श्रीः
अध्यायः 068
नारदेन सृञ्जयम् प्रति भरतचरितकथनम् ॥ 1 ॥
नारद उवाच 001
दौष्यन्ति भरतं चापि मृतं सृञ्जय शुश्रुम । 001a
कर्माण्यसुकराण्यन्यैः कृतवान्यः शिशुर्वने ॥ 001c
हिमावदातान्यः सिंहान्नखदंष्ट्रायुधान्बली । 002a
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च ॥ 002c
क्रूरांश्चोग्रतरान्व्याघ्रान्दमित्वा चाकरोद्वशे । 003a
मनःशिला इव शिलाः संयुक्ता जतुराशिभिः ॥ 003c
व्यालादींश्चातिबलवान्सुप्रतीकान्गजानपि । 004a
दंष्ट्रासु गृह्य विमुखाञ्शुष्कास्यानकरोद्वशे ॥ 004c
महिषानप्यतिबलो बलिनो विचकर्ष ह । 005a
सिंहानां च सुदृप्तानां शतान्याकर्षयद्बलात् ॥ 005c
बलिनः सृमरान्खड्गान्नानासत्त्वानि चाप्युत । 006a
कृच्छ्रप्राणान्वने बद्ध्वा दमयित्वाप्यवासृजत् ॥ 006c
तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा । 007a
तं प्रत्यषेधज्जननी मा सत्वानि व्यनीनशः ॥ 007c
सोऽश्वमेधशतेनेजे यमुनामनु वीर्यवान् । 008a
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥ 008c
सोऽश्वमेधसहस्रेण राजसूयशतेन च । 009a
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः ॥ 009c
अग्निष्टोमातिरात्राणामुक्थ्यविश्वजितां च सः । 010a
वाजपेयसहस्राणां सहस्रैश्च सुसंवृतैः ॥ 010c
इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः । 011a
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ । 011c
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥ 011e
यस्य यूपाः शतव्यामाः परिणाहेन काञ्चनाः । 012a
समागम्य द्विजैः सार्धं सेन्द्रैर्देवैः समुच्छ्रिताः ॥ 012c
अलङ्कृतान्राजमानान्सर्वरत्नैर्मनोहरैः । 013a
हैरण्यान्द्विरदानश्वान्रथानुष्ट्रानजाविकान् ॥ 013c
दासी दासं धनं धान्यं गाः सवत्साः पयस्विनीः । 014a
ग्रामान्गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान् ॥ 014c
कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत । 015a
चक्रवर्ती ह्यदीनात्मा जितारिर्ह्यजितः परैः ॥ 015c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 016a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 016c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 016e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टषष्टितमोऽध्यायः ॥ 68 ॥
5-68-1 शुचिर्वने इति क. ङ. ड. पाठः ॥ 5-68-3 क्रूरानिति । यथा मनःशिलामयाः शिलाः जतुराशिभिर्लाभापुञ्जैर्युक्तास्तत्सदृशान् रक्तबिन्दुयुक्तान् रक्तपीतवर्णान् व्याघ्रविशेषान् वशेऽकरोदित्यर्थः । शिलाः प्रभुत्वाज्जनकाशिनः इति क. पाठः ॥ 5-68-12 व्यामो हस्तचतुष्टयम् । परिणाहेन दैर्घ्येण ॥ 5-68-68 अष्टषष्टितमोऽध्यायः ॥