श्रीः
अध्यायः 069
नारदेन सृञ्जयम् प्रति पृथुचरित्रकथनम् ॥ 1 ॥
नारद उवाच 001
पुथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम । 001a
यमभ्यषिञ्चत्सम्मन्त्र्य राजसूये महर्षयः ॥ 001c
अयं नः प्रथयिष्येत सर्वानित्यभवत्पृथुः । 002a
क्षतान्नस्त्रास्यते सर्वानित्येवं क्षत्रियोऽभवत् ॥ 002c
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् । 003a
ततो राजेति नामास्य अनुरागादजायत ॥ 003c
अकृष्टपच्या पृथिवी आसीद्वैन्यस्य कामधुक् । 004a
सर्वाः कामदुघा गावः पुटकेपुटके मधु ॥ 004c
आसन्हिरण्मया वृक्षाः सुखस्पर्शाः सुखावहाः । 005a
तेषां चीराणि संवीताः प्रजास्तेष्वेव शेरते ॥ 005c
फलान्यमृतकल्पानि स्वादूनि च मधूनि च । 006a
तेषामासीत्तदाऽऽहारो निराहाराश्च नाभवन् ॥ 006c
अरोगाः सर्वसिद्धार्था मनुष्या ह्यकुतोभयाः । 007a
न्यवसन्त यथाकामं वृक्षेषु च गुहासु च ॥ 007c
प्रविभागो न राष्ट्राणां पुराणां चाभवत्तदा । 008a
यथासुखं यथाकामं तथैता मुदिताः प्रजाः ॥ 008c
तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः । 009a
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ 009c
तं वनस्पतयः शैला देवासुरनरोरगाः । 010a
सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च । 010c
पितरश्च सुखासीनमभिगम्येदमब्रुवन् ॥ 010e
सम्राडसि क्षत्रियोऽसि राजा गोप्ता पिताऽसि नः । 011a
देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान्वरान् । 011c
यैर्वयं शाश्वतं तृप्ता वर्तयिष्यामहे सुखम् ॥ 011e
'विज्ञापितः प्रजाभिस्तु प्रजानां हितकाम्यया । 012a
धनुर्गृह्य पृषत्कांश्च वसुधामाद्रवद्बली ॥ 012c
ततो वैन्यभयाद्राजन्गौर्भूत्वा प्राद्रवन्मही । 013a
तां पृथुर्धनुरादाय द्रवन्तीमन्वसारयत् ॥ 013c
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयार्दिता । 014a
सा ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् ॥ 014c
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजःसमद्युतिम् । 015a
महायोगं महात्मानं दुर्धर्षममरैरपि ॥ 015c
अलभन्ती परित्राणं वैन्यमेवाभ्यपद्यत । 016a
कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा ॥ 016c
उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि । 017a
कथं धारयिता चासि प्रजा राजन्मया विना ॥ 017c
पृथुरुवाच 018
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा । 018a
एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकम् ॥ 018c
यस्मिंस्तु निहते भद्रे बहवः सुखमेधते । 019a
तस्मिन्हते त्वघं नास्ति पातकं नोपभुज्यते ॥ 019c
सोऽहं पालनिमित्तं त्वां वधिष्यामि वसुन्धरे । 020a
यदि चेद्वचनादद्य न करिष्यसि मे प्रियम् ॥ 020c
त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम् । 021a
आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयम् ॥ 021c
सुखं वचनमास्थाय मम धर्मभृतां वरे । 022a
सञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे ॥ 022c
दुहितृत्वं च मे गच्छ एवमेतन्महाशरम् । 023a
नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम् ॥ 023c
भूमिरुवाच 024
सर्वमेतन्महाराज विधास्यामि परन्तप । 024a
वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला ॥ 024c
समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर । 025a
यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये ॥ 025c
नारद उवाच 026
तत उत्सारयामास शिलाजालानि सर्वशः । 026a
पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः ॥ 026c
न हि पूर्वनिसर्गे वै विषमे वसुधातले । 027a
प्रविभागः पुराणां वा ग्रामाणां वा महीपते ॥ 027c
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । 028a
वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः ॥ 028c
यत्रयत्र च साम्यं तु भूमावासीत्किलानघ । 029a
तत्रतत्र प्रजास्तात निवासमभिरोचयन् । 029c
कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम ॥ 029e
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः । 030a
शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम् ॥ 030c
पृथुरुवाच 031
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः । 031a
मच्छासनातिगां वै त्वां प्रमथिष्याम्यहं शरैः ॥ 031c
नारद उवाच 032
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम् । 032a
भूमिरुवाच 032
वत्सं पात्राणि दोग्धॄंश्च क्षीराणि च समादिश ॥ 032c
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम् । 033a
दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि ॥ 033c
नारद उवाच ' 034
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी । 034a
ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा ॥ 034c
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः । 035a
साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती ॥ 035c
वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा । 036a
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम् ॥ 036c
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः । 037a
रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा ॥ 037c
'देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा ।' 038a
दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम् ॥ 038c
असुरा दुदुहुर्मायामयःपात्रे तु तां तदा । 039a
दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः ॥ 039c
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले । 040a
स्वायम्भुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः ॥ 040c
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा । 041a
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः ॥ 041c
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः । 042a
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट् ॥ 042c
अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट् । 043a
दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः ॥ 043c
पुण्यगन्धान्पद्मपात्रे गन्धर्वाप्सरसोऽदुहन् । 044a
वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः ॥ 044c
स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम् । 045a
वत्सो वैवस्वतस्तेषां यमो दोग्धान्तकस्तदा ॥ 045c
एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट् । 046a
यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः ॥ 046c
यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान् । 047a
सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः ॥ 047c
हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि । 048a
तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे ॥ 048c
स षष्टिं गोसहस्राणि षष्टिं नागशतानि च । 049a
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ ॥ 049c
इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम् । 050a
सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ ॥ 050c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 051a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 051c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 051e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनसप्ततितमोऽध्यायः ॥ 69 ॥
5-69-1 ध्वजभङ्गस्तोरणादिना ॥ 5-69-39 द्विमूर्धा शुक्रोऽभूत् इति क. ङ. ड. पाठः ॥ 5-69-43 विराट् पृथिवी । वत्सश्चासीत्कुबेरकः इति क. पाठः ॥ 5-69-44 दोग्धा वसुरपि प्रभुः इति क. ङ. ड. पाठः ॥ 5-69-45 वत्सोऽत्र वत्सरस्तेषां क. ङ. पाठः ॥ 5-69-46 निवर्तयन्ति ते रुद्रादिष्टे वैन्येन सर्वशः इति क. पाठः । यैर्वर्तयन्ति ते तृप्तादिष्टे वैन्येन सर्वशः इति ङ. पाठः । ये वर्षयन्ति ते पात्रैः वत्सैर्दोग्धैश्च नित्यशः इति ङ. पाठः ॥ 5-69-48 पार्थिवाः पृथ्वीसम्बन्धिपदार्थाः ॥ 5-69-69 एकोनसप्ततितमोऽध्यायः ॥