श्रीः
अध्यायः 086
सञ्जयेन धृतराष्ट्रोपालम्भपूर्वकं युद्धकथनोपक्रमः ॥ 1 ॥
सञ्जय उवाच 001
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् । 001a
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥ 001c
गतोदके सेतुबन्धो यादृक्तादृगयं तव । 002a
विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥ 002c
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः । 003a
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ॥ 003c
यदि त्वं हि पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् । 004a
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥ 004c
युद्धकाले पुनः प्राप्ते तदैव भवता यदि । 005a
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥ 005c
दुर्योधनं चाविधेयं बध्नीयास्त्वं पुरा यदि । 006a
अवेक्ष्य कौरवान्राजन्प्राप्स्यसे त्वं महद्यशः ॥ 006c
तत्ते बुद्धिव्यतीचारमुपलप्स्यन्ति तज्जनाः । 007a
पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि नराधिपाः ॥ 007c
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे । 008a
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥ 008c
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् । 009a
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥ 009c
तत्ते विलपितं सर्वं मया राजन्निशामितम् । 010a
अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥ 010c
न तथा मन्यते कृष्णो न च राजा युधिष्ठिरः । 011a
न भीष्मो नैव च द्रोणो यथा त्वं मन्यसे नृप ॥ 011c
व्यजानीत यदा तु त्वां लुब्धं धर्मप्रवादिनम् । 012a
तदाप्रभृति कृष्णस्त्वां न तथा बहुमन्यते ॥ 012c
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे । 013a
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुक ॥ 013c
पितृपैतामहं राज्यमपावृत्तं त्वयाऽनघ । 014a
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥ 014c
पाण्डुना निर्जितं राज्यं कौरवाणां यशस्तथा । 015a
एतच्चाप्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥ 015c
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् । 016a
यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥ 016c
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप । 017a
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥ 017c
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे । 018a
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥ 018c
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ । 019a
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवात् ॥ 019c
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः । 020a
येषां च सात्यकिर्योद्धा येषां योद्धा वृकोदरः ॥ 020c
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः । 021a
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥ 021c
यावत्तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपैः । 022a
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ॥ 022c
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् । 023a
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥ ॥ 023c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥
5-86-17 ते तव बुद्धेर्व्यतिचारं वैषम्यमुपलप्स्यन्त्यनुभविष्यन्ति ॥ 5-86-13 अर्थे निविशमानानां यथा पार्थानुपेक्षसे इति क. ट. पाठः ॥ 5-86-22 अन्तरज्ञैरवसरवेदिभिः ॥ 5-86-86 षडशीतितमोऽध्यायः ॥