श्रीः
अध्यायः 093
अर्जुनेन श्रुतायुःप्रभृतीनां वधः ॥ 1 ॥
सञ्जय उवाच 001
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे । 001a
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥ 001c
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । 002a
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥ 002c
तेषां षष्टिशतानन्यान्प्रामथ्नात्पाण्डवः शरैः । 003a
ते स्म भीताः पलायन्ते व्याघ्रात्क्षुद्रमृगा इव ॥ 003c
ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन् । 004a
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान्युधि ॥ 004c
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः । 005a
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः ॥ 005c
शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा । 006a
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रबलैर्युधि ॥ 006c
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ । 007a
श्रुतायुश्चाश्रुतायुश्च धनञ्जयमयुध्यताम् ॥ 007c
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ । 008a
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥ 008c
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः । 009a
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥ 009c
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् । 010a
पूरयामासतुः क्रुद्धौ तटाकं जलदौ यथा ॥ 010c
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् । 011a
आजघान रथश्रेष्ठः पीतेन निशितेन च ॥ 011c
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः । 012a
जगाम परमं मोहं मोहयन्केशवं रणे ॥ 012c
एतस्मिन्नेव काले तु सोऽश्रुतायुर्महारथः । 013a
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥ 013c
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः । 014a
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥ 014c
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते । 015a
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥ 015c
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतनम् । 016a
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥ 016c
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् । 017a
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥ 017c
सचक्रकूबररथं साश्वध्वजपताकिनम् । 018a
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥ 018c
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत । 019a
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥ 019c
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् । 020a
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥ 020c
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः । 021a
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥ 021c
ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान् । 022a
विचेरुराकाशगताः पार्थचापविनिःसृताः ॥ 022c
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः । 023a
प्रतस्थे तत्रतत्रैव योधयन्वै महारथान् ॥ 023c
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ । 024a
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥ 024c
श्रुतायुषश्च निधनं वधश्चेवाश्रुतायुषः । 025a
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥ 025c
तयोः पदानुगान्हत्वा पुनः पञ्चशतं रथान् । 026a
प्रत्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥ 026c
श्रुतायुषं च निहतं प्रेक्ष्य चैवाश्रुतायुषम् । 027a
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥ 027c
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रति जग्मतुः । 028a
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥ 028c
तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः । 029a
प्रैषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥ 029c
लोडयन्तमनीकानि द्विपं पद्मसरो यथा । 030a
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥ 030c
अङ्गास्तु गजसङ्घैश्च पाण्डवं पर्यवारयन् । 031a
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः ॥ 031c
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः । 032a
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥ 032c
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः । 033a
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान् ॥ 033c
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः । 034a
बभौ कनकपाषाणा भुजगैरिव संवृता ॥ 034c
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च । 035a
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥ 035c
शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः । 036a
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥ 036c
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः । 037a
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥ 037c
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः । 038a
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥ 038c
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः । 039a
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥ 039c
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः । 040a
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः ॥ 040c
सोत्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः । 041a
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ॥ 041c
यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः । 042a
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः ॥ 042c
द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः । 043a
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ॥ 043c
दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः । 044a
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः ॥ 044c
अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः । 045a
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः ॥ 045c
तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः । 046a
सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥ 046c
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः । 047a
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान् । 047c
म्लेच्छानशातयत्सर्वान्समेतानस्त्रतेजसा ॥ 047e
शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः । 048a
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥ 048c
गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः । 049a
बकाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥ 049c
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् । 050a
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम् । 050c
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥ 050e
छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम् । 051a
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥ 051c
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् । 052a
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे । 052c
तथाऽऽसीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥ 052e
षट्सहस्रान्हयान्वीरान्पुनर्दशशतान्वरान् । 053a
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥ 053c
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः । 054a
शेरते भूमिमासाद्य शैला वज्रहता इव ॥ 054c
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः । 055a
प्रभिन्न इव मातङ्गो मृद्गन्नलवनं यथा ॥ 055c
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् । 056a
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥ 056c
सेनारण्यं तव तथा कृष्णानिलसमीरितः । 057a
शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः ॥ 057c
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् । 058a
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः । 058c
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ॥ 058e
'ततः प्रावर्तत नदी शोणितौघतरङ्गिणी । 059a
नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा ॥ 059c
अस्थिशर्करसम्बाधा ध्वजवृक्षा रथह्रदा । 060a
सञ्छिन्नशीर्षपाषाणा हस्तिहस्तमहाग्रहा ॥ 060c
मांसमज्जास्थिपङ्काढ्यां हताश्वमकराकुला । 061a
उष्णीषफेनसञ्छन्ना शरघोरझषाकुला ॥ 061c
रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम् ।' 062a
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ॥ 062c
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥ 063ac
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः । 064a
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष । 064c
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥ 064e
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः । 065a
आससाद रणे पार्थं केशवं च महारथम् ॥ 065c
ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत । 066a
रथमावार्य गदया केशवं समताडयत् ॥ 066c
गदया ताडितं दृष्ट्वा केशवं परवीरहा । 067a
अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत ॥ 067c
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् । 068a
छादयामास समरे मेघः सूर्यमिवोदितम् ॥ 068c
अथापरैः शरैश्चापि गदां तस्य महात्मनः । 069a
अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत् ॥ 069c
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम् । 070a
अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥ 070c
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ । 071a
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥ 071c
स पपात हतो राजन्वसुधामनुनादयन् । 072a
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥ 072c
अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत ॥ 073ac
रथानीकावगाढश्च वारणाश्वशतैर्वृतः । 074a
अदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥ 074c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥ 93 ॥
5-93-43 गोयोनिप्रभवा नन्दिन्यां जाताः ॥ 5-93-46 सृष्टिः संसृष्टिः ॥ 5-93-47 जटिलाननान् जटिलानि रूढश्मश्रूण्याननानि येषाम् ॥ 5-93-50 प्रच्छन्नेन प्रच्छादनेन कृतो रचितः सङ्क्रमो यस्याम् ॥ 5-93-51 उत्तरशोणितां शोणितप्रधानाम् ॥ 5-93-53 हयान् अश्वारोहान् ॥ 5-93-93 त्रिनवतितमोऽध्यायः ॥