श्रीः
अध्यायः 085
धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयम् प्रत्यभिमन्युनिधनानन्तरीयकयुद्धकथनचोदना ॥ 1 ॥
धृतराष्ट्र उवाच 001
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः । 001a
अभिमन्यौ हते तत्र कैर्वाऽयुध्यन्त पाण्डवाः ॥ 001c
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः । 002a
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥ 002c
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् । 003a
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥ 003c
कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः । 004a
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः ॥ 004c
किन्नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति । 005a
परिदेवो महानद्य श्रूयते हि गृहेगृहे ॥ 005c
भूयाञ्शब्दानतीत्यान्याञ्शब्दः सैन्धववेश्मनि । 006a
पौराणिकानां तूर्याणां शङ्खदुन्दुभिघोषवान् ॥ 006c
सूतमागधवन्दीनां नर्तकानां च निःस्वनः । 007a
सोऽद्य न श्रूयते शब्दः सूत पुत्र यथा पुरा ॥ 007c
शब्दो नानाविधोऽभीष्टमभवद्यत्र मे श्रुतः । 008a
दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥ 008c
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय । 009a
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥ 009c
तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम् । 010a
निवेशनं गतोत्साहं विकृतं तात लक्षये ॥ 010c
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः । 011a
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥ 011c
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते । 012a
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥ 012c
वितण्डालापसंलापैर्द्रुतवादित्रवादितैः । 013a
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥ 013c
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः । 014a
श्लक्ष्णस्तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा ॥ 014c
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये । 015a
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥ 015c
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः । 016a
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥ 016c
नित्यं प्रमुदितानां च तालगीतस्वनो महान् । 017a
नृत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः ॥ 017c
सप्ततन्तून्वितन्वाना याजका यमुपासते । 018a
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥ 018c
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः । 019a
द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम् ॥ 019c
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः । 020a
वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥ 020c
यदाप्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः । 021a
आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥ 021c
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा । 022a
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ 022c
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः । 023a
'संशाम्य भ्रातृभिस्तैस्तु क्षत्रियानभिपालय ॥' 023c
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् । 024a
हितार्थमभिजल्पन्तं न तवास्ति रणे जयः ॥ 024c
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् । 025a
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥ 025c
'कर्णदुःशासनमतः सौबलस्य च दुर्मतेः । 026a
प्रत्याख्यातो महाबाहुः कुलान्तकरणेन वै ॥' 026c
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः । 027a
अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः ॥ 027c
न ह्यहं युद्धमिच्छामि विदुरो द्रोण एव वा । 028a
बाह्लीकः सोमदत्तो वा भीष्मो द्रौणायनिस्तथा ॥ 028c
शलो भूरिश्रवाश्चैव पुरुमित्रो विविंशतिः । 029a
जयः कृपो वा धर्मात्मा ये चान्ये मम बान्धवाः ॥ 029c
एतेषां मतमास्थाय यदि वत्स्यति पुत्रकः । 030a
एतेभ्यश्च मदूर्ध्वं च अभोक्ष्यद्वसुधामिमाम् ॥ 030c
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः । 031a
कुलीनाः सम्मताः प्राज्ञाः सुखं जीवन्ति मानवाः || 031c
धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम् । 032a
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥ 032c
अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च । 033a
तेषामपि समुद्रान्ता पितृपैतामही मही ॥ 033c
'न च त्वाऽभिभविष्यन्ति हित्वा धर्मं पृथात्मजाः । 034a
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि ॥ 034c
सन्ति मे ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः । 035a
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः ॥ 035c
द्रोणस्याथ विकर्णस्य बाह्लीकस्य कृपस्य च । 036a
अन्येषां चैव वृद्धानां भरतानां महात्मनाम् । 036c
त्वदर्थमब्रवं तात न जह्रुर्वचनानि ते ॥ 036e
कं वा त्वं मन्यसे तेषां यस्त्वां ब्रूयादतोऽन्यथा । 037a
कृष्णो न धर्मं सञ्जह्यात्सर्वे ते हि तदन्वयाः ॥ 037c
मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम् । 038a
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥ 038c
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् । 039a
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥ 039c
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः । 040a
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥ 040c
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः । 041a
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥ 041c
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभूः । 042a
द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥ 042c
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः । 043a
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः ॥ 043c
दिव्यमस्त्रं विकुर्वाणान्प्रसहेद्वा परान्मम । 044a
अन्यो दुर्योधनात्कार्णाच्छकुनेश्चापि सौबलात् । 044c
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥ 044e
येषां वचनकृत्स स्याद्विष्वक्सेनो रथे स्थितः । 045a
सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥ 045c
तथा मम विलापानां नायं दुर्योधनः स्मरेत् । 046a
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै ॥ 046c
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शनात् । 047a
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥ 047c
सेनां दृष्ट्वाऽभिभूतां मे शैनेयेनार्जुनेन च । 048a
शून्यान्दृष्ट्वा रथोपस्थान्मन्ये शोचन्ति पुत्रकाः ॥ 048c
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् । 049a
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥ 049c
आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय । 050a
यदोपयाताः सायाह्ने कृत्वा पार्थस्य किल्बिषम् ॥ 050c
अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥ 051ac
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः । 052a
अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः ॥ 052c
किन्नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् । 053a
दुःशासनः सौबलश्च तेषामेवं गते सति ॥ 053c
सर्वेषां समवेतानां पुत्राणां मम सञ्जय । 054a
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् ॥ 054c
लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः । 055a
राज्यकामस्य मूढस्य रागोपहतचेतसः । 055c
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥ ॥ 055e
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥
5-85-4 पुत्रपरिद्यूनं पुत्रवधदुःखितम् ॥ 5-85-13 स्वपक्षस्थापनहीनः प्रतिपक्षे प्रतिक्षेपो वितण्डा । अलापो भाषणम् । संलापो मिथो भाषणम् ॥ 5-85-17 गणानां सङ्घानाम् ॥ 5-85-22 तीर्थेन निदानेन उपायेन वा ॥ 5-85-23 कालप्राप्तं समयोचितम् ॥ 5-85-25 अनुनेयानि अनुकूलानि ॥ 5-85-31 श्लक्ष्णा ऋजवः ॥ 5-85-33 साधने स्वीकरणे ॥ 5-85-44 दिव्यमस्त्रं विकुर्वाणाः संहरेयुररिन्दमाः इति क. ट. पाठः ॥ 5-85-47 दीर्घदर्शनादनागतानुसन्धानात् ॥ 5-85-52 महदत्यर्थम् ॥ 5-85-53 तेषां मध्ये ॥ 5-85-55 रागो मात्सर्यं रागस्तु मात्सर्ये इति मेदिनी ॥ 5-85-85 पञ्चाशीतितमोऽध्यायः ॥