श्रीः
अध्यायः 080
अर्जुनस्य स्वप्ने कृष्णेन सह कैलासगमनम् ॥ 1 ॥ तथा स्तुत्या रुद्रप्रसादनम् ॥ 2 ॥
सञ्जय उवाच 001
धार्तराष्ट्रस्य तं मन्त्रं स्मरन्नेव धनञ्जयः । 001a
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥ 001c
तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् । 002a
आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥ 002c
प्रत्युत्थानं च कृष्णस्य सर्वावस्थासु फल्गुनः । 003a
न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥ 003c
प्रत्युत्थाय च गोविन्दं स्वं तस्मै चासनं ददौ । 004a
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥ 004c
ततः कृष्णो महातेजा जानल्ँलोकस्य निश्चयम् । 005a
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥ 005c
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः । 006a
कालः सर्वाणि भूतानि नियच्छति भवाभवे ॥ 006c
किमर्थं च विषादस्ते तद्ब्रूहि द्विपदां वर । 007a
न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः ॥ 007c
यत्तु कार्यं भवेत्कार्यं कर्मणा तत्समाचर । 008a
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनञ्जय ॥ 008c
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् । 009a
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥ 009c
सञ्जय उवाच 010
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः । 010a
आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥ 010c
मया प्रतिज्ञा महती जयद्रथवधे कृता । 011a
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥ 011c
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत । 012a
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥ 012c
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः । 013a
हतावशेषास्तत्रेमा हन्त माधव सङ्ख्यया ॥ 013c
ताभिः परिवृतः सङ्ख्ये सर्वैश्चैव महारथैः । 014a
कथं शक्येत सन्द्रष्टुं दुरात्मा कृष्ण सैन्धवः ॥ 014c
प्रतिज्ञापारणं चापि न भविष्यति केशव । 015a
प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः ॥ 015c
दुःखापायस्य मे वीर विकाङ्क्षा परिवर्तते । 016a
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥ 016c
सञ्जय उवाच 017
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः । 017a
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥ 017c
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः । 018a
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती ॥ 018c
श्रीभगवानुवाच 019
पार्थ पाशुपतं नाम परमास्त्रं सनातनम् । 019a
येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ॥ 019c
यदि तद्विदितं तेऽद्य श्वो हन्ताऽसि जयद्रथम् । 020a
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ॥ 020c
तं देवं मनसा ध्यात्वा जोषमास्स्व धनञ्जय । 021a
ततस्तस्य प्रसादात्त्वं भक्त्या प्राप्स्यसि तन्महत् ॥ 021c
सञ्जय उवाच 022
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः । 022a
भूमावासीन एकाग्रो जगाम मनसा भवम् ॥ 022c
ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे । 023a
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ॥ 023c
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् । 024a
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ॥ 024c
वायुवेगगतिः पार्थः खं भेजे सहकेशवः । 025a
केशवेन गृहीतः स दक्षिणे विभुना भुजे ॥ 025c
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् । 026a
उदीच्यां दिशि धर्मात्मा सोपश्यच्छ्वेतपर्वतम् ॥ 026c
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् । 027a
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ॥ 027c
सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् । 028a
सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम् ॥ 028c
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् । 029a
मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान् ॥ 029c
हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् । 030a
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् || 030c
स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् । 031a
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥ 031c
स तुङ्गं शतशृङ्गं च शर्यातिवनमेव च । 032a
पुण्यमश्वशिरस्थानं स्थानमाथर्वणस्य च ॥ 032c
वृषदंशं च शैलेन्द्रं महामन्दरमेव च । 033a
अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम् ॥ 033c
तस्मिञ्शैले व्रजन्पार्थः सकृष्णः समवैक्षत । 034a
शुभैः प्रस्रवणैर्जुष्टां हेमधातुविभूषिताम् ॥ 034c
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् । 035a
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥ 035c
वियद्द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन् । 036a
विस्मितः सह कृष्णेन क्षिप्तो बाण इवाभ्यगात् ॥ 036c
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् । 037a
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥ 037c
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् । 038a
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् || 038c
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा । 039a
