श्रीः
अध्यायः 098
द्रोणसात्यक्योर्युद्धम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते । 001a
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥ 001c
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः । 002a
नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि ॥ 002c
सञ्जय उवाच 003
सम्प्रस्रुतक्रोधविषो व्यादितास्यशरासनः । 003a
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान् ॥ 003c
संरम्भामर्षताम्राक्षो महोरग इव श्वसन् । 004a
नरवीरः प्रमुदितः शोणैरश्वैर्महाजवैः ॥ 004c
उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम् । 005a
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥ 005c
शरपातमहावर्षं रथघोषबलाहकम् । 006a
कार्मुकैरावृतं राजन्नाराचबहुविद्युतम् ॥ 006c
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् । 007a
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥ 007c
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः । 008a
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥ 008c
एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम् । 009a
आश्रयं धार्तराष्ट्रस्य धर्मराजभयावहम् ॥ 009c
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् । 010a
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥ 010c
सञ्जय उवाच 011
'एवमुक्तस्ततः सूतः सात्यकस्यावहद्रथम् ।' 011a
ततो रजतसङ्काशा माधवस्य हयोत्तमाः । 011c
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥ 011e
ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ । 012a
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम् ॥ 012c
इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ । 013a
पूरयामासतुर्वीरावुभौ दश दिशः शरैः । 013c
मेघाविवातपापाये धाराभिरितरेतरम् ॥ 013e
न स्म सूर्यस्तदा भाति न ववौ च समीरणः । 014a
इषुजालावृतं घोरमन्धकारं समन्ततः ॥ 014c
अनाधृष्यमिवान्येषां शूराणामभवत्तदा । 015a
अन्धकारीकृते लोके द्रोणशैनेययोः शरैः ॥ 015c
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा । 016a
नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः ॥ 016c
इषूणां सन्निपातेन शब्दो धाराभिघातजः । 017a
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥ 017c
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ । 018a
आशीविषविदष्टानां सर्पाणामिव भारत ॥ 018c
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः । 019a
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥ 019c
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी । 020a
रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा ॥ 020c
निर्मलानामजिह्मानां नाराचानां विशाम्पते । 021a
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ॥ 021c
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ । 022a
'निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे ॥' 022c
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ । 023a
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ । 023c
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः ॥ 023e
गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः । 024a
उपारमन्महाराज व्याजहार न कश्चन ॥ 024c
तुष्णीम्भूतान्यनौकानि योधा युद्धादुपारमन् । 025a
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः ॥ 025c
रथिनो हस्तियन्तारो हयारोहाः पदातयः । 026a
अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ ॥ 026c
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् । 027a
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥ 027c
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः । 028a
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥ 028c
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः । 029a
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥ 029c
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु । 030a
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥ 030c
सबलाकाः सखद्योताः सैरावतशतह्रदाः । 031a
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥ 031c
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः । 032a
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥ 032c
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः । 033a
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ॥ 033c
'गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः ।' 034a
गतप्रत्यागताक्षेपैश्चित्रैरस्त्रविघातिभिः । 034c
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥ 034e
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ । 035a
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी ॥ 035c
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे । 036a
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः ॥ 036c
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः । 037a
सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः ॥ 037c
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत । 038a
सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः ॥ 038c
एवमेकशतं छिन्नं धनुषां दृढधन्विना । 039a
न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च ॥ 039c
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् । 040a
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत् ॥ 040c
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये । 041a
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥ 041c
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् । 042a
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ॥ 042c
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः । 043a
न तामालक्षयामासुर्लघुतां शीघ्रचारिणः ॥ 043c
देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते । 044a
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ॥ 044c
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः । 045a
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥ 045c
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः । 046a
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥ 046c
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे । 047a
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥ 047c
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः । 048a
तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः ॥ 048c
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः । 049a
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥ 049c
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः । 050a
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत् ॥ 050c
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ । 051a
न विचेरुस्तदाऽऽकाशे भूतान्याकाशगान्यपि ॥ 051c
अस्त्रे ते वारुणाग्नेये यदा बाणैः समाहिते । 052a
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः ॥ 052c
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः । 053a
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥ 053c
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः । 054a
मत्स्याः साल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥ 054c
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः । 055a
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥ 055c
ततो युद्धमभूद्राजंस्तेषां तव च धन्विनाम् | 056a
रजसा संवृते लोके शरजालसमावृते ॥ 056c
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन । 057a
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ 057c
'तेनान्तरेण पार्थस्तु रणे जित्वा महारिपून् । 058a
अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान्' ॥॥ 058c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥ 98 ॥
5-98-16 अन्तरमवच्छेदः ॥ 5-98-27 रथवाहिन्यो रथसेनाः ॥ 5-98-29 वैजयन्ती विलक्षणाभिः पताकाभिः । परिस्तोमैर्वर्णकम्बलैः । अङ्गकम्बलैः सूक्ष्मकम्बलैः ॥ 5-98-31 ऐरावतमिन्द्रधनुः । ऐरावतोभ्रमातङ्गै इत्युपक्रम्य नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने इति मेदिनी ॥ उष्णस्य पर्याये अपगमे वागुराः जालानि समूहा इतियावत् ॥ 5-98-34 प्रत्यागतं निवर्तनम् । आक्षेपः प्रहरणम् ॥ 5-98-43 आलक्षयामासुर्लक्षितवन्तः ॥ 5-98-44 विदुर्नेत्यनुषज्यते ॥ 5-98-47 योगेन युक्त्या ॥ 5-98-52 न यावदभ्यपद्येतां यावदेव न पराभूते । व्यावर्तत् मध्याह्नतः परावृत्तोऽभूत् ॥ 5-98-98 अष्टनवतितमोऽध्यायः ॥