श्रीः
अध्यायः 078
अभिमन्युमनुशोच्य विलपन्त्याः सुभद्रायाः कृष्णेनाश्वासनम् ॥ 1 ॥
सञ्जय उवाच 001
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः । 001a
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥ 001c
हा पुत्रा मम मन्दायाः कथमेत्यासि संयुगम् । 002a
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः ॥ 002c
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् । 003a
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥ 003c
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् । 004a
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम् ॥ 004c
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् । 005a
भूतानि त्वां निरीक्षन्ते भूमौ चन्द्रमिवोदितम् ॥ 005c
शयनीयं पुराऽध्युष्य स्पर्ध्यास्तरणसंवृतम् । 006a
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥ 006c
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः । 007a
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥ 007c
योऽस्तूयत पुरा हृष्टैः सूतमागधवन्दिभिः । 008a
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्येत ॥ 008c
पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो । 009a
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥ 009c
'यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः ।' 010a
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ । 010c
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥ 010e
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च । 011a
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥ 011c
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् । 012a
धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ॥ 012c
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् । 013a
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम् ॥ 013c
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् । 014a
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥ 014c
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डवीधन्वनः । 015a
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम् ॥ 015c
एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे । 016a
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने ॥ 016c
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे । 017a
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥ 017c
इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम् । 018a
'उत्तरामुत्तमां जात्या सुशीलां प्रिय भाषिणीम् ॥ 018c
शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम् । 019a
सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम् ॥ 019c
बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम् । 020a
बिम्बाधरोष्ठीमबलामभिमन्यो प्रहर्षय ॥ 020c
त्वया विना कथं पुत्र जीर्णां पतितमानसाम् ।' 021a
इमां सन्धारयिष्यामि वृषभादिव धेनुकाम् ॥ 021c
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक । 022a
विहाय फलकाले मां सुगृद्धां तव दर्शने ॥ 022c
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा । 023a
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ॥ 023c
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् । 024a
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥ 024c
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि । 025a
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥ 025c
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् । 026a
हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज ॥ 026c
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः । 027a
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥ 027c
ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या । 028a
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक ॥ 028c
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः । 029a
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥ 029c
राज्ञा सुचरितैर्या च गतिर्भवति शाश्वती । 030a
चरमाश्रमिणां पुण्यैः सेवितानां पुरःस्थितैः ॥ 030c
दीनानुकम्पिनां या च सततं संविभागिनाम् । 031a
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥ 031c
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि । 032a
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥ 032c
कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च । 033a
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक ॥ 033c
मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा । 034a
स्वदारनिरतानां च या गतिस्तामवाप्नुहि ॥ 034c
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम् । 035a
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक ॥ 035c
साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः । 036a
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥ 036c
मधुमांसान्निवृत्तानां मदाद्दम्भात्तथाऽनृतात् । 037a
परोपतापादन्यायात्तां गतिं व्रज पुत्रक ॥ 037c
ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः । 038a
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥ 038c
सञ्जय उवाच 039
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् । 039a
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा ॥ 039c
सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता । 040a
उन्मत्तवत्तदा राजन्विसञ्ज्ञा पतिता क्षितौ ॥ 040c
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः । 041a
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥ 041c
विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् । 042a
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥ 042c
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् । 043a
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥ 043c
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने । 044a
सर्वे न ते गतिं यान्ति याऽभिमन्योर्यशस्विनः ॥ 044c
कुर्याम तद्वयं कर्म कुर्युर्यत्सुहृदश्च नः । 045a
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥ 045c
सञ्जय उवाच 046
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् । 046a
पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः ॥ 046c
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाऽर्जुनम् । 047a
विवेशान्तःपुरे राजंस्ते च जग्मुः स्वमालयम् ॥ ॥ 047c
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥
5-78-27 नैवेशिकं सोपकरणं गृहम् । नैवेशिकायेति पाठे गृहाश्रमोन्मुखाय विद्याव्रतस्नाताय । अभिमतं विवाहोपयुक्तम् ॥ 5-78-28 न्यस्तदण्डानां निरस्ताभिमानानाम् । दण्डो स्त्री लगुडे पुमानित्युपक्रम्य दमे यमेऽभिमानेचेति मेदिनी ॥ 5-78-29 एकपत्न्यः पतिव्रताः ॥ 5-78-78 अष्टसप्ततितमोऽध्यायः ॥