श्रीः अध्यायः 082 श्रीकृष्णस्य कृताह्निकं युधिष्ठिरं प्रत्यागमनम् ॥ 1 ॥ सञ्जय उवाच 001
तयोः संवदतोरेव कृष्णदारुकयोस्तथा । 001a
साऽत्यगाद्रजनी राजन्नथ राजा स्म बोध्यते ॥ 001c
पठन्ति पाणिध्वनिका मागधाः स्तवगायकाः । 002a
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥ 002c
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः । 003a
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥ 003c
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः । 004a
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥ 004c
एवमेतानि सर्वाणि तथान्यान्यपि भारत । 005a
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ॥ 005c
स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् । 006a
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥ 006c
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे । 007a
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः ॥ 007c
ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च । 008a
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥ 008c
भद्रासने सूपविष्टः परिधायाम्बरं लघु । 009a
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥ 009c
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः । 010a
आप्लुतः साधिवासेन जलेन ससुगन्धिना ॥ 010c
राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् । 011a
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि ॥ 011c
हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः । 012a
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥ 012c
'कृत्वेन्द्रियाणामैकाग्र्यं मनसश्च महामनाः ।' 013a
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः । 013c
तत्राग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥ 013e
समिद्भिः स पवित्राभिरग्निमाहुतिभिस्तथा । 014a
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥ 014c
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः । 015a
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान् ॥ 015c
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च । 016a
सहस्रानुचरान्सौरान्सहस्रं चाष्ट चापरान् ॥ 016c
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः । 017a
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥ 017c
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः । 018a
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥ 018c
तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः । 019a
हेमशृङ्गा रौप्यखुरा दत्त्वा तेभ्यः प्रदक्षिणम् ॥ 019c
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् । 020a
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥ 020c
पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा । 021a
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥ 021c
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् । 022a
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत् ॥ 022c
ततस्तस्यां महाबाहोस्तिष्ठतः परिचारकाः । 023a
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम् ॥ 023c
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् । 024a
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥ 024c
तत्र तस्योपविष्टस्य भूषणानि महात्मनः । 025a
उपाजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ॥ 025c
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः । 026a
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥ 026c
चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः । 027a
दोधूयमानैः शुशुभे विद्युद्भिरिव तोयदः ॥ 027c
संस्तूयमानः सूतैश्च वन्द्यमानश्च वन्दिभिः । 028a
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥ 028c
ततो मुहूर्तमासीच्च वन्दिनां निनदो महान् । 029a
रथानां नेमिघोषश्च खुरघोषश्च वाजिनाम् ॥ 029c
ह्रादेन गजघण्टानां शङ्खानां निनदेन च । 030a
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥ 030c
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः । 031a
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम् ॥ 031c
कुण्डली बद्धनिस्त्रिंशः सन्नद्धकवचो युवा । 032a
अभिप्रणम्य शिरसा द्वास्थो धर्मात्मजाय वै ॥ 032c
न्यवेदयद्धृषीकेशमुपयान्तं महात्मने । 033a
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवः ॥ 033c
'प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे ।' 034a
आसनं च मधुघ्नाय दीयतां परमार्चितम् । 034c
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने ॥ 034e
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥ ॥ 035ac

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

5-82-2 पाणिध्वनिका हस्तेन तालस्वनं कुर्वते ॥ 5-82-3 रक्तकण्ठिनो रञ्जकस्वराः ॥ 5-82-4 झर्झरा झिल्लिकाः । भेर्यो बृहढ्ढक्काः । पणवा मुरजाः । आनकाः पटहाः । गोमुखाः त्रागडाः । आडम्बराश्च क्षुद्रपटहाः । दुन्दुभ्यो ढक्काः ॥ 5-82-9 भद्रासने चतुःसमासने ॥ 5-82-10 कषायेण सर्वौषध्यादिकल्केन ॥ 5-82-12 अक्लिष्टमनुपहतं वसनं यस्य ॥ 5-82-13 दीप्तं ज्वलदग्निम् ॥ 5-82-16 सौरान्सूर्योपासकान् ॥ 5-82-19 प्रदक्षिणं कृत्वेति शेषः ॥ 5-82-20 स्वस्तिकानालिङ्गनानि । वर्धमानान् शरावान् । नन्द्यावर्तान्सम्पुटिताद्यर्घपात्राणि ॥ 5-82-21 रुचकं मातुलुङ्गकम् ॥ 5-82-24 विश्वकर्मकृतं विश्वकर्मप्रणीतेन विधिना निर्मितम् ॥ 5-82-28 वन्द्यमानः स्तूयमानः । स्तुत्यर्थस्य वदे रूपम् ॥ 5-82-31 शुद्धान्तं कक्ष्याभ्यन्तरम् ॥ 5-82-82 द्व्यशीतिततमोऽध्यायः ॥