श्रीः अध्यायः 081 अर्जुनेन स्वप्ने शङ्करात्पाशुपतास्त्रमुपलक्ष्य कृष्णेनसह पुनः शिबिरं प्रत्यागमनम् ॥ 1 ॥ सञ्जय उवाच 001
ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम् । 001a
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥ 001c
तं चोपहारं सुकृतं नैशं नैत्यकमात्मना । 002a
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥ 002c
ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः । 003a
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ॥ 003c
ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा । 004a
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥ 004c
स्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम् । 005a
येन कामेन सम्प्राप्तौ भवद्भ्यां तं ददाम्यहम् ॥ 005c
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ । 006a
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥ 006c
येन देवारयः सर्वे मया युधि निपातिताः । 007a
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥ 007c
तथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह । 008a
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम् ॥ 008c
निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम् । 009a
तौ जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ॥ 009c
ततस्तौ तत्सरो गत्वा सूर्यमण्डलसन्निभम् । 010a
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥ 010c
द्वितीयं चापरं नागं सहस्रशिरसं वरम् । 011a
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम् ॥ 011c
ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली । 012a
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥ 012c
गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम् । 013a
अप्रमेयप्रमाणं तौ गत्वा सर्वात्मना भवम् ॥ 013c
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ । 014a
धनुर्बाणश्च शत्रुघ्नं तद्द्वन्द्वं समपद्यत ॥ 014c
तौ तज्जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् । 015a
आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥ 015c
ततः पार्श्वाद्वॄषाङ्कस्य ब्रह्मचारी न्यवर्तत । 016a
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः || 016c
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः । 017a
विचकर्षाथ विधिवत्सशरं धनुरुत्तमम् ॥ 017c
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः । 018a
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥ 018c
स सरस्येव तं बाणं मुमोचातिबलः प्रभुः । 019a
चिक्षेप च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥ 019c
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा । 020a
वरमारण्यके दत्तं दर्शनं शङ्करस्य च । 020c
मनसा चिन्तयामास तन्मे सम्पद्यतां भव ॥ 020e
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः । 021a
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥ 021c
ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात् । 022a
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ॥ 022c
'ततोऽर्जुनहृषीकैशौ पुनः पुनररिन्दमौ ।' 023a
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम् ॥ 023c
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ । 024a
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥ 024c
तथा भवेनानुमतौ महासुरनिघातिना । 025a
इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥ ॥ 025c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

5-81-2 आत्मना सुकृतं सूपकल्पितम् ॥ 5-81-14 द्वन्द्वं युगलम् ॥ 5-81-16 नीललोहितः भगवतोऽपरा तनुः ॥ 5-81-17 स्थानं स्थापनकम् 5-81-18 जग्राह मनसि कृतवान् ॥ 5-81-81 एकाशीतितमोऽध्यायः ॥