श्रीः अध्यायः 089 अर्जुनयुद्धवर्णनम् ॥ 1 ॥ अर्जुन उवाच 001
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः । 001a
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥ 001c
सञ्जय उवाच 002
एवमुक्तो महाबाहुः केशवः सव्यसाचिना । 002a
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥ 002c
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः । 003a
एकस्य च बहूनां च रथनागनरक्षयः ॥ 003c
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् । 004a
परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥ 004c
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् । 005a
अवाकिरन्बाणजालैस्तत्र कृष्णधनञ्जयौ ॥ 005c
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि । 006a
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥ 006c
उद्भ्रान्तनयनैर्वक्त्रैः सन्दष्टौष्ठपुटैः शुभैः । 007a
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥ 007c
पुण्डरीकवनानीव विध्वस्तानि समन्ततः । 008a
विनिकीर्णानि योधानां वदनानि चकाशिरे ॥ 008c
सुवर्णचित्राभरणाः संसिक्ता रुधिरेण च । 009a
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥ 009c
शिरसां पततां राजञ्शब्दोऽभूद्वसुधातले । 010a
कालेन परिपक्वानां तालानां पततामिव ॥ 010c
कबन्ध उत्थितः कश्चिद्विष्फार्य सशरं धनुः । 011a
किञ्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति । 011c
'गृहीत्वाऽन्यस्य केशेषु शिरो नृत्यति चापरः ॥' 011e
पतितानि न जानन्ति शिरांसि पुरुषर्षभाः । 012a
अमृष्यमाणाः सङ्ग्रामे कौन्तेयं जयगृद्धिनः ॥ 012c
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी । 013a
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥ 013c
अयं पार्थः कुतः पार्थः पार्थोऽयमिति सर्वशः । 014a
'तिष्ठ पार्थेहि मां पार्थ क्व यासीति च जल्पताम् ।' 014c
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥ 014e
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे । 015a
पार्थभूतममन्यन्त जनाः कालेन मोहिताः ॥ 015c
निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः । 016a
शयाना बहवो वीराः कीर्तयन्तः स्वबान्धवान् ॥ 016c
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वथाः । 017a
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥ 017c
सबाणवर्माभरणाः सगदाः साङ्गदा रणे । 018a
महाभुजगसङ्काशा बाहवः परिघोपमाः ॥ 018c
उद्वेष्टन्ति विचेष्टन्ति सञ्चेष्टन्ति च सर्वशः । 019a
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥ 019c
यो यः स्म समरे पार्थं प्रतिसञ्चरते नरः । 020a
तस्यतस्यान्तको बाणः शरीरमुपसर्पति ॥ 020c
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा । 021a
न कश्चित्तत्र पार्थश्च ददृशेऽन्तरमण्वपि ॥ 021c
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् । 022a
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥ 022c
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च । 023a
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥ 023c
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः । 024a
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥ 024c
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः । 025a
तथाऽर्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥ 025c
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत । 026a
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः ॥ 026c
यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा । 027a
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥ 027c
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप । 028a
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥ 028c
मारुतेनेव महता मेघानीकं व्यदीर्यत । 029a
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥ 029c
प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः । 030a
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥ 030c
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः । 031a
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥ 031c
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे । 032a
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः ॥ 032c
तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥ ॥ 033ac

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोननवतितमोऽध्यायः ॥ 89 ॥

5-89-17 निर्व्यूह आयुधविशेषः ॥ 5-89-20 प्रतिसञ्चरते प्रत्युद्गच्छति ॥ 5-89-22 यत्तस्यावहितस्य ॥ 5-89-28 द्रुतं विद्रुतम् । आविग्नं भीतम् ॥ 5-89-30 साधुवाहितैः सुष्ठु व्यापारितैः ॥ 5-89-89 एकोननवतितमोऽध्यायः ॥