श्रीः
अध्यायः 066
नारदेन सृञ्जयम् प्रति गयगुणानुवर्णनम् ॥ 1 ॥
नारद उवाच 001
गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम । 001a
ये वै वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥ 001c
तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः । 002a
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ॥ 002c
गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम् । 003a
स्वधर्मेणाविहिंस्यान्यान्धनमिच्छामि चाक्षयम् ॥ 003c
विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः । 004a
कन्यासु च सवर्णासु सुप्रजस्त्वं च मे भवेत् ॥ 004c
अन्नमोजो महो मह्यं धर्मे मे रमतां मनः । 005a
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक ॥ 005c
तथा भविष्यतीत्युक्त्वा तत्रैवान्तरधीयत । 006a
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत् ॥ 006c
स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च । 007a
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः ॥ 007c
अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम् । 008a
गवां शतसहस्राणि शतमश्वशतानि च ॥ 008c
शतं निष्कसहस्राणि गवां चाप्ययुतानि षट् । 009a
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम् ॥ 009c
नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः । 010a
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा ॥ 010c
सौवर्णां पृथिवीं कृत्वा य इमां मणिशर्कराम् । 011a
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे ॥ 011c
जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः । 012a
गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः ॥ 012c
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा । 013a
ब्राह्मणेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च ॥ 013c
ससमुद्रवनद्वीपनदीनदवनेषु च । 014a
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन् ॥ 014c
भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा । 015a
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन् ॥ 015c
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता । 016a
पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी ॥ 016c
गयस्य यजमानस्य मुक्तावज्रमणिस्तृता । 017a
प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च ॥ 017c
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः । 018a
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ 018c
कुल्याश्च क्षीरवाहिन्यो रसानां चाभवंस्तदा । 019a
वस्त्राभरणगन्धानां राशयश्च पृथग्विधाः ॥ 019c
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः । 020a
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत् ॥ 020c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 021a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 021c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 021e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्षष्टितमोऽध्यायः ॥ 66 ॥
5-66-1 गयं चामूर्तरयसम् इति घ. झ.पाठः ॥ 5-66-4 पात्रेषु ददतः सामे श्रद्धा भवतु इति क. ङ. ड. पाठः ॥ 5-66-7 पौर्णमासाभ्यम् इति घ. पाठः ॥ 5-66-10 नक्षत्रविहिता दक्षिणाः ॥ 5-66-20 यस्य प्रसादाद्गायत्री त्रिषु लोकेषु विश्रुता इति क. पाठः ॥ 5-66-66 षट्षष्टितमोऽध्यायः ॥