श्रीः अध्यायः 083 जयद्रथवधस्य दुष्करत्वाशङ्किनो युधिष्ठिरस्य कृष्णेन समाश्वासनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन । 001a
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ 001c
सञ्जय उवाच 002
वासुदेवोऽपि तद्युक्तं प्रत्युवाच युधिष्ठिरम् । 002a
दर्शनादेव ते सौम्य न किञ्चिदशुभं मम ॥ 002c
सञ्जय उवाच 003
ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः । 003a
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् ॥ 003c
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् । 004a
चेदिपं धृष्टकेतुं च द्रुपदं च महारथम् ॥ 004c
शिखण्डिनं यमौ चैव चेकितानं सकेकयम् । 005a
युयुप्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥ 005c
युधामन्यु सुबाहुं च द्रौपदेयांश्च सर्वशः । 006a
एतांश्च सुहृदश्चान्यान्दर्शयामास पाण्डवम् ॥ 006c
अनुज्ञाताश्च पार्थेन स्वासीना आसनेषु ते । 007a
सर्वेष्वथ परार्ध्येषु यथार्हं वन्द्य पाण्डवम् ॥ 007c
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ । 008a
कृष्णश्च युयुधानश्च वेद्यामिव हुताशनौ ॥ 008c
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् । 009a
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥ 009c
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः । 010a
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥ 010c
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् । 011a
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥ 011c
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल । 012a
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥ 012c
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम । 013a
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥ 013c
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् । 014a
परां तितीर्षतामद्य प्लवो नो भव माधव ॥ 014c
नहि तत्कुरुते योधः कार्तवीर्यसमोऽपि यः । 015a
युधि यत्कुरुषे कृष्ण सारथ्यं त्वं समास्थितः ॥ 015c
यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन । 016a
तथैवास्मान्महाबाहो वृजिनात्त्रातुमर्हसि ॥ 016c
त्वमगाधेऽप्लवे मग्नान्पाण्डवान्कुरुसागरे । 017a
समुद्धर प्लवो भूत्वा शङ्खचक्रगदाधर ॥ 017c
नमस्ते देवदेवेश सनातन विशातन । 018a
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥ 018c
नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम् । 019a
वरदं शार्ङ्गिणं श्रेष्ठं तत्सत्यं कुरु माधव ॥ 019c
इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि । 020a
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम् ॥ 020c
वासुदेव उवाच 021
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः । 021a
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥ 021c
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः । 022a
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥ 022c
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः । 023a
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥ 023c
अहं च तत्करिष्यामि तथा कुन्तीसुतोऽर्जुनः । 024a
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम् ॥ 024c
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् । 025a
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥ 025c
तस्याद्य गृध्राः श्येनाश्च चण्डगोमायवस्तथा । 026a
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥ 026c
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ । 027a
राजधानीं यमस्याद्य हतः प्राप्स्यति दुर्मतिः ॥ 027c
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति । 028a
विशोको विज्वरो राजन्भव शान्ति पुरस्कृतः ॥ ॥ 028c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

5-83-11 निराक्रियामपसारणम् ॥ 5-83-12 यात्रा स्थितिः ॥ 5-83-16 वृजिनात् व्यसनात् ॥ 5-83-18 सनातन अनादिनिधन । विशातन संहर्तः । कृष्ण संसारकर्षक । पुरुषोत्तम परमात्मन् ॥ 5-83-22 युद्धशौण्डः युद्धप्रवीणः ॥ 5-83-83 त्र्यशीतितमोऽध्यायः ॥