श्रीः
अध्यायः 096
राज्ञां द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम । 001a
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥ 001c
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् । 002a
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥ 002c
रक्षमाणः स्वथं व्यूहं द्रोणोऽपि सह सैनिकैः । 003a
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः ॥ 003c
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः । 004a
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः ॥ 004c
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः । 005a
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥ 005c
तेषां युद्धं समभवद्दारुणं शोणितोदकम् । 006a
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ 006c
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः । 007a
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥ 007c
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः । 008a
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥ 008c
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् । 009a
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ 009c
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा । 010a
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ॥ 010c
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् । 011a
ससैन्यो योधयामास गजः प्रतिगजं यथा ॥ 011c
बाह्लीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान् । 012a
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥ 012c
अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः । 013a
इन्द्रियाणि यथा देहं शश्वद्देहवतां वर ॥ 013c
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव । 014a
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ 014c
सोऽतिविद्धो बलवता महेष्वासेन धन्विना । 015a
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः ॥ 015c
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् । 016a
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥ 016c
तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ । 017a
रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥ 017c
अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः । 018a
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥ 018c
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः । 019a
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥ 019c
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् । 020a
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा ॥ 020c
शकुनिं रभसं युद्धे कृतवैरं च भारत । 021a
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम् ॥ 021c
तुमुलः स महान्राजन्प्रावर्तत जनक्षयः । 022a
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥ 022c
रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः । 023a
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥ 023c
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः । 024a
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम् ॥ 024c
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ । 025a
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥ 025c
स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः । 026a
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥ 026c
घटोत्कचस्तथा शूरं राक्षसं तमलामुधम् । 027a
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥ 027c
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् । 028a
यादृशं हि पुरावृत्तं रामरावणयोर्मृधे ॥ 028c
ततो युधिष्ठिरो राजा मद्रराजानमाहवे । 029a
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥ 029c
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप । 030a
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥ 030c
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः । 031a
अयोधयन्भीमसेनं महत्या सेनया वृताः ॥ ॥ 031c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षण्णवतितमोऽध्यायः ॥ 96 ॥
5-96-23 हुताशनः प्रावर्ततेत्यनुषज्यते ॥ 5-96-96 षण्णवतितमोऽध्यायः ॥