श्रीः अध्यायः 064 नारदेन सृञ्जयम् प्रत्यम्बरीषविभवाभिधानम् ॥ 1 ॥ नारद उवाच 001
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम । 001a
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत् ॥ 001c
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः । 002a
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः ॥ 002c
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च । 003a
छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः ॥ 003c
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः । 004a
शरण्यमीयुः शरणं तव स्म इति वादिनः ॥ 004c
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम् । 005a
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः ॥ 005c
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा । 006a
तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः ॥ 006c
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः । 007a
करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च ॥ 007c
सूपान्मैरेयकापूपान्रागषाडवपानकान् । 008a
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च ॥ 008c
घृतं मधु पयस्तोयं दधीनि रसवन्ति च । 009a
फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते ॥ 009c
मदनीयानि पापानि विदित्वा चात्मनः सुखम् । 010a
अपिबन्त यथाकामं पानपा गीतवादितैः ॥ 010c
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च । 011a
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः ॥ 011c
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत् । 012a
राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम् ॥ 012c
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान् । 013a
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान् ॥ 013c
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् । 014a
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च ॥ 014c
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत । 015a
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ॥ 015c
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः । 016a
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः ॥ 016c
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । 017a
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । 017c
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥ 017e

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये चतुःषष्टितमोऽध्यायः ॥ 64 ॥

5-64-8 सूपाद्योरण्डकान्यूषान् इति क. ङ. पाठः ॥ 5-64-10 मादनीयानि मदकराणि सुरादीनि । पापानि पापहेतूनीति ज्ञात्वापि सुखलिप्सवः पिबन्तीत्यर्थः । मदनीयानि पानानि विदंशानात्मनः प्रियान् । पपुस्तत्र यथाकामं पानपा(का) गीतकाः परम् इति क. पाठः॥ 5-64-12 अत्यकालयद्दातुं निष्कासितवान् । जिता राजान एव सोपस्करदक्षिणात्वेन दत्ताः । तेषां राज्यानि ते राजानश्च ब्राह्मणसात्कृता इत्यर्थः ॥ 5-64-64 चतुःषष्टितमोऽध्यायः ॥