श्रीः
अध्यायः 065
नारदेन सृञ्जयम् प्रति शशिबिन्दुयशोनुवर्णनम् ॥ 1 ॥
नारद उवाच 001
शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम । 001a
य ईजे विविधैर्यज्ञैः श्रीमान्सत्यपराक्रमः ॥ 001c
तस्य भार्यासहस्राणां शतमासीन्महात्मनः । 002a
एकैकस्यां च भार्यायां सहस्रं तनयाभवन् ॥ 002c
ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः । 003a
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः ॥ 003c
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः । 004a
सर्वेऽश्वमेधैरीजानाः कुमाराः शशिबिन्दवाः ॥ 004c
तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योऽददत्पिता । 005a
शतंशतं रथगजा एकैकं पृष्ठतोऽन्वयुः ॥ 005c
राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः । 006a
कन्याङ्कन्यां शतं नागा नागेनागे शतं रथाः ॥ 006c
रथेरथे शतं चाश्वा बलिनो हेममालिनः । 007a
अश्वेअश्वे गोसहस्रं गवां पञ्चाशदाविकाः ॥ 007c
एतद्धनमपर्याप्तमश्वमेधे महामखे । 008a
शशिबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत ॥ 008c
वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे । 009a
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाभवन् ॥ 009c
भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः । 010a
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश ॥ 010c
तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम् । 011a
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः ॥ 011c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 012a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 012c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 012e
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
5-65- त्रयोदशात्र निचयाः शिष्टाः ॥ 5-65- पञ्चषष्टितमोऽध्यायः ॥ 65 ॥