श्रीः
अध्यायः 094
अर्जुनाद्भीतेन दुर्योधनेन द्रोणमेत्य तदुपालम्भपूर्वकं जयद्रथम् प्रति शोचनम् ॥ 1 ॥ द्रोणेन दुर्योधनस्य मन्त्रोच्चारणपूर्वकं कवचमाबध्यार्जुनेन सह युद्धाय प्रेषणम् ॥ 2 ॥
सञ्जय उवाच 001
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया । 001a
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥ 001c
काम्भोजस्य च दायादे हते राजन्सुदक्षिणे । 002a
श्रुतायुषि च विक्रान्ते निहते सव्यसाचिना ॥ 002c
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः । 003a
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥ 003c
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् । 004a
गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम् ॥ 004c
अथ बुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम् । 005a
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥ 005c
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः । 006a
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥ 006c
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः । 007a
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥ 007c
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप । 008a
जयद्रथस्य गोप्तारः संशयं परमं गताः ॥ 008c
स्थिरा बुद्धिर्नरेन्द्राणमासीद्ब्रह्मविदां वर । 009a
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ॥ 009c
योऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते । 010a
सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम ॥ 010c
जानामि त्वां महाभाग पाण्डवानां हिते रतम् । 011a
ततो मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥ 011c
यथाशक्ति च ते ब्रह्मन्वर्धयन्वृत्तिमुत्तमाम् । 012a
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥ 012c
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम । 013a
पाण्डवान्सततं प्रीणास्यास्माकं विप्रिये रतान् ॥ 013c
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः । 014a
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥ 014c
'नह्यहं त्वां विजानामि सर्वं मण्डूकराविणम् ।' 015a
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे । 015c
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥ 015e
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना । 016a
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥ 016c
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः । 017a
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥ 017c
स तथा कुरु शोणाश्व यथा मुच्येत सैन्धवः । 018a
मम चार्तप्रलापानां माक्रुधः पाहि सैन्धवम् ॥ 018c
द्रोण उवाच 019
नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः । 019a
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशाम्पते ॥ 019c
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः । 020a
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ॥ 020c
किं न पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः । 021a
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥ 021c
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः । 022a
सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥ 022c
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् । 023a
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥ 023c
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे नृप । 024a
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥ 024c
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् । 025a
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥ 025c
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः । 026a
वीरः स्वयं प्रयाह्याशु यत्र पार्थो धनञ्जयः ॥ 026c
दुर्योधन उवाच 027
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम् । 027a
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥ 027c
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः । 028a
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥ 028c
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः । 029a
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥ 029c
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः । 030a
श्रुतायुश्चाश्रुतायुश्च भ्लेच्छाश्चायुतशो हताः ॥ 030c
तं कथं पाण्डवं युद्धे दहन्तमिव पावकम् । 031a
प्रतियोत्स्यामि दुर्धर्षं तन्ममाचक्ष्व सत्तम || 031c
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् । 032a
परवानस्मि भवतः प्रेष्यवद्रक्ष मे यशः ॥ 032c
द्रोण उवाच 033
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः । 033a
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥ 033c
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः । 034a
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥ 034c
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् । 035a
यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे ॥ 035c
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः । 036a
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥ 036c
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे । 037a
शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥ 037c
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् । 038a
त्वरमाणः स्वयं याहि न त्वाऽसौ विषहिष्यति ॥ 038c
सञ्जय उवाच 039
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् । 039a
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥ 039c
रणे तस्मिन्सुमहति विजयस्य सुतस्य ते । 040a
विसिष्मापयिषुर्लोकान्विद्यया ब्रह्मवित्तमः ॥ 040c
द्रोण उवाच 041
करोतु स्वस्ति ते ब्रह्मा स्वस्ति कुर्वन्तु ब्राह्मणाः । 041a
