श्रीः
अध्यायः 095
राज्ञां द्वन्द्वीभूय युद्धाय समागमः ॥ 1 ॥
सञ्जय उवाच 001
प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे । 001a
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥ 001c
जवेनाभ्यद्रवन्द्रोणं महता निःस्वनेन च । 002a
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥ 002c
तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम् । 003a
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम् ॥ 003c
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् । 004a
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते ॥ 004c
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः । 005a
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥ 005c
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् । 006a
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥ 006c
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये । 007a
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते ॥ 007c
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् । 008a
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥ 008c
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः । 009a
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥ 009c
भारद्वाजानिलोद्भूतः शरधारासहस्रवान् । 010a
अभ्यवर्षन्महारौद्रं पाण्डुसेनाग्निमुद्धतम् ॥ 010c
समुद्रमिव घर्मान्ते विशन्घोरो महानिलः । 011a
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥ 011c
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् । 012a
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥ 012c
वारयामास तान्द्रोणो जलौघमचलो यथा । 013a
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥ 013c
अथापरे च राजानः परिवृत्य समन्ततः । 014a
महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥ 014c
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह । 015a
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥ 015c
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते । 016a
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत ॥ 016c
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः । 017a
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ॥ 017c
शरधाराश्मवर्षाणि व्यसृजत्सर्वतो दिशम् । 018a
निघ्नन्रथवराश्वौघान्प्लावयामास वाहिनीम् ॥ 018c
यंयमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् । 019a
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥ 019c
तथा तु यतमानस्य द्रोणस्य युधि भारत । 020a
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥ 020c
भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे । 021a
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः ॥ 021c
सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः । 022a
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥ 022c
धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः । 023a
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥ 023c
कालः स्म ग्रसते योधान्धृष्टद्युम्नेन मोहितान् । 024a
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः ॥ 024c
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः । 025a
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥ 025c
अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च । 026a
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा ॥ 026c
त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः । 027a
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥ 027c
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः । 028a
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥ 028c
रथं नागं हयं चापि पत्तिनश्च विशाम्पते । 029a
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥ 029c
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत । 030a
दधार यो रणे बाणान्द्रोणचापच्युतान्प्रभो ॥ 030c
तत्पच्यमानमर्केण द्रोणसायकतापितम् । 031a
बभ्राम पार्षतं सैन्यं तत्रतत्रैव भारत ॥ 031c
'हन्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः । 032a
शरैरग्निशिखाकारैर्दह्यते भरतर्षभ ॥' 032c
तथैव पार्षतेनापि काल्यमानं बलं तव । 033a
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥ 033c
बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः । 034a
त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः ॥ 034c
तावकानां परेषां च युध्यतां भरतर्षभ । 035a
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥ 035c
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् । 036a
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥ 036c
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् । 037a
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥ 037c
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः । 038a
सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥ 038c
शैब्यो गोवासनो राजा योधैर्दशशतावरैः । 039a
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥ 039c
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् । 040a
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् || 040c
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः । 041a
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥ 041c
स्वकेनाहमनीकेन सन्नद्धः कवचावृतः । 042a
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥ 042c
शकुनिस्तु सहानीको माद्रीपुत्राववारयत् । 043a
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः ॥ 043c
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् । 044a
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ ॥ 044c
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् । 045a
बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥ 045c
धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः । 046a
आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत् ॥ 046c
घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम् । 047a
अलामुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥ 047c
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः । 048a
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥ 048c
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत । 049a
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥ 049c
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ । 050a
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥ 050c
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः । 051a
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥ 051c
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः । 052a
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः ॥ ॥ 052c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥ 95 ॥
5-95-7 हिमात्यये शिशिरे । सेनाग्रे प्रधाने सेने ॥ 5-95-18 प्लावयामास विद्रावितवान् ॥ 5-95-19 अपाकर्षत व्यावर्तितवान् ॥ 5-95-22 सङ्घट्टयति सम्मेलयति ॥ 5-95-39 काश्यस्य काशिराजस्य ॥ 5-95-46 आवन्त्योऽन्यः ॥ 5-95-95 पञ्चनवतितमोऽध्यायः ॥