् ॥ 3 ॥ सञ्जय उवाच 001
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना । 001a
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥ 001c
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः । 002a
मोचयामास तुरगान्विनुन्नान्कङ्कपत्रिभिः ॥ 002c
अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत् । 003a
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥ 003c
पदातिनं तु कौन्तेयं युध्यमानं महारथाः । 004a
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥ 004c
आपतत्सु रथौघेषु प्रभूतगजवाजिषु । 005a
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥ 005c
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः । 006a
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥ 006c
शतानि शरजालानि गदाः प्रासांश्च वीर्यवान् । 007a
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥ 007c
अस्त्रवेगेन महता पार्थो बाहुबलेन च । 008a
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥ 008c
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः । 009a
अपूजयन्महाराज कौरवा महदद्भुतम् ॥ 009c
कौरवा ऊचुः 010
किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत् । 010a
यदश्वान्पार्थ गोविन्दौ पाययामासतू रणे ॥ 010c
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ । 011a
तेजो विदधतुश्चोग्रं यत्सैन्यं तावकं विभो । 011c
'दधारैको रणे पार्थो वेलेवोद्वृत्तमर्णवम् ॥ 011e
पार्थस्य शरसञ्छन्ने तस्मिन्सद्मनि भारत । 012a
आकाशमिव सम्प्राप्य विचेरुस्तत्र पक्षिणः ॥ 012c
न चैनं युधि तिष्ठन्तं सैन्येषु तव मारिष । 013a
अभ्यद्रवत्सुसङ्क्रुद्धः पुमान्कश्चित्तु तावकः ॥ 013c
सर्वे विमनसोऽभूवंस्तव योधा विशाम्पते । 014a
सम्प्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनञ्जयम् ॥' 014c
अथ स्मयन्हृषीकेशः स्त्रीमध्य इव भारत । 015a
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥ 015c
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः । 016a
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते ॥ 016c
'उपावृत्त्योत्थितानश्वान्पाणिभ्यां पुष्करेक्षणः । 017a
सम्मार्जयन्रणे राजन्पश्यतां सर्वयोधिनाम् ॥' 017c
तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान् । 018a
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥ 018c
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् । 019a
उपावर्त्य यथान्यायं पाययामास वारि सः ॥ 019c
स ताल्ँलब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् । 020a
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥ 020c
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः । 021a
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥ 021c
'योजयित्वा हयांस्तस्य विधिदृष्टेन कर्मणा । 022a
रणे चचार गोविन्दस्तृणीकृत्य महारथान् ॥' 022c
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः । 023a
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥ 023c
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः । 024a
घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥ 024c
तत्सैन्यं सर्वतो दृष्ट्वा रोमहर्षणमद्भुतम् । 025a
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चाब्रुवन् ॥ 025c
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ । 026a
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥ 026c
क्रोशतां यतमानानामसंसक्तौ परन्तपौ । 027a
दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु ॥ 027c
'यथा दैवासुरे युद्धे तृणीकृत्य च दानवान् । 028a
इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ ॥' 028c
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन् । 029a
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥ 029c
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् । 030a
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥ 030c
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः । 031a
अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम् ॥ 031c
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः । 032a
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥ 032c
विलयं समनुप्राप्ता तच्च राजा न बुध्यते । 033a
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥ 033c
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् । 034a
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥ 034c
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति । 035a
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥ 035c
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् । 036a
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥ 036c
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः । 037a
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥ 037c
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् । 038a
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत् ॥ 038c
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः । 039a
तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः ॥ 039c
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् । 040a
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥ 040c
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम् । 041a
दुर्योधनोऽन्वयात्पार्थं त्वरमाणो महाहवे ॥ 041c
वातोद्धूतपताकं तं रथं जलदनिःस्वनम् । 042a
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥ 042c
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् । 043a
शरार्ताश्च रणे योधाः शेकुः कृष्णौ न वीक्षितुम् ॥ ॥ 043c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे शततमोऽध्यायः ॥ 100 ॥

5-100-5 पुरुषानति पुरुषेभ्योऽतिशयः । असम्भ्रमत् । उपसर्गात्पूर्वमार्षोऽट् ॥ 5-100-11 विदधतुर्दर्शितवन्तौ ॥ 5-100-16 उपावर्तयत्परिलोडितवान् ॥ 5-100-18 श्रमं मनःकायखेदम् । ग्लानि बलापचयम् । वमथुं फेनोद्गमम् ॥ 5-100-39 प्रावहन् अत्यक्रामन् ॥ 5-100-49 धिष्ठितं किञ्चिदवस्थितम् ॥ 5-100-100 शततमोऽध्यायः ॥