श्रीः
अध्यायः 073
युधिष्ठिरेणार्जुनम् प्रत्यभिमन्युनिधनप्रकारकथनम् ॥ 1 ॥ अर्जुनेन सशपथं जयद्रथवधप्रतिज्ञा ॥ 2 ॥
युधिष्ठिर उवाच 001
त्वयि याते महाबाहो संशप्तकबलं प्रति । 001a
प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥ 001c
व्यूढानीकं ततो द्रोणं यतमानं महामृधे । 002a
प्रतिव्यूह्य सहानीकाः प्रत्यरुध्म वयं बलात् ॥ 002c
स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते । 003a
अस्मानभिजगामाशु पीडयन्निशितैः शरैः ॥ 003c
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः । 004a
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥ 004c
ततस्तमप्रतिरथमहं सौभद्रमब्रवम् । 005a
द्रोणानीकमिदं भिन्दि द्वारं सञ्जनयस्व नः ॥ 005c
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् । 006a
असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥ 006c
स तवास्त्रोपदेशेन वीर्येण च समन्वितः । 007a
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥ 007c
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे । 008a
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥ 008c
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः । 009a
वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥ 009c
ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च । 010a
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥ 010c
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः । 011a
यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥ 011c
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् । 012a
'संशयं परमं प्राप्तं पदातिनमवस्थितम् । 012c
गदाहस्तोऽभ्ययात्तूर्णं जिघांसुरपराजितम् ॥ 012e
गदिनं त्वथ तं दृष्ट्वा वासवस्यात्मजात्मजः । 013a
स जग्राह गदां वीरो गदायुद्धविशारदः ॥ 013c
गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः । 014a
तौ सम्प्रजग्मतुर्वीरावन्योन्यस्यान्तरैषणौ ॥ 014c
तावन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ । 015a
इन्द्रध्वजाविवोत्सृष्टौ गतसत्वौ महीङ्गतौ ॥ 015c
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः । 016a
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ 016c
गदावेगेन महता व्यायामेन च मोहितः । 017a
विमना न्यपतद्भूमौ सौभद्रः परवीरहा ॥ 017c
स तु हत्वा सहस्राणि द्विपाश्वरथपत्तिनाम् ।' 018a
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥ 018c
बृहद्बलं च राजानं स्वर्गेण समयोजयत् । 019a
'गतः सुकृतिनां लोकान्ये च स्वर्गजितां शुभाः ॥ 019c
अदीनस्त्रासयञ्छत्रून्नन्दयित्वा च बान्धवान् । 020a
असकृन्नाम विश्राव्य पितॄणां मातुलस्य च ॥' 020c
वीरो दिष्टान्तमापन्नः शोचयन्बान्धवान्बहून् । 021a
'ततः स्म शोकसन्तप्ता भवताऽद्य समेयुषः ॥' 021c
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् । 022a
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥ 022c
सञ्जय उवाच 023
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् । 023a
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥ 023c
विषण्णवदनाः सर्वे परिवार्य धनञ्जयम् । 024a
नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम् ॥ 024c
प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्च्छितः । 025a
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥ 025c
पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च । 026a
'त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः ।' 026c
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥ 026e
अर्जुन उवाच 027
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम् । 027a
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥ 027c
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् । 028a
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥ 028c
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् । 029a
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥ 029c
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन । 030a
अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः ॥ 030c
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः । 031a
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान् ॥ 031c
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् । 032a
गुरुदारगतानां ये पिशुनानां च ये सदा ॥ 032c
साधूनसूयतां ये च ये चापि परिवादिनाम् । 033a
ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम् ॥ 033c
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् । 034a
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥ 034c
पायसं वा यवान्नं वा शाकं कृसरमेव वा । 035a
संयावापूपमांसानि ये च लोका वृथाश्नताम् । 035c
तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥ 035e
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् । 036a
अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तथा ॥ 036c
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत् । 037a
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः । 037c
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम् ॥ 037e
नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः । 038a
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥ 038c
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् । 039a
भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा ॥ 039c
असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम् । 040a
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ 040c
संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम् । 041a
न बिभर्ति नृसंसात्मा निन्दते चोपकारिणम् ॥ 041c
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च । 042a
अनर्हेभ्यश्च यो दद्याद्वृषलीपतये तथा ॥ 042c
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः । 043a
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥ 043c
भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम् । 044a
पालाशमासनं चैव तिन्दुकैर्दन्तधावनम् ॥ 044c
ये चावर्जयतां लोकाः स्वपतां च तथोषसि । 045a
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ॥ 045c
एककूपोदकग्रामे वेदध्वनिविवर्जिते । 046a
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम् ॥ 046c
दिवामैथुनिनां चापि दिवसेषु च शेरते । 047a
अगारदाहिनां चैव गरदानां च ये मताः ॥ 047c
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः । 048a
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः ॥ 048c
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम् । 049a
आस्यमैथुनिकानां च ये दिवामैथुने रताः ॥ 049c
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न । 050a
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम् ॥ 050c
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः । 051a
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम् ॥ 051c
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् । 052a
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत ॥ 052c
यद्यस्मिन्न हते पापे सूर्योऽस्तमुपयास्यति । 053a
इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम् ॥ 053c
असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा । 054a
चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥ 054c
यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा । 055a
तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता ॥ 055c
सञ्जय उवाच 056
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् । 056a
तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥ 056c
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः । 057a
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः ॥ 057c
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः । 058a
जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा ॥ 058c
ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः । 059a
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥ 059c
'प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा । 060a
निराक्रामन्निव तदा स्वयमेव मृधैषिणः ॥ 060c
भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत । 061a
धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा ॥ 061c
प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च । 062a
निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः ॥ 062c
अथ मृदिततमाग्र्यदाममाल्यं तव सुतशोकमयं च रोषजातम् । 063a
व्यपनुदति महाप्रभावमेतन्नरवर वाक्यमिदं महार्थमिष्टम् ॥ 063c
सञ्जय उवाच 064
अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा । 064a
ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन् ॥ 064c
तदा भीमं बलं सर्वे तेन नादेन मोहितम् । 065a
तावकं तन्महाराज विषण्णं समपद्यत ॥' 065c
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
5-73-38 वन्ध्यापतेः इति ङ. पाठः । उत्क्रोशकानृतानां च इति क. पाठः । उत्कोटिकानृतानां च इति ट. ङ. पाठः ॥ 5-73-39 आत्मापहारिणां आत्मानमन्यथा प्रकाशयताम् ॥ 5-73-42 वृषली शूद्रा कन्याभावे रजस्वला वा ॥ 5-73-55 दितेरिति । कार्ये कारणोपचाराद्दैत्यानामित्यर्थः ॥ 5-73-73 त्रिसप्ततितमोऽध्यायः ॥