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥ 039c
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् । 040a
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥ 040c
गीतवादित्रसन्नादैर्हास्यलास्यसमन्वितम् । 041a
वग्लितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम् ॥ 041c
स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः । 042a
गोप्तारं सर्वभूतानामीशानं वरदं शिवम् ॥ 042c
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् । 043a
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥ 043c
लोकादिं विश्वकर्माणमजमीशानमव्ययम् । 044a
मनसः परमं योनिं खं वायुं ज्योतिषां निधिम् ॥ 044c
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् । 045a
देवदानवयक्षाणां मानवानां च शासकम् ॥ 045c
योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम् । 046a
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥ 046c
कालकोपं महात्मानं शक्रसूर्यगुणोदयम् । 047a
ववन्दतुस्तदा कृष्णौ वाङ्मनोबुद्धिकर्मभिः ॥ 047c
यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः । 048a
तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥ 048c
अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत । 049a
ज्ञात्वा तं सर्वभूतादिं भूतभव्यभवोद्भवम् ॥ 049c
'शरण्यं शरणं देवमीशानं परमेश्वरम् । 050a
जगाम जगतां नाथमर्जुनः सजनार्दनः ॥' 050c
ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ । 051a
सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव ॥ 051c
स्वागतं वां नरश्चेष्ठावुत्तिष्ठेतां गतक्लमौ । 052a
किञ्च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥ 052c
येन कार्येण सम्प्राप्तौ युवां तत्साधयामि किम् । 053a
व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥ 053c
सञ्जय उवाच 054
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली । 054a
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती । 054c
भक्त्या स्तवेन दिव्येन महात्मानावनिन्दितौ ॥ 054e
कृष्णार्जुनावूचतुः 055
नमो भवाय शर्वाय रुद्राय वरदाय च । 055a
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ 055c
महादेवाय भीमाय त्र्यम्बकाय च शान्तये । 056a
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥ 056c
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे । 057a
पिनाकिने हविष्याय सत्याय विभवे सदा ॥ 057c
विलोहिताय धूम्राय व्याधायानपराजिते । 058a
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥ 058c
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे । 059a
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ 059c
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे । 060a
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ 060c
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । 061a
नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥ 061c
ब्रह्मवक्त्राय सर्वाय शङ्कराय शिवाय च । 062a
नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥ 062c
'अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा । 063a
नमोऽस्तु देवदेवाय महाभूतधराय च । 063c
नमो विश्वस्य पतये पत्तीनां पतये नमः ॥' 063e
नमो विश्वस्य पतये महतां पतये नमः । 064a
नमः सहस्रशिरसे सहस्रभुजमृत्यवे ॥ 064c
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे । 065a
नमो हिरण्यवर्णाय हिरण्यकवचाय च । 065c
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥ 065e
सञ्जय उवाच 066
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः । 066a
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥ ॥ 066c
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अशीतितमोऽध्यायः ॥ 80 ॥
5-80-7 न शोच्यं शोको नाचरणीयः ॥ 5-80-8 कार्ये कृत्यं कार्यं करणीयं भवेदित्यन्वयः ॥ 5-80-23 प्रणिहितः समाहितमनाः ॥ 5-80-32 अथर्वणस्य मुनेः ॥ 5-80-36 तथा च व्रजन्विष्णुपदमाकाशमभ्यगादित्यन्वयः ॥ 5-80-41 लास्यं नृत्तम् । वल्गितमितस्ततः प्रचारः । आस्फोटितं भुजाडम्बरः । उक्त्रुष्टमुच्चैः स्वनितम् ॥ 5-80-44 विश्वं जगत्कर्म प्राप्यं यस्य । ईशानमप्रतिहतेच्छम् । अव्ययमविकारम् । मनसः परमं प्रवृत्तिनिवृत्तिकारणम् । योनिमुत्पत्तिस्थानं च । ज्योतिषां तेजसां निधिमधिष्ठानम् ॥ 5-80-46 योगानां योगदर्शिनां परं धाम परमाश्रयम् । दृष्टं साक्षाद्भूतं ब्रह्मतत्त्वं तद्विदां निधिं रहस्यम् ॥ 5-80-47 कालइव कोपो यस्य । शक्रस्य गुणा ऐश्वर्यादयः सूर्यस्य गुणाः प्रतापादयः तेषामुदयो यस्मात् । कालकेशम् इति क. पाठः ॥ 5-80-48 कारणात्मानं कारणैकस्वभावम् ॥ 5-80-55 भावः सर्वप्रभुत्वात् । शर्वः संहरणात् ॥ 5-80-56 शान्तिः शमप्रधानत्वात् ॥ 5-80-57 हविष्यः हविष्ययोग्यत्वात् । विभुर्व्यापकत्वात् ॥ 5-80-58 व्याधाय मृगहननात् । द्विरुक्तिर्द्विस्तथाकरणात् । अनात्प्राणिनः पराजयतीति अनपराजित्सर्वभूतोत्तमत्वात् । नीलशिखण्डो नीलकेशत्वात् ॥ 5-80-59 होता दीक्षितः भावेन हवनशीलत्वात् । वसुरेता अग्नौ रेतः क्षेपणात् ॥ 5-80-60 मुण्डो दीक्षितत्वात् । ब्रह्मचारी रेतोविधारणात् ॥ 5-80-61 भूतानां प्राणिनां प्रमथादीनाम् ॥ 5-80-62 ब्रह्मवक्त्रो वेदपूर्णमुखत्वात् । शिवो मोक्षहेतुत्वात् । वाचस्पतिर्वाङ्मयप्रवर्तनात् ॥ 5-80-80 अशीतितमोऽध्यायः ॥