श्रीः अध्यायः 075 श्रीकृष्णेनार्जुनम् प्रति द्रोणादिभिर्जयद्रथरक्षणप्रतिज्ञादिकथनम् ॥ 1 ॥ सञ्जय उवाच 001
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा । 001a
वासुदेवो महाबाहुर्धनञ्जयमभाषत ॥ 001c
भ्रातॄणां मतमज्ञाय त्वया वाचा प्रतिश्रुतम् । 002a
सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम् ॥ 002c
असम्मन्त्र्य मया सार्धमतिभारोऽयमुद्यतः । 003a
कथं तु सर्वलोकस्य नावहास्या भवेमहि ॥ 003c
धार्तराष्ट्रस्य शिबिरे ये तु प्रणिहिताश्चराः । 004a
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥ 004c
त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे प्रभो । 005a
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥ 005c
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः । 006a
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥ 006c
सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज । 007a
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥ 007c
अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनञ्जयः । 008a
रात्रौ निर्यास्यति क्रोधादिति मत्त्वा व्यवस्थिताः ॥ 008c
तैश्चारेभ्य इयं कृत्स्ना श्रुता सत्यवतस्तव । 009a
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥ 009c
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव । 010a
आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥ 010c
अथोत्थाय सहामात्यैर्दीनः स्वशिबिरात्किल । 011a
अायात्सौवीरसिन्धूनामीश्वरो राजसंसदम् ॥ 011c
स मन्त्रकाले सम्मन्त्र्य सर्वां नैश्रेयसीं क्रियाम् । 012a
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥ 012c
मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः । 013a
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥ 013c
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः । 014a
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥ 014c
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः । 015a
पदं कृत्वाऽऽप्नुयाल्लक्ष्यं युक्तं प्रतिविधीयताम् ॥ 015c
अथ रक्षा न मे सम्यक्क्रियते कुरुनन्दन । 016a
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ॥ 016c
एवमुक्तस्त्ववाक्शीर्षो विमनाः ससुयोधनः । 017a
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत ॥ 017c
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः । 018a
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥ 018c
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम् । 019a
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ॥ 019c
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः । 020a
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥ 020c
महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा । 021a
पदातिना महावीर्यो गिरौ हिमवति प्रभुः ॥ 021c
दानवानां सहस्राणि हिरण्यपुरवासिनाम् । 022a
जघानैकरथेनैव देवराजप्रचोदितः ॥ 022c
समायुक्तो हि कौन्तेयो वासुदेवेन धीमता । 023a
सामरानपि लोकांस्त्रीन्हन्यादिति मतिर्मम ॥ 023c
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना । 024a
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥ 024c
श्रीभगवानुवाच 025
स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन । 025a
संविधानं च विहितं रथाश्च किल सज्जिताः ॥ 025c
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः । 026a
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥ 026c
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः । 027a
पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः ॥ 027c
स्थास्यते रक्षितो वीरैः सिन्धुराट् स सुदुर्मदः । 028a
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे ॥ 028c
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः । 029a
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ॥ 029c
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय । 030a
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा ॥ 030c
भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै । 031a
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥ ॥ 031c

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

5-75-2 अशब्दो निषेधे । अज्ञात्वेत्यर्थः ॥ 5-75-25 संविधानं प्रतिविधानम् ॥ 5-75-27 पद्मव्यूहः पश्चार्धे पश्चाद्भागे यस्य । सूची सूचीमुखो व्यूहः ॥ 5-75-75 पञ्चसप्ततितमोऽध्यायः ॥