श्रीः
अध्यायः 071
युधिष्ठिरं समाश्वास्य स्वाश्रमगमनम् ॥ 1 ॥
व्यास उवाच 001
पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकम् । 001a
अव्याहरन्नरपतिस्तूष्णीमासीत्स सृञ्जयः ॥ 001c
तमब्रवीत्तदा दीनं नारदो भगवानृषिः । 002a
कच्चिन्मया व्याहृतं यद्धृदये तत्स्थितं तव ॥ 002c
आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव । 003a
स एवमुक्तः प्रत्याह प्राञ्जलिः सृञ्जयस्तदा ॥ 003c
पुत्रशोकापहं श्रुत्वा धन्यमाख्यानमुत्तमम् । 004a
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम् ॥ 004c
विस्मयेन हृते शोके तमसीवार्कतेजसा । 005a
विपाप्माऽस्म्यव्यथोपेतो ब्रूहि किं करवाण्यहम् ॥ 005c
नारद उवाच 006
दिष्ट्यापहतशोकस्त्वं वृणीष्वेह यदिच्छसि । 006a
तत्ते सम्पत्स्यते सर्वं न मृषावादिनो वयम् ॥ 006c
सृञ्जय उवाच 007
पावितोऽहमनेनैव प्रसन्नो यद्भवान्मम । 007a
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम् ॥ 007c
नारद उवाच 008
पुनर्ददामि ते पुत्रं दस्युभिर्निहतं वृथा । 008a
उद्धृत्य नरकात्कष्टात्पशुवत्प्रोक्षितं यथा ॥ 008c
व्यास उवाच 009
प्रादुरासीत्ततः पुत्रः सृञ्जयस्याद्भुतप्रभः । 009a
प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः ॥ 009c
ततः सङ्गम्य पुत्रेण प्रीतिमानभवन्नृपः । 010a
ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः ॥ 010c
अकृतार्थश्च भीतश्च न च सन्नाहकोविदः । 011a
अयज्वाचानपत्यश्च ततोऽसौ जीवितः पुनः ॥ 011c
शूरो वीरः कृतार्थश्च प्रमथ्यारीन्सहस्रशः । 012a
अभिमन्युर्गतः स्वर्गं सङ्ग्रामेऽभिमुखाहतः ॥ 012c
ब्रह्मचर्येण याँल्लोकान्प्रजया च श्रुतेन च । 013a
इष्टैश्च क्रतुभिर्यान्ति तांस्ते पुत्रोऽक्षयान्गतः ॥ 013c
विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः । 014a
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः ॥ 014c
तस्मात्स्वर्गगतं पुत्रमर्जुनस्य हतं रणे । 015a
न चेहानयितुं शक्यं किञ्चिदप्राप्यमीहितम् ॥ 015c
यां योगिनो ध्यानविविक्तदर्शनाः प्रयान्ति यां चोत्तमयज्विनो जनाः । 016a
तपोभिरिद्धैरनुयान्ति यां तथा तामक्षयां ते तनयो गतो गतिम् ॥ 016c
अन्तात्पुनर्भावगतो विराजते राजेव वीरो ह्यमृतात्मरश्मिभिः । 017a
तामैन्दवीमात्मतनुं द्विजोचितां गतोऽभिमन्युर्न स शोकमर्हति ॥ 017c
एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यमाप्नुहि । 018a
जीवन्हि पुरुषः शोच्यो न तु स्वर्गगतोऽनघ ॥ 018c
शोचतो हि महाराज अघमेवाभिवर्धते । 019a
तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद्बुधः ॥ 019c
प्रहर्षं प्रीतिमानन्दं प्रियमुत्सिक्तचित्तताम् । 020a
एतदाहुर्बुधाः शौचमशौचं शोक उच्यते ॥ 020c
एवं विद्वन्समुत्तिष्ठ प्रयतो भव मा शुचः । 021a
श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च ॥ 021c
सर्वभूतसमत्वं च ब्रह्मणा चापि चोदितम् । 022a
सृञ्जयस्य तु पुत्रोऽसौ मृतः सञ्जीवितः श्रुतः ॥ 022c
एवं विद्वन्महाराज मा शुचः साधयाम्यहम् । 023a
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ॥ 023c
वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे । 024a
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम् ॥ 024c
पूर्वेषां पार्थिवेन्द्राणां महेन्द्रप्रतिमौजसाम् । 025a
न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसम्पदम् ॥ 025c
सम्पूज्य मनसा विद्वान्विशोकोऽभूद्युधिष्ठिरः । 026a
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम् ॥ ॥ 026c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥
5-71-5 विस्मयेन पुण्याख्यानश्रवणजनितचित्तविस्तारेण ॥ 5-71-15 नेहानियतिना ह्यस्य किं चिदव्याप्तमीहते इति क. पाठः । न चेहानयितुं शक्यं किं चिरं प्राप्यमीहता इति ङ. पाठः । नेहानियतिना ह्यस्य किञ्चिदप्राप्यमीशितुः इति ड.पाठः ॥ 5-71-17 अन्तान्मरणात् । भावगतः सम्पत्प्राप्तः । द्विजोचितां द्विजैरभिमताम् ॥ 5-71-19 अघं दुःखम् ॥ 5-71-71 एकसप्ततितमोऽध्यायः ॥