श्रीः
अध्यायः 070
सृञ्जयम् प्रति नारदेन परशुरामप्रभाववर्णनम् ॥ 1 ॥
नारद उवाच 001
रामो महातपाः शूरो वीरो लोकनमस्कृतः । 001a
जामदग्न्योऽप्यतियशा अवितृप्तो मरिष्यति ॥ 001c
यश्चास्त्रमनुपर्येति भूमिं कुर्वन्विपांसुलाम् । 002a
न चासीद्विक्रिया यस्य प्राप्य श्रियमनुत्तमाम् ॥ 002c
'जामदग्न्यो न ते राजन्कच्चिच्छ्रोत्रमुपागतः । 003a
येनैकेन पुरा राजन्क्रुद्धेन हतबन्धुना ॥ 003c
भृगुभिस्ताम्यमानेन त्राहि रामेति विस्वरम् । 004a
त्रिःसप्तकृत्वो भूमिर्यत्कृता निःक्षत्रिया पुरा ॥' 004c
यः क्षत्रियैः परामृष्टे वत्से पितरि चाब्रुवन् । 005a
ततोऽवधीत्कार्तवीर्यमजितं समरे परैः ॥ 005c
क्षत्रियाणां चतुःषष्टिमयुतानि सहस्रशः । 006a
तदा मृत्योः समेतानि एकेन धनुषाऽजयत् ॥ 006c
ब्रह्मद्विषां चाथ तस्मिन्सहस्राणि चतुर्दश । 007a
पुनरन्यान्निजग्राह दन्तकूरे जघान ह ॥ 007c
सहस्रं मुसलेनाहन्सहस्रमसिनाऽवधीत् । 008a
उद्बन्धनात्सहस्रं च सहस्रमुदके कृतम् ॥ 008c
दन्तान्भङ्क्त्वा सहस्रस्य भिन्नकर्णांस्तथाऽकरोत् । 009a
ततः सप्तसहस्राणां कटुधूपमपाययत् ॥ 009c
शिष्टान्वध्वा च हत्वा वै तेषां मूर्ध्नि विभिद्य च । 010a
गुणावतीमुत्तरेण खाण्डवाद्दक्षिणेन च । 010c
गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः ॥ 010e
सरथाश्वगजा वीरा निहतास्तत्र शेरते । 011a
पितुर्वधामर्षितेन जामदग्न्येन धीमता ॥ 011c
निजघ्ने दशसाहस्रान्रामः परशुना तदा । 012a
न ह्यमृष्यत ता वाचो यास्तैर्भृशमुदीरिताः ॥ 012c
भृगौ रामाभिधावेति यदाक्रन्दन्द्विजोत्तमाः । 013a
ततः काश्मीरदरदान्कुन्तिक्षुद्रकमालवान् ॥ 013c
अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान् । 014a
रक्षोवाहान्वीतिहोत्रांस्त्रिगर्तान्मार्तिकावतान् ॥ 014c
शिबीनन्यांश्च राजन्यान्देशान्देशान्सहस्रशः । 015a
निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान् ॥ 015c
कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः । 016a
इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च ॥ 016c
रुधिरस्य परीवाहैः पूरयित्वा सरांसि च । 017a
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः ॥ 017c
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः । 018a
वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम् ॥ 018c
सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम् । 019a
ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम् ॥ 019c
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः । 020a
ततः शतसहस्राणि द्विपेन्द्रान्हेमभूषणान् ॥ 020c
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम् । 021a
कश्यपाय ददौ रामो हयमेधे महामखे ॥ 021c
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । 022a
इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत ॥ 022c
सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः । 023a
रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया ॥ 023c
स कश्यपस्य वचनात्प्रोत्सार्य सरिताम्पतिम् । 024a
इषुपाते युधां श्रेष्ठः कुर्वन्ब्राह्मणशासनम् ॥ 024c
अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम् । 025a
एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः ॥ 025c
जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः । 026a
त्वया चतुर्भद्रतरः पुण्यात्पुण्यतरस्तव ॥ 026c
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः । 027a
एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः । 027c
मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय ॥ ॥ 027e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्ततितमोऽध्यायः ॥ 70 ॥
5-70-1 ये मृतास्तेऽतीता ये वर्तमानास्तेऽपि । मरिष्यन्त्येवेत्याह राम इति ॥ 5-70-5 क्षत्रियैः कार्तवीर्यपुत्रैः । अब्रुवन्नविकत्थयन् ॥ 5-70-6 मृत्योर्मृत्युमवधीकृत्य ॥ 5-70-7 तस्मिंस्तन्मध्ये एव । दन्तक्रूरमिति पाठे तद्देशाधिपतिम् ॥ 5-70-8 उद्बन्धनाद्वृक्षशाखावलम्बनात् ॥ 5-70-9 कणधूममपाययत् इति क. ङ. पाठः ॥ 5-70-12 तैराश्रमवासिभिः ॥ 5-70-18 अष्टनलेत्यत्र नलशब्दश्चतुर्हस्तवचनः ॥ 5-70-70 सप्ततितमोऽध्यायः ॥