श्रीः अध्यायः 084 जयद्रथम् प्रति गच्छताऽर्जुनेन युधिष्ठिररक्षणाय सात्यकिम् प्रति चोदना ॥ 1 ॥ सञ्जय उवाच 001
तथा तु वदतां तेषां प्रादुरासीद्धनञ्जयः । 001a
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥ 001c
तं प्रविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम् । 002a
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ 002c
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना । 003a
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ 003c
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान् । 004a
तादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः ॥ 004c
सञ्जय उवाच 005
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् । 005a
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ 005c
ततस्तत्कथयामास यथादृष्टं धनञ्जयः । 006a
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम् ॥ 006c
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः । 007a
नमस्कृत्य वृषाङ्काय साधुसाध्वित्यथाब्रुवन् ॥ 007c
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना । 008a
त्वरमाणाः सुसन्नद्धा हृष्टा युद्धाय निर्ययुः ॥ 008c
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः । 009a
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ 009c
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ । 010a
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥ 010c
तत्र गत्वा हृषीकेशः कल्पयामास शास्त्रवित् । 011a
रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ 011c
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः । 012a
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद्यथा ॥ 012c
ततः पुरुषशार्दूलः सज्जं सर्वं न्यवेदयत् । 013a
रथं पुरुषसिंहस्य सध्वजं सुपताकिनम् ॥ 013c
स तु लोकवरः पुंसां किरीटी हेमवर्मभृत् । 014a
चापबाणधरो वाहं प्रदक्षिणमवर्तत ॥ 014c
तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः । 015a
स्तूयमानो जयाशीर्भिरारुरोह महारथम् ॥ 015c
जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् । 016a
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥ 016c
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः । 017a
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः || 017c
अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ । 018a
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ 018c
अथ जग्राह गोविन्दो रश्मीन्रश्मिविदांवरः । 019a
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥ 019c
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः । 020a
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥ 020c
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा । 021a
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥ 021c
ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः । 022a
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः ॥ 022c
सजयाशीः सपुण्याहः सूतमागधनिःस्वनः । 023a
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ 023c
तमनुप्रवणो वायुः पुण्यगन्धवहः शुभः । 024a
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥ 024c
ततस्तस्मिन्क्षणे राजन्विविधानि शुभानि च । 025a
प्रादुरासन्निमित्तानि विजयाय बहूनि च ॥ 025c
पाण्डवानां त्वदीयानां विपरीतानि मारिष । 026a
दृष्ट्वाऽर्जुनो निमित्तानि विजयाय प्रदक्षिणम् । 026c
युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥ 026e
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः । 027a
यथाहीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥ 027c
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः । 028a
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥ 028c
यथा परमकं कृत्यं सैन्धवस्य वधो मम । 029a
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम् ॥ 029c
स त्वमद्य महाबाहो राजानं परिपालय । 030a
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥ 030c
न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत् । 031a
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः ॥ 031c
त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे । 032a
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ 032c
मय्यपेक्षा न कर्तव्या गोप्ताऽयं मम केशवः । 033a
राज्ञ एव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ 033c
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः । 034a
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ 034c
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा । 035a
तथेत्युक्त्वाऽगमत्तत्र यत्र राजा युधिष्ठिरः ॥ ॥ 035c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

5-84-12 शिशुर्दिवसकृत् बालः सूर्यः ॥ 5-84-18 यथा च्यवनमश्विनौ इति क. ट. ढ. पाठः ॥ 5-84-26 प्रदक्षिणं छन्दोनुवर्तिनम् ॥ 5-84-33 अपेक्षा अनुरोधः ॥ 5-84-84 चतुरशीतितमोऽध्यायः ॥