श्रीः
अध्यायः 088
अर्जुनस्य रणाङ्गणप्रवेशः ॥ 1 ॥
सञ्जय उवाच 001
व्यूढेषु तव सैन्येषु समुत्क्रुष्टेषु मारिष । 001a
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ 001c
अनीकानां च संह्रादे वादित्राणां च निःस्वने । 002a
प्रध्मापितेषु शङ्खेषु सन्नादे रोमहर्षणे ॥ 002c
प्रगृहीतेषु शस्त्रेषु भारतेषु युयुत्सुषु । 003a
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥ 003c
बलानां वायसानां च पुरस्तात्सव्यसाचिनः । 004a
पिशितासृग्भुजां सङ्घाः प्रलीयन्ते सहस्रशः ॥ 004c
मृगाश्च घोरसन्नादाः शिवाश्चाशिवदर्शनाः | 005a
दक्षिणेन प्रयातानामस्माकं नेदुरध्वनि ॥ 005c
'लोकक्षये महाराज यादृशास्तादृशा हि ते । 006a
अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे ॥' 006c
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः । 007a
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥ 007c
विष्वग्वाताः सनीहारा रूक्षाः शर्करकर्षिणः । 008a
ववुरायाति कौन्तेये सङ्ग्रामे समुपत्थिते ॥ 008c
नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः । 009a
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥ 009c
ततो रथसहस्रेण द्विरदानां शतेन च । 010a
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥ 010c
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव । 011a
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥ 011c
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् । 012a
अहमावारयिष्यामि वेलेव मकरालयम् ॥ 012c
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् । 013a
विषक्तं मयि दुर्धर्षं भिन्नं कुम्भमिवाश्मनि ॥ 013c
तिष्ठध्वं रथिनो यूयं सङ्ग्राममभिकाङ्क्षिणः । 014a
युध्यामि संहतानेतान्यशो मानं च वर्धयन् ॥ 014c
एवं ब्रुवन्महाराज महात्मा स महीपतिः । 015a
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥ 015c
ततोऽर्जुनो महाराज महात्मा महतां पतिः । 016a
महारथसमाख्यातो महेष्वासो व्यवस्थितः ॥ 016c
कक्षाग्निरिव दुःस्पर्शः सवज्र इव वासवः । 017a
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥ 017c
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव । 018a
युगान्ताग्निरिवार्चिष्मान्दिधक्षुः स्थास्नुजङ्गमम् ॥ 018c
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः । 019a
युद्धे जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥ 019c
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् । 020a
शुभ्रमाल्याम्बरधरः स्वङ्गदश्चारुकुण्डलः ॥ 020c
रथप्रवरमास्थाय नरो नारायणानुगः । 021a
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥ 021c
अग्रानीकस्य सोऽध्यर्ध इषुपाते धनञ्जयः । 022a
व्यवस्थाप्य रथं राजञ्शङ्खं दध्मौ प्रतापवान् ॥ 022c
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष । 023a
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥ 023c
तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते । 024a
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥ 024c
यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात् । 025a
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥ 025c
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः । 026a
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥ 026c
सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष । 027a
विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥ 027c
ततः कपिर्महानादं सहभूतैर्ध्वजालयैः । 028a
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥ 028c
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह । 029a
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥ 029c
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः । 030a
सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः ॥ 030c
तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने । 031a
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥ ॥ 031c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥ 88 ॥
5-88-10 शतैः शतैर्दशसहस्रैः ॥ 5-88-30 समाधूतैः सञ्चालितैः ॥ 5-88-88 अष्टाशीतितमोऽध्यायः ॥