श्रीः
अध्यायः 067
नारदेन सृञ्जयम् प्रति रन्तिदेवचरित्रकीर्तनम् ॥ 1 ॥
नारद उवाच 001
साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम । 001a
यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः ॥ 001c
गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः । 002a
पक्वम्पक्वं दिवारात्रं वरान्नममृतोपमम् ॥ 002c
न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत । 003a
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे ॥ 003c
उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम् । 004a
बहवः स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम् ॥ 004c
नदी महानसाद्यस्य प्रवृत्ता चर्मराशितः । 005a
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा ॥ 005c
ब्राह्मणेभ्यो ददन्निष्कान्सौवर्णान्स प्रभावतः । 006a
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते ॥ 006c
तुभ्यन्तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः । 007a
ततः पुनः समाश्वास्य निष्कानेव प्रयच्छति ॥ 007c
अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः । 008a
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन् ॥ 008c
द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत् । 009a
भविष्यति न सन्देह एवं राजाऽददद्वसु ॥ 009c
सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान् । 010a
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा ॥ 010c
अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः । 011a
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत् ॥ 011c
ऋषिभ्यः करकान्कुम्भान्स्थालीः पिठरमेव च । 012a
शयनासनयानानि प्रासादांश्च गृहाणि च ॥ 012c
वृक्षांश्च विविधान्दद्यादन्नानि च धनानि च । 013a
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः ॥ 013c
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः । 014a
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम् ॥ 014c
नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि । 015a
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति ॥ 015c
व्यक्तं वस्वोकसारेयमित्यूचुस्तत्र विस्मिताः । 016a
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत् ॥ 016c
आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः । 017a
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ॥ 017c
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा । 018a
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा ॥ 018c
तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत । 019a
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः ॥ 019c
कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः । 020a
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥ 020c
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 021a
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 021c
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तषष्टितमोऽध्यायः ॥ 67 ॥
5-67-3 न्यायेनाधिगतं वित्तं येनाक्षय्यं नगोपमम् इति क. ङ. पाठः ॥ 5-67-8 एकान्हा दास्यति पुनः कोऽन्यस्तत्सम्प्रदास्यति इति घ. झ. पाठः ॥ 5-67-10 पारिभाषिकं निष्कमाह सहस्रश इति ॥ 5-67-11 अध्यर्धमासं पक्षे पक्षे इत्यर्थः । शतं समा इति वाक्यशेषात् ॥ 5-67-15 धनं च पूर्णमासाद्य इति घ. ङ. पाठः ॥ 5-67-16 वस्वोकसारा सलोप आर्षः । कनकमयानि ओकांसि सारो यस्याः सा तथा ॥ 5-67-18 नाद्याश्नीत यथा पुरा इति क. पाठः ॥ 5-67-67 सप्तषष्टितमोऽध्यायः ॥