श्रीः
अध्यायः 099
अर्जुनेन रणाङ्कणे हयाप्यायनाय शरैः सरोनिर्माणम् ॥ 1 ॥ तथा शरमयवेश्मनिर्माणम् ॥ 2 ॥
सञ्जय उवाच 001
'वर्तमाने तदा युद्धे द्रोणस्य सह पाण्डुभिः ।' 001a
परिवर्तमान आदित्ये तत्र सूर्ये च रश्मिभिः । 001c
रजसा कीर्यमाणाश्च मन्दीभूताश्च कौरवाः ॥ 001e
तिष्ठतां युध्यमानानां पुनरावर्ततामपि । 002a
भज्यतां जयतां चैव जगाम तदहः शनैः ॥ 002c
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु । 003a
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥ 003c
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः । 004a
चकार यं च पन्थानं ययौ तेन जनार्दनः ॥ 004c
यत्रयत्र रथो याति पाण्डवस्य महात्मनः । 005a
तत्रतत्रैव दीर्यन्ते सेनास्तव विशाम्पते ॥ 005c
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् । 006a
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥ 006c
ते तु नामाङ्किता बाणाः कालज्वलनसन्निभाः । 007a
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥ 007c
वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन् । 008a
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥ 008c
रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान् । 009a
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥ 009c
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः । 010a
यथाऽगच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥ 010c
न तथा गच्छति रथस्तपनस्य विशाम्पते । 011a
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च ॥ 011c
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः । 012a
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥ 012c
प्रविश्य तु रणे राजन्केशवः परवीरहा । 013a
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥ 013c
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः । 014a
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासासमन्विताः ॥ 014c
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः । 015a
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥ 015c
हतानां वाजिनागानां रथानां च नरैः सह । 016a
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥ 016c
'श्रमेण महता युक्तास्ते हया वातरंहसः । 017a
मन्दवेगगता राजन्संवृत्तास्तत्र संयुगे ॥' 017c
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप । 018a
सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम् ॥ 018c
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् । 019a
शराणां च शतैरश्वानविध्येतां मुदान्वितौ ॥ 019c
तावर्जुनो महाराज नवभिर्नतपर्वभिः । 020a
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥ 020c
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् । 021a
आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः ॥ 021c
तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः । 022a
चिच्छेद समरे तूर्णं भूय एव धनञ्जयः । 022c
अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥ 022e
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा । 023a
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥ 023c
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः । 024a
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः ॥ 024c
तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः । 025a
जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ ॥ 025c
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत । 026a
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥ 026c
विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान् । 027a
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥ 027c
अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् । 028a
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः ॥ 028c
अनुविन्दस्तु गदया ललाटे मधुसूदनम् । 029a
स्पष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥ 029c
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः । 030a
निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ॥ 030c
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः । 031a
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥ 031c
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ । 032a
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥ 032c
तयोः सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः । 033a
विबभौ जलदं हित्वा दिवाकर इवोदितः ॥ 033c
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः । 034a
अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ ॥ 034c
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् । 035a
सिंहनादेन महता सर्वतः पर्यवारयन् ॥ 035c
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः । 036a
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥ 036c
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः । 037a
किमिहानन्तरं कार्यं साधिष्ठं तव रोचते ॥ 037c
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा । 038a
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥ 038c
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे । 039a
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥ 039c
सञ्जय उवाच 040
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् । 040a
ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम् ॥ 040c
अर्जुन उवाच 041
अहमावारयिष्यामि सर्वसैन्यानि केशव । 041a
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥ 041c
सञ्जय उवाच 042
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः । 042a
गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः ॥ 042c
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः । 043a
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥ 043c
तमेकं रथवंशेन महता पर्यवारयन् । 044a
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥ 044c
शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् । 045a
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥ 045c
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् । 046a
नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥ 046c
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत । 047a
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥ 047c
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः । 048a
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥ 048c
तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते । 049a
सङ्घर्षेण महार्चिष्मान्पावकः समजायत ॥ 049c
तत्रतत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः । 050a
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन ॥ 050c
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे । 051a
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥ 051c
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् । 052a
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ 052c
असङ्ख्येयमपारं च रजो नीरमतीव च । 053a
उष्णीषकमठं छत्रपताकाफेनमालिनम् ॥ 053c
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् । 054a
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥ 054c
[धृतराष्ट्र उवाच 055
अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे । 055a
एतदन्तरमासाद्य कथं पार्थो न घातितः ॥ 055c
सञ्जय उवाच 056
सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः । 056a
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा ॥ 056c
स पार्थः पार्थिवान्सर्वान्भूमिस्थोपि रथस्थितान् । 057a
एको निवारयामास लोभः सर्वगुणानिव ॥] 057c
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् । 058a
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥ 058c
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन । 059a
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥ 059c
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् । 060a
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥ 060c
[हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । 061a
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम् ॥ 061c
कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम् । 062a
आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात् ॥] 062c
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् । 063a
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥ 063c
ततः प्रहस्य गोविन्दः साधुसाध्वित्यथाब्रवीत् । 064a
शरवेश्मनि पार्थेन कृते तस्मिन्महात्मना ॥ ॥ 064c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनशततमोऽध्यायः ॥ 99 ॥
5-99-17 स्नायुनद्धाः सूक्ष्मचर्माग्रग्रथिताः ॥ 5-99-9 क्रोशं कोशमुद्दिश्य ॥ 5-99-25 सूतौ सारथी । पाष्णीं पृष्ठरक्षौ ॥ 5-99-30 अद्रिचयो गिरिशृङ्गम् ॥ 5-99-49 प्रगाढानां व्यवगाढानाम् ॥ 5-99-54 वेलाभूतो मर्यादारूपः ॥ 5-99-55 कुण्डलितास्त्रयः श्लोकाः झ. पाठे एव वर्तन्ते ॥ 5-99-59 अलं पर्याप्तम् ॥ 5-99-60 अभिहत्य खात्वा । वाजिपानम् अश्वपानीयम् ॥ 5-99-61 हंसकारण्डवाकीर्णमित्यादियोग्यतया वर्णनम् ॥ कुण्डलितौ द्वौ श्लोकौ घ. झ. पाठयोरेव ॥ 5-99-63 वंशः शालाधारकाष्ठम् । स्थूणा मध्यस्तम्भः ॥ 5-99-99 एकोनशततमोऽध्यायः ॥