श्रीः
अध्यायः 090
अर्जुनेन दुःशासनपराजयः ॥ 1 ॥
धृतराष्ट्र उवाच 001
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना । 001a
के तु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥ 001c
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ॥ 002a
द्रोणमाश्रित्य तिष्ठन्ति प्राकारमकुतोभयाः ॥ 002c
सञ्जय उवाच 003
तथाऽर्जुनेन सम्भग्ने तस्मिंस्तव बलेऽनघ । 003a
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥ 003c
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः । 004a
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ॥ 004c
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् । 005a
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात् ॥ 005c
सकाञ्चनविचित्रेण कवचेन समावृतः । 006a
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥ 006c
नागानीकेन महता ग्रसन्निव महीमिमाम् । 007a
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥ 007c
ह्रादेन गजघण्टानां शङ्खानां निनदेन च । 008a
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥ 008c
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् । 009a
'युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः ।' 009c
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥ 009e
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् । 010a
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥ 010c
सिंहनादेन महता नरसिंहो धनञ्जयः । 011a
'तदाचलघनप्रख्यं पताकाशतसङ्कुलम् ।' 011c
गजानीकममित्राणामभितो व्यधमच्छरैः ॥ 011e
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् । 012a
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥ 012c
खमाश्रित इवादित्यः प्रतपन्स युगक्षये । 013a
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ॥ 013c
खुरशब्देन चाश्वानां नेमिघोषेण तेन च । 014a
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ॥ 014c
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च । 015a
देवदत्तस्य घोषेण गाण्डीवनिनदेन च । 015c
मन्दवेगा नरा नागा बभूवुस्ते विचेतसः ॥ 015e
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना । 016a
ते गजाः समसीदन्त मग्नाः पङ्कार्णवेष्विव ॥ 016c
युगपच्च समाविष्टैः शरैर्गाण्डीवधन्वनः । 017a
अनेकशतसाहस्रैर्द्रुमा मधुकरैरिव । 017c
'पुङ्खावशिष्टैर्बहुभिः शोणितोत्पीडवाहिभिः ॥' 017e
आरावं परमं कृत्वा वध्यमानाः किरीटिना । 018a
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥ 018c
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च । 019a
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥ 019c
गजस्कन्धगतानां च पुरुषाणां किरीटिना । 020a
छिद्यन्ते चोत्तमाङ्गानि भुल्लैः सन्नतपर्वभिः ॥ 020c
सकुण्डलानां पततां शिरसां धरणीतले । 021a
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ॥ 021c
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः । 022a
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥ 022c
केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा । 023a
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥ 023c
अपरे मदसंरब्धा मातङ्गाः पर्वतोपमाः । 024a
सारोहा न्यपतन्भूमौ द्रुमवन्त इवाचलाः ॥ 024c
मौर्वीं ध्वजं धनुश्चैव युगमीषां तथैव च । 025a
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः ॥ 025c
न सन्दधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन् । 026a
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥ 026c
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः । 027a
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले ॥ 027c
उत्थितान्यगणेयानि कबन्धानि समन्ततः । 028a
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥ 028c
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे । 029a
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ 029c
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः । 030a
चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः ॥ 030c
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः । 031a
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥ 031c
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः । 032a
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥ 032c
एवं दुःशासनबलं वध्यमानं किरीटिना । 033a
सम्प्राद्रवन्महाराज व्यथितं सहनायकम् ॥ 033c
'एवं बले द्रुते याते राजपुत्रं महारथम् । 034a
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 034c
जीवितेन कथं गन्ता दुरुक्तं यावदद्य ते । 035a
तद्वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे ॥ 035c
एवमुक्त्वा ततो राजा पार्थः पार्थिवमर्दनः । 036a
भृशं क्रुद्धो महाराज अविध्यत्तनयं तव ॥' 036c
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः । 037a
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥ ॥ 037c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे नवतितमोऽध्यायः ॥ 90 ॥
5-90-3 पलायने कृतः क्षणोऽवसरो येन ॥ 5-90-9 प्रतिभयो भयङ्करः । दारुणः क्रूरः ॥ 5-90-19 दन्तवेष्टेषु दन्तमूलेषु । कटेषु कटिषु ॥ 5-90-21 निवेदनमुपाहारम् ॥ 5-90-22 यन्त्रबद्धा यन्त्रैरालिखिताः ॥ 5-90-90 नवतितमोऽध्यायः ॥