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥ 041c
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः । 042a
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा ॥ 042c
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च । 043a
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥ 043c
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा । 044a
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥ 044c
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः । 045a
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥ 045c
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः । 046a
स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः ॥ 046c
'येन देवाः सकृद्भग्नाः सङ्ग्रामे तारकामये । 047a
धृताः स च हतः शूरो ह्यवध्यो देवतागणैः ॥ 047c
विवस्वान्कुरुतां स्वस्ति तथा वैवस्वतो यमः । 048a
पार्षदा वशगा यस्य स्वस्ति तुभ्यं प्रयच्छतु ॥' 048c
दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः । 049a
'दिशश्च विदिशश्चैव सिद्धा लोकहिते रताः । 049c
स्वस्ति कुर्वन्तु ते नित्यं मन्त्रेणानेन संस्तुताः ॥' 049e
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप । 050a
शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥ 050c
गान्धारे युधि विक्रम्य निर्जिते पाकशासनेः । 051a
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥ 051c
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः । 052a
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥ 052c
देवा ऊचुः 053
प्रमर्दितानां वृत्रेण देवानां देवसत्तम । 053a
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥ 053c
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् । 054a
प्राह पथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥ 054c
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः । 055a
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥ 055c
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा । 056a
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥ 056c
शङ्करस्य प्रसादाद्वै हन्याद्देवरिपुर्बली । 057a
नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः ॥ 057c
दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम् । 058a
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥ 058c
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः । 059a
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ॥ 059c
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् । 060a
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् ॥ 060c
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः । 061a
एवमुक्तास्तु ते सर्वे प्रत्युचूस्तं दिवौकसः ॥ 061c
हृतौजसां नो वृत्रेण गतिर्भव दिवौकसाम् । 062a
मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः । 062c
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥ 062e
शर्व उवाच 063
विदितं वो यथा देवाः कृत्येयं सुमहाबला । 063a
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याऽकृतात्मभिः ॥ 063c
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् । 064a
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ॥ 064c
बधानानेन मन्त्रेण मानसेन सुरेश्वर । 065a
वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः ॥ 065c
द्रोण उवाच 066
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च । 066a
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥ 066c
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे । 067a
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥ 067c
स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा । 068a
जघान समरेऽभीतः शक्रो देवाग्रणीस्तदा ॥ 068c
तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ । 069a
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः । 069c
बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥ 069e
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते । 070a
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥ 070c
सञ्जय उवाच 071
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम् । 071a
पुनरे वचः प्राह शनैराचार्यपुङ्गवः ॥ 071c
ब्रह्मसूत्रेण बध्नामि कथचं तव भारत । 072a
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥ 072c
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये । 073a
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥ 073c
सञ्जय उवाच 074
बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् । 074a
प्रेषयामास राजानं युद्धाय महते द्विजः ॥ 074c
स सन्नद्धो महाबाहुराचार्येण महात्मना । 075a
'प्रस्थितः सहसा राजन्यत्र यातो धनञ्जयः ॥' 075c
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् । 076a
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् ॥ 076c
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः । 077a
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति ॥ 077c
नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥ 078ac
ततः शब्दो महानासीत्सैन्यानां तव भारत । 079a
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥ ॥ 079c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥ 94 ॥
5-94-10 आतुरमनवस्थितम् ॥ 5-94-12 नावबुध्यसे न स्मरसि ॥ 5-94-13 नेच्छसि नानुरुध्यसे ॥ 5-94-14 वचसा ललितं सदा । हृदयेन भृशं तीक्ष्णम् इति क. पाठः ॥ 5-94-35 ते त्वाम् ॥ 5-94-49 चत्वार ऐरावतवामनाञ्जनसार्वभौमाः ॥ 5-94-56 अनुज्ञां वरम् ॥ 5-94-57 हन्याद्धन्तुमर्हति ॥ 5-94-65 मानसेन मनसोच्चारणीयेन ॥ 5-94-72 ब्रह्मसूत्रेण ब्रह्मणा सूचितेनोपदेशेन ॥ 5-94-94 चतुर्नवतितमोऽध्यायः ॥