श्रीः अध्यायः 097 द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥ सञ्जय उवाच 001
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे रोमहर्षणे । 001a
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥ 001c
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत । 002a
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥ 002c
किरंस्तु शरवर्षाणि रोचमान इवांशुमान् । 003a
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥ 003c
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् । 004a
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम् ॥ 004c
सङ्क्षये तु तथाभूते वर्तमाने महाभये । 005a
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥ 005c
द्रोणः पाञ्चालपुत्रेण बली बलवता सह । 006a
यदक्षिपत्पृषत्कौघांस्तदद्भुतमिवाभवत् ॥ 006c
पुण्डरीकवनानीव विध्वस्तानि समन्ततः । 007a
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥ 007c
विनिकीर्णानि वीराणामनीकेषु समन्ततः । 008a
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥ 008c
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च । 009a
कोविदारा इवाभान्ति पुष्पितास्तत्र भारत । 009c
तावकाः समरे योधाः पाण्डवेयाश्च विक्षताः ॥ 009a
कुञ्जराश्वनरान्ये पातयन्ति स्म पत्रिभिः । 010c
तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ 010a
असिचर्माणि चापानि शिरांसि कवचानि च । 011a
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥ 011c
उत्थितान्यगणेयानि कबन्धानि समन्ततः । 012a
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥ 012c
गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा । 013a
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥ 013c
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम् । 014a
विलुम्पमानाः केशांश्च मज्जाश्च बहुधा नृप ॥ 014c
आकर्षन्तः शरीराणि शरीरावयवांस्तथा । 015a
नराश्वगजसङ्घानां शिरांसि च ततस्ततः ॥ 015c
कृतास्त्रा रणशिक्षाभिर्दीक्षिता रणशालिनः । 016a
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा ॥ 016c
असिमार्गान्बहुविधान्विचेरुः सैनिका रणे । 017a
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टसैः ॥ 017c
गदाभिः परिघैश्चान्यैरायुधैश्च भुजैरपि । 018a
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गता नराः ॥ 018c
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः । 019a
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥ 019c
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः । 020a
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च ॥ 020c
वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते । 021a
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥ 021c
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः । 022a
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥ 022c
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः । 023a
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥ 023c
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम् । 024a
असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥ 024c
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा । 025a
ईषायाः समतिक्रम्य द्रोणस्य रथमाविशत् ॥ 025c
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च । 026a
जघनार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥ 026c
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः । 027a
न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ 027c
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः । 028a
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥ 028c
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् । 029a
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥ 029c
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली । 030a
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी ॥ 030c
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् । 031a
धृष्टद्युम्नाय चिक्षेप वज्रं वज्रधरो यथा ॥ 031c
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः । 032a
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत् ॥ 032c
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष । 033a
द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥ 033c
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे । 034a
शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत् ॥ 034c
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान् । 035a
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥ 035c
ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः । 036a
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन् ॥ ॥ 036c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तनवतितमोऽध्यायः ॥ 97 ॥

5-97-26 युगसन्नहनेषु युगबन्धेषु ॥ 5-97-36 अवाक्षिन् अपनीतवन्तः ॥ 5-97-97 सप्तनवतितमोऽध्यायः ॥